०२ सन्ध्या-पूर्व-काल-कर्तव्य-क्रमः

नमो वराह-रूपस्य प्रियायै हरि-वल्लभे ।
त्वं माता सर्व-भूतानां पाद-स्पर्शं क्षमस्व मे ॥
[ नमो ऽस्तु प्रिय-दलायै तुभ्यं देवि वसुन्धरे ।
त्वं माता सर्व-भूतानां पाद-स्पर्शं क्षमस्व मे ॥ ]

इति महा-भारतादिषूक्तेन मन्त्रेण महा-वराह-महिषीं भुवं प्रणम्य प्रथमं वाम-पादं भूमौ विन्यस्य “विष्णोः क्रमो ऽसी"ति विष्णु-क्रमण-मन्त्रेण पद-क्रमान् कुर्वन् पादेन्द्रियाधिदैवतं त्रिविक्रमं विष्णुं ध्यात्वा, दर्भ-तिलाक्षत-वस्त्रादिकं दृष्टादृष्ट-साधनं स्नानोपकरणं सर्वं समाहृत्य तमस्-तिरोहित-दुष्ट-जन्तु-पलायनार्थं वैणवं दण्डं सङ्गृह्य निर्गम-मार्गं सञ्चाल्य गृहान् निर्गच्छन् “ओं नमः केशवाय” इति केशवम् अनुध्यायेत् ।

[[6]]

मल-मूत्रोत्सर्जन-शौचादि-विधिः

ततः स्वाश्रम-ग्रामादिभ्यो बहिर् नैऋत्यां दिशि द्वित्रेषु पात-प्रमितां भुवम् अतिक्रम्य शुद्ध-देशे निक्षिप्त-स्नातोपकरणो विविक्त-देशं गत्वा यज्ञोपवीतं दक्षिणे कर्णे शिरसि वा निधायोत्तरीयेणावकुण्ठनं कृत्वा घ्राणास्ये वाससा संवेष्ट्यायाज्ञीयैर् अनार्द्रैस् तृण-पर्ण-काष्ठैर् लोष्ठेन वा भूमिं सञ्छाद्य सन्ध्यासु चोदङ्-मुखो रात्रौ दक्षिणा-मुख ऊर्ध्वम् अधस् तिर्यक् चापश्यन् नभो-भूम्यन्तरं च पश्यन्न् अन्-अनन्य-चित्तश् चिरम् अवस्थानं कुर्वन् पाणिना मौलिम् अ-स्पृशन् किञ्चिद् अप्य् अन्-उच्चरन् असोपानत्को देवालय–नदी-तीर–दर्भ-पृष्ठ–शाड्वल-वल्मीक–गिरि-पृष्ठ–जल-यज्ञ-भू–फाल–कृष्ट-भू–यज्ञीय-द्रुम-छाया–वर्त्म-गोष्ठ-भस्म-तुषाराङ्गार-श्मशान-पराशुचि-युक्तोषर–चतुष्-पथ–सस्याढ्य-भू–कुञ्ज–व्यतिरिक्त-स्थलेषु सोम-सूर्याग्नि-तीर्थ-ब्राह्मण-सन्ध्याम्बु-गो-स्त्री-वायु-देवताभिमुख्यं वर्जयन् मूत्र-पुरीषे कुर्यात् । न वेगं धारयेन् नोपरुद्भः क्रियाः कुर्यात् । यावच् चेद् वेगं धारयति तावद् अप्रयतस् स्यात् । नीहाराद्य्-अन्ध-कार-जनिते दिङ्-मोहने प्राण-बाध-भयेषु च यथा-सुखं मूत्र-पुरीषोत्सर्जनं कुर्यात् । यदि विस्मृतोपवीती मल-पुरीषे कुर्यात् तत्-सूत्रं परित्यज्य सूत्रान्तरं धारयेत् । जलालाभ-स्थले यदि रेतो-मूत्र-पुरीषोत्सर्जनं कुर्यात् तर्ह्य् अ-कृत-शौचश् चेत् आसूर्य-दर्शनं तिष्ठेत् । उदके लब्धे यथा-विधि शौचं कृत्वा स-चेल-स्नानं अहो-रात्रावासं महा-व्याहृतिभिर् होमं च कुर्यात् । यद्य् आद्र-वाससा विण्-मूत्रे कुर्यात् प्राणायाम-त्रयं कृत्वा पुनस् स्नानेन शुद्धयेत् । न पर्ण-लोष्ठाश्मभिर् मल-पुरीषापकर्षणं कुर्यात् । सव्य-करेण गृहीत-शिश्न एव मूत्र-पुरीषोत्सर्जनं कुर्यात् । यतिस् तु त्रि-दण्डम् उपदण्डेन बन्धयेत् उपदण्डाभावे निधान-स्थले चाशुद्धे त्रि-दण्ड-सहित एव मूत्र-पुरीषे कुर्यात् ।

[[7]]

तत उत्थाय शौच-पर्यन्तं शिश्नम् अनुत्सृजन् पूर्व-गृहीतां स-सिकतां मृदं दक्षिण-हस्नतेन गृहीत्वा प्राग्-उदीच्यां उदीच्यां वा शौच-देशं गत्वा मृदं निधायोर्ध्व-जानुर् आसीन उरु-द्वयान्त-स्थेन पाणिना सव्येन मृदं प्रक्षालयेत् । बहिर् जीनु-स्थितेन दक्षिण-पाणिना जलं दद्यात् । एवं पूर्वं जलेन प्रक्षाल्य पश्चान् मृदा पश्चाद् अम्बुभिः प्रक्षालयेत् । सुनिर्निक्ते मृदं दद्यान् मृदन्ते जलं दद्यात् प्रसृति-मात्रां प्रथमां मृदं, तद्-अधिकां द्वितीयां तद्-अधिकां तृतीयां तृतीयावद् अन्यां मृदो दद्यात् । लिङ्ग-शौचे त्रि-पर्व-सङ्ख्या-पूरितां मृदं दद्यात् । हस्तादिष्व् अवदान-समां मृदं दद्यात् । एवं द्वादश-कृत्वो गुद-शौचं कृत्वा पञ्च-कृत्वः कर-शौचं कृत्वा लिङ्ग-शौचं कृत्वा ततः कर-शौचं कृत्वा पद-द्वयं संयोज्य त्रिः मृदा प्रक्षाल्य पुनः पञ्च-कृत्वः करौ मृदा प्रक्षाल्य शौच-भू-तलं प्रक्षालयेत् । दिवा चेद् एवं रात्रौ चेद् अर्धं, आतुरस्य तद्-अर्धं, तथा ऽध्वनि, अशक्तस्य यथा-शक्ति, योषितां शूद्राणां चार्धं, गन्ध-लेप-क्षय-करं वा अन्-उपनीतस्य, गन्ध-लेप-क्षय-करं यथोक्तं गृह-स्थानां, द्वि-गुणं ब्रह्म-चारिणां, त्रि-गुणं वानप्र-स्थानां, चतुर्-गुणं यतीनां शौचं विधीयते । वापी-कूप-तटाकादिषु कथञ्चिद् अपि जलोद्धरणासम्भवे ऽपि जलाद् अरत्नि-मात्र-प्रदेशं त्यत्क्त्वासीनो मणि-बन्धात् परतो ऽरत्नि-मालात् परतो वा जलान्तर्गतां मृदं गृहीत्वा शौचं कुर्यात् । बाह्य-मृत्तिकान् नाहरेत् । शौच-भू-तलं च शोधयेत् । अन्यत्र नद्यादिषु तीर्थेषु च शौचं न कुर्यात् । तेषु उद्धृत-वारिणैव कुर्यात् । उद्धृत्य शौचे तु मृत्तिका-वारि-दौ परिचारकौ कर्तव्यौ । मूत्र-पुरीष-विसर्जनात् पूर्वम् एव स-जलं भाजनं संस्थाप्य कूलात् परीक्षितां संसृष्ट-सिकतां मृदं आहरेत् ।

[[8]]

यतिः पश्चान् मृदम् आहरेत् । यथा-विधि शौचं कृत्वा सोत्तरीय-स्नानं कुर्यात् । अङ्गार-तुष-कीटास्थि-शर्कराश्म-मलान्विताम् । कुड्य-पात-श्मशानोत्थां मृदं नाददीत । आखु-कृष्टात् वल्मीकात् पांसुलात् कर्दमान् मार्गात् ऊषरात् परस्य शैच-शिष्टाच् च मृदं नाहरेत् । यदा वालुकाभि‍श् शौचं कुर्यात् तदा द्वि-गुणं कुर्यात् । दिवा सन्ध्यासु चोदङ्-मुखो रात्रौ चेद् दक्षिणा-मुखः कुर्यात् । दक्षिणं पाणिं नाधः शौचे नियोजयेत्। नाभेर् ऊर्ध्वं वाम-हस्तं न नियोजयेत् । मूत्र-शौचे त्व् एकां मृदं लिङ्गे, सव्ये करे तिस्रो हस्तयोर् द्वे दद्यात् । शुक्ल-शौचे द्वि-गुणं दद्यात् । विण्-मूत्र-विसर्जनार्थं उपविष्टस् तद् यदि न कुर्याद् [अर्ध-शौचं कुर्यात् ॥] ब्रह्म-चारी यतिश् च नान्तर् लिङ्गं विशोधयेत् । तयोर् अन्तर् लिङ्ग-शौचे चान्द्रायणं विधीयते । मूत्र-पुरीषयोर् एकैकस्य प्रवृत्तौ तस्यैव शुद्धिः क्रमेणोभय-प्रवृत्तौ यथा-क्रमं युगपत् प्रवृत्तौ तु पुरीष-शुद्धिं प्रथमं कृत्वा मूत्र-शौचं कुर्यात् । ततः पाद-शौचं कृत्वा कर-शौचं कुर्याद् एवं सकृच् छौचं कृत्वा पुनर् एवं कुर्याद् इति निष्कर्षः । नाभेर् अधस्माद्[[??]] बाहुषु च कायिकैर् द्वादशभिर् मलैः सुरभि-मद्यैर् वोपहतो मृत्-तोयैः पञ्चभिस् तद्-अङ्गं प्रक्षाल्याचान्तश् शुद्ध्येत् । अन्यत्रोपहतो मृत्-तोयैः पञ्चभिः तद्-अङ्गं प्रक्षाल्य स्नानेन शुद्धयेत् । इन्द्रियेषु दशनच्-छदे चोपहतः उपोष्य स्नात्वा पञ्च-गव्य-प्राशनेन शुद्धयेत् । परस्य तु शोणित-रेतो-विण्-मूत्र-मज्जा-स्वेद-कर्ण-नेत्र-नासिका-स्थ-मल-स्पर्शे चत्वारो वर्णा द्वात्रिंशन् मृत्तिकाभिः तद्-अङ्गं प्रक्षाल्य स्नात्वा शुद्ध्येयुः । भुञ्जानस्य तु विप्रस्य गुदं प्रस्त्रवेद् यदि यथा-विधि शौचं कृत्वा स्नानं चरित्वोपवासं कृत्वा पञ्च-गव्येन शुद्धयेत् । मूत्र-पुरीषादि-करणे श्वादि-स्पृष्टः स्नात्वा पुरुष-सूक्तं जपेत् ।

[[9]]

ननु

पञ्चधा लिङ्ग-शौचं स्यात् गुद-शौचं त्रि-वेष्टितम् ।
पादयोर् लिङ्गवच् छौचं हस्तयोश् च चतुर्-गुणम् ॥
द्वे लिङ्गे मृत्तिके देये पञ्चापाने करे दश ।
उभयोस् सप्त दातव्यं मृदश् शुद्धिम् अभीप्सता

इति शाण्डिल्य-वसिष्ठादि-प्रभृतिषु मृत्-सङ्ख्या-भेदो दृश्यते ।

न्यूनाधिकं न कर्तव्यं शौचं शुद्धिम् अभीप्सता ।
प्रायश्चित्तेन युज्येत विहितातिक्रमे कृते ॥

इति दक्ष-स्मृतौ विहित-सङ्ख्याया अतिक्रमे प्रायश्चित्तं च प्रतिपाद्यते । तत् कया संख्यया शौचं कर्तव्यम् इति चेद् उच्यते :-

देशं कालं तथात्मानं द्रव्यं द्रव्य-प्रयोजनम् ।
उपपत्तिम् अवस्थां च ज्ञात्वा शौचं समाचरेत् ॥
यावच् च शुद्धिं मन्येत तावच् छौचं समाचरेत् ।
प्रमाणं शौच-सङ्ख्या वा न शिष्टैर् उपदिश्यते ॥
यावन् नापैत्य् अ-मेध्यान्तात् गन्धो लेपश् च तत्-कृते ।
तावन् मृद्-वारि देयं स्यात् सर्वासु द्रव्य-शुद्धिषु ॥

[[10]]

शौचं तु द्वि-विधं प्रोक्तं बाह्यम् आभ्यन्तरं तथा ।
मृज्-जलाभ्यां स्मृतं बाह्यं भाव-शुद्धिस् तथान्तरम् ॥
गङ्गा-तोयेन कृत्स्नेन मृद्-भारैश् च नगोपमैः ।
आ मृत्योर् आचरेच् छौचं भावदुष्टो न शुद्ध्यति ॥

इति बोधायन-देवल-मनु-वैयाघ्र-पादादि-स्मरणात्

देश-कालाद्य्-अनुगुणं यावन् मनश्-शुद्धि-विहित-सङ्ख्यासु विविधासु यावत्यां सङ्ख्यायां गन्ध-लेपापकर्षणं मन्यते तावत्यां यस्यां चित्-सौख्यायां शौच-समापनं कर्तव्यम् इति स्व-वर्णाश्रमाद्य्-अवस्थाद्य्-अनुगुणादृष्टार्थ-मृत्-सङ्ख्या । वर्णपरिणामादि-नियमवद्–गन्ध-लेप–क्षय-करं स्पर्श-पीडादि-रहितं यावत् भाव-शुद्धि-शौचं कृत्वा अपां द्वादशभिर् गण्डूषैः मुख-शुद्धिं कृत्वा पाणी अरत्नि-पर्यन्तं पादौ च जानु-पर्यन्तं प्रक्षाल्य यज्ञोपवीती बद्ध-शिखः पवित्र-पाणिर् अप्रावृत-कण्ठ-शिराः शुष्क-वासाश् शुचौ देशे प्राङ्-मुखो वोदङ्ग्-मुखो वा पादौ जले स्थले च कृत्वा ऊर्ध्व-जानुर् आसीनो दक्षिणं बाहुं जान्व्-अन्तरे कृत्वा सव्येन पाणिना जलं स्पृशन् दक्षिणं हस्त-तलं गो-कर्णाकारं विन्यस्य तोयं गृहीत्वा अङ्गुष्ट-कनिष्ठे मुक्त्वा विष्णु-तीर्थ-सञ्ज्ञे कर-तलोदरे अवस्थापयेत् । तद् उक्तं भारते आनुशासनिके एक-षष्टितमे ऽध्याये नारदः –

[[11]]

आचमन-विधिः

देवर्षि-पितृ-तीर्थानि ब्राह्मं मध्ये ऽथ वैष्णवम् । नृणां तीर्थानि पञ्चाहुः पाणि-सन्निहितानि वै ॥
आद्य-तीर्थं तु तीर्थानां वैष्णवो भाग उच्यते ।
यत्रोपस्पृश्य वर्णानां चतुर्णां वर्धते कुलम् ॥ पितृ-दैवत्य-कार्याणि वर्धन्ते प्रेत्य चेह च ॥

इति ।

ततः

ओं अच्युताय नमः ओं अनन्ताय नमः ओं गोविन्दाय नमः इति

मन्त्रैः ब्राह्मेण तीर्थेनाशब्दं माष-निमग्न-मात्रा हृदयङ्गमास् त्रिर् अपः पीत्वा “ओं केशवाय नमः ओं नारायणाय नमः” इति ब्राह्मेण तीर्थेन अधो द्विः परिमृज्य मध्यमाभिस् तिसृभिर् अङ्गुलीभिस् तूष्णीं सकृद् ओष्ठव् उपस्पृश्य मुखं परिमृज्य दक्षिणेन पाणिना सव्यं पाणिं पादौ शिरश् च प्रोक्ष्य

ओं माधवाय नमः ओं गोविन्दाय नमः

इत्य् अङ्गुष्ठोपकनिष्ठिकाभ्यां च चक्षुषी संस्पृश्याप उपस्पृश्य,

ओं विष्णवे नमः ओं मधुसूदनाय नमः

इति तर्जन्य्-अङ्गुष्ठाभ्यां नासिके संस्पृश्याप उपस्पृश्य,

ओं त्रिविक्रमाय नमः ओं वामनाय नम

इति अङ्गुष्ठ-कनिष्ठिकाभ्यां श्रोत्रे संस्पृश्याप उपस्पृश्य,

ओं श्री-धराय नमः ओं हृषीकेशाय नम

इति मध्यमाङ्गुष्ठाभ्यां भुजौ संस्पृश्याप उपस्पृश्य, “ओं पद्म-नाभाय नम” इति सर्वाभिर् अङ्गुलीभिर् नाभिं संस्पृश्य, “ओं दामोदराय नम” इति तलेन हृदयं संस्पृश्याप उपस्पृश्य, “ओं श्री-वासुदेवाय नम” इति सर्वाभिर् अङ्गुलीभिर् मूर्धानं संस्पृश्याप उपस्पृश्य, सव्ये पाणौ शेषा आपो निनयेत् । अथ ब्रह्म-यज्ञाचमन-प्रकारः ।

ओं भूः ऋग्-वेदः प्रीणातु, ओं भुवः यजुर्-वेदः प्रीणातु, ओं सुत्रः साम-वेदः प्रीणातु

इति त्रिर् अपः पीत्वा

ओं भूर् भुवस् सुवः ऋग्-यजुस्-सामाथर्वाङ्गिरसः प्रीणन्तु,

[[12]]

“इतिहास-पुराणे पीयेताम्” इत्य् ओष्ठौ ब्राह्मेण तीर्थेनोपस्पृश्य, मध्यमाभिस् तिसृभिर् अङ्गुलीभिर् असकृद् ओष्ठाव् उपस्पृश्य, मुखं परिमृज्य, “अग्निः प्रीणात्व्” इति दक्षिणेन पाणिना सव्यं पाणिं प्रोक्ष्य, “विष्णुः प्रीणात्व्” इति पादौ शिरश् च प्रोक्ष्य, “चन्द्रादित्यौ प्रीयेताम्” इत्य् अङ्गुष्ठोपकनिष्ठिकाभ्यां चक्षुषी संस्पृश्य, “प्राणापानौ प्रीयेताम्” इति नासिके संस्पृश्य, “प्रभासादि-सर्व-तीर्थानि प्रीणन्त्व्” इति अङ्गुष्ठ-कनिष्ठिकाभ्यां श्रोत्रे संस्पृश्य, “परमात्मा प्रीणात्व्” इति तलेन हृदयं, “श्रीः प्रीणात्व्” इति शिरश् च संस्पृशेत् । सर्वत्राङ्गोपस्पर्शने अप उपस्पृशेत् ।

अन्ते वा सव्ये पाणौ शेषा अपो निनयेत्

इति पैठीनस्य्-उक्त-क्रमेण ब्रह्म-यज्ञ-समये आचमनं कुर्यात् । अत्राचमन-प्रकारा बहुधा धर्म-शास्त्रेषु भगवच्-छास्त्रेषु पुराणादिषु च प्रतिपादिताः। तत्र स्व-सूत्रोक्तम् अन्यद् वा यथा-शक्ति यथोपदेशम् आचमनं कुर्यात् । ग्रन्थि-युक्तेन ग्रन्थि-हीनेन वा दर्भेण युक्त-करः कर्माङ्गाचमनं कुर्यात् । कर्माङ्ग-व्यतिरिक्ताचमनं ग्रन्थि-हीनेन दर्भेण युक्त एव कुर्यात् । तदा तत्-पवित्रं परित्यज्य पुनर् आचामेत् । भुक्तोच्छिष्टं तु पवित्रं ग्रन्थि-युक्तं ग्रन्थि-हीनं वा परित्यजेत् । ब्राह्मेणैव तीर्थेनाचामेत् न काय-दैव-पितृ-तीर्थैः । आपद्-गतः काय-दैव-वैष्णवैर् आचामेन् न पित्र्येण कदाचन आचामेत् । पाद-प्रक्षालन-शेषेण नाचामेत् । यद्य् आचामेद् भूमौ स्रावयित्वा आचामेत्। न वर्ष-धाराम्बुना ऽऽचामेत्। पक्वं कलुष-दुर्गन्ध-तैलादि–गन्ध-द्रव्य–वासितं स-फेनं स-बुद्बुदं स-मृत्तिकं कृमि-संयुक्तम् उष्णं क्षारच्-छन्नं पर्युषितं आन्तरिक्ष्यं नख-स्पृष्टम् एक-हस्तार्पितं भिन्न-रन्ध्र-विनिर्गतम् अज-स्पृष्टं देवाभिषिक्तं हेयं च जलम् आचमने त्यजेत् । तिष्ठन् नमन् हसञ् जल्पन् भाषणं शृण्वन्न् अन्यं स्पृशन् दिशः पश्यन्, काक-श्व-खर-विट्-क्रोड-व्रात्य–रजस्वलान्त्य-जाति–पतित-देवलक-भिषक्-शूद्र–सङ्कर-ज–महा-पातिकिनः पश्यन्, उष्णीषी कञ्चुकी बहिर्-जानु-करो ऽन्य-धीर् नग्नो नोपस्पृशेत् ।

[[13]]

वीक्षितेन जलेनाचामेत् । रात्राव् अपि वीक्षितेनैवाचामेत् । भुक्त्वासन-स्थो ऽप्य् आचामेत् । ताम्र-कांस्य-राजत-सौवर्ण-पात्र-स्थेन जलेनाचामेत् । हृत्-कण्ठ-तालुगाभिर् अद्भिः ब्राह्मण-क्षत्रिय-विशः क्रमेण शुद्धा भवन्ति । शूद्रा स्त्रियश् च सकृत् स्पृष्टाभिस् तालुगाभिर् अद्भिः शुद्धा भवन्ति। स्नान-पान-क्षुत-निष्ठीवन-स्वाप-जप-होम-दान-प्रतिग्रह-भोजन–सान्ध्य-कर्म–बलि-कर्म–वस्त्र-परिवृत्तिर् अन्योपसर्पण-चत्वर-क्रमण-श्मशानाक्रमण-स्त्री-शूद्रोच्छिष्ट-भोजनोच्छिष्ट–पुरुष-दर्शनाभोज्य-दर्शन–विण्-मूत्र-रेतोत्सर्जनाश्रु-लोहित-पात-चण्डाल-म्लेच्छ–पतित-भाषणानृत-भाषण–मार्जार-मूषिकादि-स्पर्शातिहासातिक्रोधाधोवायु-विसर्ग-शिखा-मोक्षोपवीत-विपर्यास-श्याव-दन्त-पर्यन्तोष्ठ-स्पर्शे। देवार्चन-गुर्व्-अभिमानादि-निमित्तेषु आचामेत् । तद्-अशक्तौ जलाभावे च दक्षिणं श्रवणं स्पृशेच् छक्ति-विषये न मुहूर्तम् अप्य् अप्रयतस् स्यात् इति विधिवद् आचम्य प्राङ्-मुखः कुक्कुटासन-संस्थितः दक्षिणं पाणिं जान्व्-अन्तरा कृत्वा कण्टकि-क्षीरि-वृक्षोत्थेनावरणेन द्वादशाङ्गुलेन कनिष्टिकाग्रवत् स्थूलेन शल्मल्य्-अश्वत्थ-भव्य-धव- किंशुक-कोविदार-शमी-श्लेष्मातक-विभीतक-गुग्गुलु-क्रमुक-तिन्दु-केङ्गुद-बन्धूक-गुडाक-ताल-हिन्ताल-केतक-बृहद्-वट-खर्जूर-नालिकेर-वानीर-क्षीरिका-शिग्रु-शिंशुपा–देव-दारु–मल्लिका-कार्पास-जातास् त्यज्याः ।

दन्त-धावन-विधिः

स-पत्र-त्वग्-घन-ग्रन्थि-युक्त-काष्ठ-व्यतिरिक्त-काष्ठेन तृणेन पर्णेन वाभिमन्त्र्याहृतेन कुश-काशेष्टका-लोष्ट-पाषाणाङ्गार-वालुकापस्त्र[[??]]-नख-तर्जनी-मध्यमा-कनिष्ठिकाङ्गुलि-वर्जं प्रथमम् अधरतो वाम-भागारम्भं प्रदक्षिणं समन्तं दन्तान् धावयेत् । विधवा-कन्यका-ब्रह्म-चारिणो दन्त-धावनं न कुर्युः । करञ्जार्जुन-कैडर्य-शिरीष-खादिर-दूर्वाभिर् दन्त-शुद्धिं यतिः कुर्यात् । तैलाभ्यक्तस् तु दन्त-धावनं न कुर्यात् । प्रतिपत्-पर्व-नवमी-षष्ठी-तिथिषु शन्य्-अर्काङ्गारक-गुरु-वारेषु जन्म-नक्षत्रे श्राद्ध-दिनेषु उपवास-दिनेषु च काष्ठेन दन्त-शुद्धिं न कुर्यात् । नद्यां देवालये गोष्ठे श्मशाने जल-मध्यमे याग-स्थाने च दन्त-शुद्धिं न कुर्यात् ।

[[14]]

दक्षिणाभिमुखस् तिष्ठन् शयानः उदङ्-मुख आसन-स्थश् च दन्त-शुद्धिं न कुर्यात् । दन्त-काष्ठालाभे प्रतिषिद्ध-दिनेषु च तत्-तत्-रुप-पर्णैस् तृणैर् वा तेषाम् अप्य् अभावे अपां द्वादश-गण्डूषैर् मुख-शुद्धिं कुर्यात् । दन्त-काष्ठं प्रक्षाल्य भञ्जित्वा शुचौ देशे त्यजेत् ।

आयुर् इत्य् आदि-मन्त्रस्य प्रजा-पति ऋषिः अनुष्टुप्-छ्न्दः वनस्पतिर् देवता दन्त-काष्ठ-भञ्जने दन्त-धावने च विनियोगः ।

प्रातस्-स्नान-विधिः

आयुर् बलं यशो वर्चः प्रजां पशु-वसूनि च ।
ब्रह्म-प्रज्ञां च मेधां च त्वं नो देहि वनस्पते॥

इत्य् उभयत्र मन्त्रः । ततः शुचौ देशे पादौ प्रक्षाल्याचम्य तीरं संशोध्य देश-कालौ सङ्कीर्त्य स्नानं सङ्कल्प्य

समस्त-जगद्-आधार-शङ्ख-चक्र-गदा-धर॥
देहि देव ममानुज्ञां युष्मत् तीर्थ-निषेवणे ॥

इति भगवन्तम् अनुज्ञाप्य “हिरण्य-शृङ्गं वरुणम्” इति जपित्वा जलम् अवगाह्य उन्मज्ज्य “सुमित्रान आप ओषधयस् सन्त्वि"ति स्वात्मानम् अभिषिच्य “दुर्मित्रास् तस्मै भूयासुर्” इति त्रिस् तीरे जलम् उत्सृज्य “नमो ऽग्नये ऽप्सुमते” इति नमस्कृत्य “यद् अपां क्रूरम्” इति दक्षिण-भागे अमेध्यांशं जलान् निरस्य “अत्याशनाद्” इति “गच्छ ब्रह्म स-लोकताम्” इत्य् अन्तेन पाणिना जलं त्रिर् आलोड्य पाणिना जले चतुर्-अश्रं तीर्थ-पीठम् उल्लिख्य

[[15]]

आवाहयामि त्वां देवि स्नानार्थम् इह सुन्दरि ।
एहि गङ्गे नमस् तुभ्यं सर्व-तीर्थ-समन्विते ॥

इति “इमं मे गङ्गे यमुने"ति गङ्गादि-पुण्य-तीर्थान्य् आवाहयामीत्य् आवाह्यानुस्मृत्य

विष्णु-वाम-पदाङ्गुष्ठ-नख-स्रोतो-विनिस्सृते ।
तद्-भक्ति-विघ्न-रूपात् त्वं गङ्गे मां मोचयै न सः॥
सह्य-पादोद्भवे देवि श्री-रङ्गोत्सङ्ग-गामिनि।
श्री-कावेरि नमस् तुभ्यं मम पापं व्यपोहय ॥

इति तीर्थस्य अर्घ्य दत्त्वा मूल-मन्त्रेणाभिमन्त्र्य “आपो अस्मान् मातरश् शुन्धन्त्व्” इत्य् आदित्याभिमुखो निमज्ज्योन्मज्ज्य “आपो वा इदं सर्वम्” इत्य् अपो अभिमन्त्र्य “आपो हिष्ठा मयो भुव” इति तिसृभिः “दधिक्राव्ण्ण” इत्य् अनेन “हिरण्य-वर्णा” इत्य् अनुवाकेन च मार्जयित्वा

अघमर्षण-सूक्तस्य अघमर्षण ऋषिः अनुष्टुप्-छन्दः भाव-वृत्तो देवता।

“ऋतं च सत्यं चार्थाद्धादि"ति तृचं चतुर्-ऋचं वा जले निमग्नस् त्रि-षड्-अष्ट-कृत्वो द्वादश-कृत्वो वा ऽऽवर्तयेत् ।

[[16]]

“एष भूतस्य भव्य” इति निमज्ज्योन्मज्ज्य मूल-मन्त्रेणाभिमन्त्र्य जलाञ्जलिम् आदाय सप्त-कृत्वो ऽभिमन्त्र्य स्व-मूर्ध्नि सिञ्चेत् । एवं त्रिस् सप्त-कृत्वो वा दक्षिणेन पाणिना जलम् आदाय सप्त-कृत्वो मूल-मन्त्रेणाभिमन्त्र्य पीत्वा ऽऽचम्य स्वात्मानं सप्त-कृत्वः प्रोक्ष्य परिषिच्य विरजां ध्यात्वा तीर्थे निमग्नो भगवत्-पादारविन्द-विन्यस्त-शिरस्को ऽष्टाविंशति-वारं तद्-उपरि यावच् छक्ति वा मूल-मन्त्रं जपित्वोन्मज्ज्य द्विर् आचम्य देवर्षि-पितृ-तर्पणं सङ्कल्प्य स्व-स्व-तीर्थेनैव गृहीत्वा स्व-स्व-तीर्थेन गो-शृङ्ग-मात्रम् उद्धृत्य वारि-स्थ एव देवान् ऋषीन् पितॄन् भगवद्-आत्मकान् ध्यात्वा सन्तर्प्य, व्याहृतिभिर् व्यस्ताभिस् समस्ताभिस् तर्पयित्वा प्राचीनावीति संस्कृत-प्रमीतानां त्रीन् उदकाञ्जलीन् तीरे दत्त्वा अ-संस्कृत-प्रमीतानाम् एकं तीरे दत्त्वा तीरं गत्वा निवीती

वस्त्र-धारण-प्रकारः

ये के चास्मत् कुले जाता अ-पुत्रा गोत्र-जा मृताः ।
ते गृह्णन्तु मया दत्तं वस्त्र-निष्पीडनोदकम् ॥
ये बान्धवाबान्धवाश् च ये ऽन्य-जन्मनि बान्धवाः ।
ते सर्वे तृप्तिम् आयान्तु भूमौ देत्तन वारिणा ॥
यन् मया दूषितं तोयं शरीर-मल-सम्भवात् ।
तस्य पापस्य शुध्य्-अर्थं यक्ष्माणं तर्पयाम्य् अहम् ॥

इति चतुर्-गुणी-कृतं वस्त्रान्तं सन्दर्श्य तीरे निष्पीड्यासीनः

अन्येन वाससः खण्ड-द्वयेन शिरो-ऽङ्गं च प्रत्येकं परिमृज्य “शुची वो हव्या मरुत” इति शुचि-वस्त्रं सम्प्रोक्ष्य “देवस्यत्वे"त्य् आदाय “अवधूतं रक्ष” हत्य् अवधूय “उदुत्यञ्चित्त्रमिति” द्वाभ्यां सूर्याय दर्शयित्वा “आवहन्ती वितन्वाने"ति कौपीनाच्छादन-पूर्वकं शुक्लं वासो धृत्वा धृतोत्तरीयश् चोरु-पर्यन्तं मृज्-जलाभ्यां प्रक्षाल्य, द्विर् आचम्य-

[[17]]

ऊर्ध्व-पुण्ड्र-धारण-क्रमः

कम्बलाद्य्-आसने स्थित्वा अस्त्र-मन्त्रेण वाम-पाणि-तलं संशोध्य “अश्वक्रान्त” इति “उद्धृतासीति” च श्वेतां मृदम् आदाय प्रणवेन वाम-पाणि-तले निधाय “मृत्तिके हन मे पापम्” इत्य् अभिमन्त्र्य “आपोवा इदम्” इति जलं गृहीत्वा “गन्धद्वाराम्” इति सेचनं कृत्वा अस्त्र-मन्त्रेण रक्षां कृत्वा प्रणवेन सम्मिश्रं कृत्वा मूल-मन्त्रेणाभिमन्त्र्य नृ-सिंह-बीजं लिखित्वा

भगवान् पवित्रं वासुदेवः पवित्रं शत-धारं सहस्र-धारम् अपरिमित-धारम् अच्छिद्रम् अक्षयम् अरिष्टम् अनन्तम् अच्युतं परिमितं परमं पवित्रं भगवान् वासुदेवः पुनातु [[TODO: परिष्कार्यम्]]

इति पवित्र-मन्त्रेण “देवस्त्वा सविता पुनात्व्” इति च तोयं निक्षिप्य तर्जन्या मृदं जलं चैकी-कृत्य भगवत्-पादाम्बु-ज-युगलं स्मरन् “विष्णोर्नुकं विष्णोरराटम्” इति चाभिमन्त्र्य पञ्चोपनिषन्-मन्त्रेण मूल-मन्त्रेण वासुदेव-द्वादशाक्षरेण विष्णु-सूक्तेन चाभिमन्त्र्य प्रथमं तर्जन्या प्रणवेन मूर्ध्नि मृदं विन्यस्य प्रणवादि-नमो ऽन्तैः केशवादि-द्वादश-नामभिः ललाटोदर-मध्य-वक्षः-कण्ठ-दक्षिणोदर-भुज-स्कन्ध-वामोदर-भुज-स्कन्ध-पृष्ठ-त्रिकेषु क्रमेण ललाट-कण्ठ-स्कन्ध-त्रिकेषु चतुर्-अङ्गुलायतानि अन्यत्राष्टाङ्गुलायतानि द्व्य्-अङ्गुल-विस्तृतानि ऋजूनि सान्तरालानि रम्याणि हरि-पद-संस्थानानि द्वादशोर्ध्व-पुण्ड्राणि तर्जन्न्या धृत्वा द्वादशाक्षर-विद्यया शेषं मूर्ध्नि विन्यस्य हरिद्रा-चूर्णं द्वादशसु पुण्ड्र-मध्य-देशेषु धृत्वा प्रणव-सम्पुटितैर् द्वादशाक्षर-मन्त्र-स्थैर् अक्षरैः केशवादि-द्वादश-नामभिः विष्णु-गायत्र्या च अङ्गुलीभिः स्पृशन् केशवादीन् ध्यात्वा

[[18]]

चिन्तयामि श्रियोपेतं ललाटे केशवं विभुम् ।
लक्ष्म्या समेतं ध्यायामि नारायणम् अथोदरे ॥
माधवं कमला-नाथं चिन्तयामि सदोरसि ।
पद्मा-पतिं चिन्तयामि गोविन्दं कण्ठ-कूर्पके ॥
पद्मिनी-वल्लभं विष्णुं चिन्तये दक्षिणोदरे ।
दक्षिणे ऽस्मिन् भुजे पद्मा वासिनं मधुसूदनम् ॥
स्मरामि दक्षिणे स्कन्धे रमा-नाथं त्रि-विक्रमम् ।
वामे वृषाकपायीशं कुक्षौ ध्यायामि वामनम्॥
धन्या-नाथं चिन्तयामि श्री-धरं सव्य-वाहके ।
वाम-स्कन्धे हृषी-केशं सिद्धि-नाथं विचिन्तये ॥
पृष्ठ-देशे पद्म-नाभं यज्ञेशं तं विचिन्तये ।
दामोदरं स्मरामीशं इन्दिरा-वल्लभं त्रिके॥

इति तत्-तत्-स्थाने तत्-तन्-मूर्ति-ध्यानं कृत्वा नमस् कुर्यात् । एवं त्रयोदश-द्वादशाष्टौ षट्-चत्वार्य्-एकं वेति सङ्ख्या-भेदेन ऊर्ध्व-पुण्ड्राणि यथा-शक्ति यथा-विधि धारयेत् । तत्र मोक्षार्थी त्रयोदश-द्वादश-पुण्ड्राणि धारयेत् । तत्र ललाटादि-मूर्ध-पर्यन्तेषु पूर्वोक्तेषु त्रयोदशसु स्थानेषु प्रणवादि-नमोन्तैः केशवादि-द्वादश-नामभिः द्वादशाक्षर-विद्यया च त्रयोदशोर्ध्व-पुण्ड्राणि धारयेत् । शिरो-व्यतिरिक्तेषु तेषु स्थानेषु द्वादशाक्षर-विद्या-व्यतिरिक्तैर् एतैर् एव मन्त्रैर् वैकल्पिकैर् द्वादशोर्ध्व-पुण्ड्राणि धारयेत् ।

[[19]]

भोगार्थी अशक्तश् च कण्ठे परितस् स्थितानि चत्वारि स्थानानि शिरश् च वर्जयित्वा ललाटादिषु अष्टसु स्थानेषु प्रत्यक्षरं विष्णु-गायत्री-समन्वितैः प्रणव-सम्पुटितैर् अष्टाक्षर-मन्त्र-स्थैर् अक्षरैर् अष्टोर्ध्व-पुण्ड्राणि धारयेत् । भोगार्थी अशक्तश् च ललाट-हृत्-कण्ठ-कुक्षि-भुज-द्वयेषु षट्-स्थानेषु प्रत्यक्षरं विष्णु-गायत्री-समन्वितैः प्रणव-सम्पुटितैर् विष्णु-षड्-अक्षर-मन्त्रस्थैर् अक्षरैष् षड्-ऊर्ध्व-पुण्ड्राणि धारयेत् । फलान्तरार्थी अशक्तश् च ललाट-हृद्-भुज-द्वयेषु चतुर्षु स्थानेषु प्रणवादि-नमोन्तैर् वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-मन्त्रैश् चत्वार्य्-ऊर्ध्व-पुण्ड्राणि धारयेत् । अत्यन्ताशक्तः “उद्धृतासी"ति मन्त्रेण प्रणवेन वा ललाटे एकम् ऊर्ध्व-पुण्ड्रं धारयेत् । अत्रायं निष्कर्षः । गुरु-लघु-विकल्पे गुरोर् एव मुख्यत्वम् । यत्र तु कर्म-विशेषाङ्गतया वा फल-विशेषम् उद्दिश्य वा न्यून-सङ्ख्या-विधानं तत्र विशेष-वचन-बलान् न्यूनतयैव तत्-परिग्रहः । अन्यत्र तु अधिक-परिग्रह एव मुख्यः । द्रव्यालाभाशक्त्यादि-दशासु गत्य्-अभावात् न्यून-परिग्रहः । अत्यन्ताकरणात् यथा-शक्ति-करणस्य नित्ये शास्त्रीयत्वात् काम्येष्व् अपि केषुचित् यथा-शक्त्य्-अनुष्ठाने ऽपि तत्-तत्-यत्नानुरूप-फलस्य प्रतिपादितत्वात्वाद् इति । कण्ठे तुलसी-नलिनाक्ष-मालां श्री-पवित्रञ् च धारयेत् ।

[[20]]