ओं कृतं च करिष्यामि भगवन्-नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन अभिगमनेन भगवत्-कर्मणा भगवन्तम् अर्चयिष्यामि ।
इत्य् अभिगमनं सङ्कल्प्य
ओं भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि वासुदेवस्य ।
इत्य् अनुसन्धायात्मानं
भगवान् एव स्व-शेष-भूतेन मया स्वकीयैः कल्याणतमैर् औपचारिक-सांस्पर्शिकाभ्यवहारिकैर् भोगैर् अखिल-परिजन-परिच्छदान्वितं स्वात्मानं पीतं कारयितुम् उपक्रमते
इति चानुसन्धाय, “ओं नमः क्षिति-धराय महा-वराहाये"ति नमः पूर्वेण क्षिति-धर-लिङ्गेन मन्त्रेण श्री-वराहं नमस्कृत्य