यथा -
ओं आधार-शक्तिं तर्पयामि । प्रकृतिं तर्पयामि । सकल-जगद्-आधारं कूर्म-रुपिणं नारायणं तर्पयामि । अन्-अन्तं नाग-राजं तर्पयामि । भूमिं तर्पयामि । श्री-वैकुण्ठ-दिव्य-लोकं तर्पयामि। श्री-वैकुण्ठ-दिव्य-जन-पदं तर्पयामि । श्री-वैकुण्ठ-दिव्य-नगरं तर्पयामि । श्री-वैकुण्ठ-दिव्य-विमानं तर्पयामि । आनन्दमयं दिव्य-मण्टप-रत्नं तर्पयामि । आस्तारण-रूपिणं अन्-अन्तं नाग-राजं तर्पयामि । धर्मं तर्पयामि । ज्ञानं तर्पयामि । वैराग्यं तर्पयामि । ऐश्वर्यं तर्पयामि । अ-धर्मं तर्पयामि । अ-ज्ञानं तर्पयामि । अ-वैराग्यं तर्पयामि । अन्-ऐश्वर्यं तर्पयामि । एभिः परिच्छिन्न-तनुं पीठ-भूतं सदात्मानम् अन्-अन्तं नाग-राजं तर्पयामि । ओं ऋग्-वेदं तर्पयामि । यजुर्-वेदं तर्पयामि । साम-वेदं तर्पयामि । अथर्वण-वेदं तर्पयामि । कृत-युगं तर्पयामि । त्रेता-युगं तर्पयामि ।
[[22]]
द्वापर-युगं तर्पयामि । कलि-युगं तर्पयामि | काल-चक्रं तर्पयामि । पीठ-भूतं नाग-राजं तर्पयामि। अष्ट-दल-पद्मं तर्पयामि । सूर्य-मण्डलं तर्पयामि । सोम-मण्डलं तर्पयामि । वह्नि-मण्डलं तर्पयामि । विमलां तर्पयामि । उत्कर्षिणीं तर्पयामि । ज्ञानां तर्पयामि । क्रियां तर्पयामि । योगां तर्पयामि। प्रभ्वीं तर्पयामि । ईशानां तर्पयामि । अनुग्रहां तर्पयामि । जगत्-प्रकृतिं दिव्य-योग-पर्यङ्कं तर्पयामि । सहस्र-शीर्षं नाग-राजं तर्पयामि । अन्-अन्तं पाद-पीठं तर्पयामि। सर्व-परिवाराणां पद्मासनानि तर्पयामि । अन्-अन्त-गरुड-विष्वक्सेनानां स-पीठक-पद्मासनानि तर्पयामि । अस्मद्-गुरुंस् तर्पयामि । परमात्मानं नारायणं तर्पयामि । श्रीं श्रियं तर्पयामि । भूं भूमिं तर्पयामि। नीं नीलां तर्पयामि । सर्वा भगवद्-दिव्य-महिषीस् तर्पयामि । किरीट-मकुटाधिपतिं तर्पयामि । किरीट-मालाम् आपीडात्मानं तर्पयामि । दक्षिण-कुण्डलं मकरात्मानं तर्पयामि । वाम-कुण्डलं मकरात्मानं तर्पयामि । वैजयन्तीं वन-मालां तर्पयामि श्रीमत्-तुलसीं तर्पयामि । श्री-वत्स-श्री-निवासं तर्पयामि । हारं सर्वाभरणाधिपतिं तर्पयामि । श्री-कौस्तुभं सर्व-रत्नाधिपतिं तर्पयामि । श्री-काञ्ची-गुणोज्ज्वलं पीताम्बरं तर्पयामि । सर्वाणि भगवद्-दिव्य-भूषणानि तर्पयामि । श्री-सुदर्शनं हेति-राजं तर्पयामि । नन्दकं खड्गाधिपतिं तर्पयामि । पद्मं तर्पयामि । पाञ्च-जन्यं शङ्खाधिपतिं तर्पयामि । शार्ङ्गं चापाधिपतिं तर्पयामि । कौमोदकीं गदाधिपां तर्पयामि । सर्वाणि भगवद्-आयुधानि तर्पयामि । सर्वा भगवत्-पादारविन्द-संवाहिनीस् तर्पयामि । अन्-अन्तं नाग-राजं तर्पयामि । सर्वान् भगवत्-परिचारकांस् तर्पयामि । भगवत्-पादुके तर्पयामि । सर्वान् भगवत्-परिच्छदांस् तर्पयामि। वैनतेयं तर्पयामि । विष्वक्सेनं तर्पयामि । गजाननं तर्पयामि ।
[[23]]
जय-सेनं तर्पयामि । हरि-वक्त्रं तर्पयामि । काल-प्रकृति-सज्ञं तर्पयापि । सर्वान् भगवद्-विष्वक्सेन-परिजनांस् तर्पयामि । चण्डं द्वार-पालं तर्पयामि । प्रचण्डं द्वार-पालं तर्पयामि । भद्रं द्वार-पालं तर्पयामि । सुभद्रं द्वार-पालं तर्पयामि । जयं द्वार-पालं तर्पयामि । विजयं द्वार-पालं तर्पयामि । धातारं द्वार-पालं तर्पयामि । विधातारं द्वार-पालं तर्पयामि । सर्वान् भगवद्-द्वार-पालान् तर्पयामि । कुमुदं गणाधिपतिं स-वाहन-परिवार-प्रहरणं तर्पयामि । कुमुदाक्षं गणाधिपतिं स-वाहन-परिवार-प्रहरणं तर्पयामि । पुण्डरीकं गणाधिपतिं स-वाहन-परिवार-प्रहरणं तर्पयामि । वामनं गणाधिपतिं स-वाहन-परिवार-प्रहरणं तर्पयामि | शङ्कु-कर्ण-गणाधिपतिं स-वाहन-परिवार-प्रहरणं तर्पयामि । सर्व-नेत्रं गणाधिपतिं स-वाहन-परिवार-प्रहरणं तर्पयामि । सुमुखं गणाधिपतिं स-वाहान-परिवार-प्रहरणं तर्पयामि । सुप्रतिष्ठितं गणाधिपतिं स-वाहन-परिवार-प्रहरणं तर्पयामि । सर्वान् भगवत्-पारिषदान् तर्पयामि ।