०५ ब्रह्म-यज्ञ-क्रमः

एवं तर्पयित्वा ऽऽचम्य ब्रह्म-यज्ञं तैत्तिरीय-श्रुत्य्-आद्य्-अनुसारेण उदित-आदित्ये यथा-विधि कुर्यात् ।

यथा - सङ्कल्प्य “विद्युद्-असी"त्य् अपः पीत्वा ऽऽचम्य प्राणानायम्य स-पवित्रौ करौ दक्षिणोत्तरौ कृत्वा “तत्-सवितुर्” इति पच्छोर्धर्चशस् ततः सर्वा व्याहृतीर् विहृताः पादादिषु अन्तेषु वा तथार्धर्चयोर् उत्तमां कृत्स्नाम् इति ब्रह्मोपदेशोक्त-क्रमेण स-प्रणवम् उच्चार्य “हरिर् ओम्” इत्य् उच्चार्य “भूर् भुवस् सुवस् सत्यं तपः श्रद्धायां जुहोमी"त्य् उक्त्वा

स्वयम्भुवे नमः । सरस्वत्यै नमः । सावित्र्यै नमः। श्रियै नमः । श्रियः पतये नमः । प्राणाय वाचस्पतये नमो वाचे प्राण-पत्नै।

[[24]]

“अधीहि भो” इत्य् आदित्यम् अभिवीक्ष्य औपासन-वैश्व-देवान्ते “अधीहि भो” इति गार्हपत्यम् औपासनं (वह्नि-मात्रे) अभिमन्त्र्य गुरु-समीपे गुरुं तथोक्त्वा तस्माद् अनुज्ञां प्राप्य “यो ब्रह्माणं विदधाती"त्यृचा मूल-मन्त्रेण द्वयेन च भगवन्तं नारायणं प्रणम्य वेदाचार्येभ्यो नमः “ओं वेद-व्यासाय नम” इत्य् उच्चार्य “ओं तत् सत्” इत्य् उक्त्वा चतुरो वेदादीन् अधीत्य “नमो ब्रह्मण” इति परिधानीयान् त्रिर् उक्त्वा “वृष्टिर् असी"त्य् अप उपस्पृश्य आचम्य काण्डर्षि-देवर्षि-पितृ-तर्पणं तत्-तत्-तीर्थेनैव यथा स्व-शाखं कृत्वा ऽऽचम्य ब्रह्मार्पणं कुर्यात् । एवं प्रकारेण तर्पणाद् अर्वाग् वा प्रातर् औपासनानन्तरं वा वैश्वदेवावसाने मनुष्य-यज्ञानन्तरं वा ब्रह्म-यज्ञं कुर्यात् । अत्र स्व-शाखाध्ययनम् एव प्रथमतः कार्यम् । अधीतान्य-वेदश् चेत् तस्य पश्चाद् अध्ययनं ब्रह्म-यज्ञेन कार्यम् । प्रश्नाध्यायासमर्थो यथा-शक्ति क्रमाद् अनुवाकं वा सूक्तं वा साम-वर्गं वा ऽधीयीत । नाधीत-वेदस् तु ब्रह्म-यज्ञे गायत्रीं मूल-मन्त्रं च यथा-शक्ति जपेत् । अन्-अधीत-वेदो ऽशक्तो वा ब्रह्म-यज्ञे पुरुष-सूक्तं होतॄन् वा अथर्व-शिरसा वा जपेत् । अधित-वेदो ऽन्-अधीत-वेदो ऽपि नित्य-प्रश्नानन्तरं वैकल्पिक-पुरुष-सूक्त-होतृ-अथर्व-शिरो जपानन्तरं “नमो ब्रह्मण” इति परिधानीयायाः पूर्वं नित्यं कूश्माण्डानुवाक-चतुष्टयं “अग्निर्मूर्धा दिवः ककुदि"ति छन्दस् सज्ञं संहिता-गतानुवाकं च जपेत् । अत्र बोधायनः ।

जघनेन गार्ह-पत्यम् उपविश्य औपासनस्य वा अधीहि भो

इति गार्ह-पत्यम् उक्त्वा प्राणायामैस् त्रिर् आचम्य सावित्रीं सहस्र-कृत्वो ऽऽवर्तयेत् शत-कृत्वो ऽपरिमित-कृत्वो वा दश-वारं वेदादयश् छन्दांसि कूश्माण्डानि चाधीतेति । भुक्तस्य ब्रह्म-यज्ञे ऽन्-अधिकारः ।

[[25]]

अस्पृश्याशौच-दुष्टस्यानध्यायः । अदुष्टस्यापि अ-मेध्य-शव-शूद्रान्त्य-पतितान्तिक-देशे ऽन्-अध्यायः यथाध्यायं अध्यायः पदस्य क्रमस्य वा ऽध्यायः । अन्नाद्य्-अकामो निर्भुजं ब्रूयात् । स्वर्ग-कामः प्रतृण्णम् उभय-कामः उभयम् अन्तरेणेति । ऋग्-वेदारण्यकोक्तेः । अत्र निर्भुज-शब्देन संहिता, प्रतृण्ण-शब्देन पदं उभयम् अन्तरेणेति शब्देन क्रमः उच्यते । उच्चैर् अध्येतव्यम् न तु मनसा । विद्युदाद्य्-अन्-अध्यायेष्व् अप्य् अध्येतव्यम् । अनियत-प्रश्नाध्यायिनः अन्-अध्यायेषु अल्पम् एव अध्ययनं कार्यम् । संहिता-शाखा-काठकारण्यानि वैश्वदेव-मन्त्र–मन्त्र-प्रश्रौ च पठेत् । पुनश् चैवम् इति ब्रह्म-यज्ञे ऽध्ययन-क्रमो बोध्यः । ऋग्-वेदिनां संहिता-ब्राह्मणारण्यकानीति क्रमः । साम-वेदिनां प्रकृति-ऋग्-ग्रन्थोत्तरा-ग्रन्थ-प्रकृत्य्-ऊह-रहस्य-गत-साम-महा-ब्राह्मण-षड्-विंश-साम-विधानार्षेय-देवताध्यायोपनिषत्-संहितोपनिषद्-वंश-ब्राह्मणानीति क्रमः। सायं कालात् प्राग्-एव ब्रह्म-यज्ञः कर्तव्यः । अथावाहित-तीर्थं मन्त्रांश् च स्वात्मनि समाहृत्य तीर्थासन्न-विष्ण्व्-आयतनं गत्वा प्रदक्षिणानि प्रणामांश् च युग्मानि कृत्वा विष्वक्सेनं तत्-तत्-द्वार-पालांश् च प्रणम्यानुज्ञाप्य भगवन्-मन्दिरं प्रविश्य भगवन्तम् अष्टाङ्गेन तत्-तद्-देश-काल-शक्येन मस्तिष्क-सम्पुट-प्रह्वाङ्ग-पञ्चाङ्ग-दण्डाङ्गादिष्व् अन्यतमेन वा प्रणम्य भगवतः पुरस्ताद् दक्षिणतो ऽवस्थाय गुरु-परम्परया परम-गुरुं भगवन्तं शरणम् उपगम्य पावन-मनो-हर-तद्-दर्शनानन्दोपबृंहित-सर्वाङ्गः प्रीति-परिहार-रूप-पाणिः स्तव्यस् तव-प्रिय-वशीकरणानि स्तोत्राणि पठित्वा भगवत्-सेवया ऽऽत्मानं कृतार्थं मन्यमानो यथा-शक्त्य् उपहार-निवेदनं पुष्पादि-प्रदानं च कृत्वा भगवद्-अनुज्ञया क्वचिन् निभृतम् उपविश्य जपादिभिर् भगवन्तम् उपासीत । भगवन्-मन्दिरे च तत्-तच्-छास्त्रोदितान् अपचारान् परिहरेत् ।

[[26]]

ततः श्रीमन् नारायणं पूर्ववत् प्रणम्य विष्वक्सेनादीन् अनुज्ञाप्य भगवन्-मन्दिरान् निर्गत्य स्व-देवाधिष्ठितं स्वाश्रमं गृहं वा गन्तुम् उद्युक्तो ऽभ्युक्षणं जलं सौवर्ण-रजत-ताम्रादि–लोह-मय–मृण्-मय–पात्रेषु दृढेष्व् आदाय संयतात्मा वाग्-यतो गृहम् आगत्य अन्येन जलेन सुप्रक्षालित-पाणि-पादः स्वाचान्तो “वास्तोष्पत” इति सूक्तं जपन् भगवन्-मन्दिरं संमृज्यानुशोध्य आवाहित-तीर्थेन गो-मयेनानुलिप्य “आनो भद्रा” इति सूक्तेन रङ्ग-वल्लीं निक्षिपेत्। ततः स्वर्णं कुशं वा ऽभ्युक्षणोद-पात्रे निक्षिप्य होम-पूर्वं याग-भूमिम् अ-शेषाणि द्रव्याणि तद्-उचित-स्थानानि च सम्प्रोक्ष्याचामेत् । एवं त्रि-सन्ध्यम् अभ्युक्षणं कुर्यात् । नाप्रोक्षिते यजेत् । न निषिद्ध-पात्रेष्व् अभ्युक्षणम् आहरेत् । (अभिगुप्तम् आहरेत् पाणिना वस्त्रेण च नाहरेत्) शूद्रः कन्यानुपेतो वा नाहरेत् । अ-व्रत–एक-वस्त्रो वा नाहरेत् । न सव्येन पाणिना प्रोक्षयेत् । ततः श्रौत-स्मार्तश् चाग्निः यस्य स-सूत्र-विधिना पूर्वं श्रौतं होमं कृत्वा स्मार्तं होमं कुर्यात् ।