ततः स्वाचान्तः प्राणानायम्य प्रातस् सन्ध्या-वन्दनं सङ्कल्प्य गायत्र्या आपो ऽभिमन्त्र्य प्रणवेन प्रथमं व्याहृतिभिर् द्वितीयं गायत्र्या तृतीयं मार्जनं कृत्वा “आपोहिष्ठे"ति तिसृभिर् मार्जनं कृत्वा व्याहृतिभिस् स्वात्मानं परिषिच्य “सूर्यश्चे"त्य् आचम्य “दधिक्राव्ण्ण्” इति ‘आपोहिष्ठे"ति नवभिर् ऋग्भिर् “हिरण्य-वर्णा” इति चतसृभिः “पवमानस् सुवर्जन” इत्य् अनुवाकेन कूर्चेन च पुनर् मार्जयित्वा प्रणव-व्याहृतिभिस् स्वात्मानं परिषिञ्चेत्। एवं स्व-स्व-सूत्रोक्त-प्रकारेण कृत्वा गायत्र्या ऽभिमन्त्रितं जलम् आदित्य-मण्डलान्त-स्थिताय परमात्मने त्रिर् अर्घ्य-रूपं दत्त्वा कालाति-पत्ति-प्रायश्चित्तार्घ्यं च दत्त्वा, प्रणव-व्याहृतिभिर् आत्मानं परिषिच्य, वज्री-भूत-तज्-जल-निहत-मन्देहाख्य-रक्षा-निरसन-पापावधूननार्थं सकृत् प्रदक्षिणं कृत्वा “असावादित्यो ब्रह्मे"ति ध्यायन् आत्मानम् आलभ्योपविश्य मार्ग-शीर्षादि-मासेशान् केशवादीनि तत्-तन्-मन्त्रैस् तर्पयित्वा आचम्य शुचौ देशे प्राङ्-मुखस् तिष्ठन् यया-विधि प्राणायाम-त्रयं कृत्वा प्रणव-व्याहृति–गायत्री-शिरसा ऋषि-छन्दो देवताः ध्यात्वा “आयात्व्” इति गायत्रीम् आवाह्य प्रणव-युक्ताभिर् व्याहृतिभिस् सहितां गायत्रीं शिरसा सह दश-कृत्वो जपित्वा तुरीय-पादम् अष्टोत्तर-शतम् अष्टाविंशति-वारं दश-वारं वा जपित्वा प्रणव-व्याहृति-त्रय-युक्तां गायत्रीं अष्टोत्तर-सहस्र-कृत्वः अष्टोत्तर-शत-कृत्वो ऽष्टाविंशति-कृत्वो द्वादश-कृत्वो दश-कृत्वो ऽष्ट-कृत्वो वा मन्त्रार्थानुसन्धान-पुरस् सरं जपित्वा पूर्ववत् कृत-प्राणयाम-त्रयः सन्ध्योपस्थान-सङ्कल्प-पूर्वकम् “उत्तमे शिखर” इति मन्त्रेण गायत्रीम् अनुज्ञाप्य स्व-स्व-सूत्रोक्तैर् “मित्रस्ये"त्य् आदिभिर् मन्त्रैः आदित्य-मण्डलान्त-स्थितं भगवन्तम् उपस्थाय स-प्रदक्षिणं भगवद्-आत्मक-सन्ध्यादि-पञ्चक-नमस्कारं कृत्वा
स यश्चायं पुरुषे यश्चासावादित्ये स एकः”
इत्य् अधीतं हृदयान्त-स्थितं परमात्मानम् अभिवाद्य प्रणम्य दिग्-आदि-नमस्काराणाम् अपि स्व-पूर्व-पूर्वोपदेशानुष्ठान-पारम्पर्यम् अस्ति चेत् तत्रापि भगवद्-आत्मक-ध्यान-पूर्वकं प्रणमेत् ।
[[21]]
श्रीमद्-अष्टाक्षर-मन्त्र-जपं अष्टोत्तर-शतं यथा-शक्ति वा कुर्यात् । ततो ऽथर्व-शिरसं नारायणोपनिषदा ऽऽदित्यम् उपतिष्ठेत् । यद् वा गायत्री-जपानन्तरम् “उत्तमे शिखर” इति ताम् अनुज्ञाप्य मूल-मन्त्र-जपं कुर्यात् । ततो मैत्र-तृचा नारायणोपनिषद्भ्याम् ऋते [[??]] उपतिष्ठेत् । अर्घ्य-दान-जपोपस्थान-रूप-कर्म-त्रयस्य पृथक्त्वात् परस्पराङ्गाङ्गि-भावाभावात् मध्ये मूल-मन्त्र-जपस् सुकर एवेति साम्प्रदायिका आहुः। ततो मूल-मन्त्रेण जलं पीत्वा ऽऽचाम्य प्रोक्ष्य परिषिच्योदकाञ्जलीन् आदित्य-मण्डलान्तर्-वर्ति-भगवत्-पादारविन्दयोर् निक्षिप्य प्राणानायम्य भगवन्तं ध्यात्वा ततः आधार-शक्त्य्-आदि-पृथिव्य्-अन्तं तर्पयित्वा श्री-वैकुण्ठादि-पारिषदान् तर्पयेत्।