०० योगान्तम्

अथ परमैकान्ती
ब्राह्म-[मुहूर्ताभिधेये रात्र्याः पश्चिम-यामे
वि]श्रमार्थं याम-द्वय-कृतां निद्रां परित्यज्य
समाहित-मनाः [सत्व-स्थः प्रसन्न-धीः हरिर् हरिर् इति सप्त-कृत्व उच्चार्य हरिम् एव चिन्तयन्न्] उत्थाय पादौ प्रक्षाल्याचम्य तस्मिन्न् एव शयने स[मासीनो हरिर् ओम् इति निर्दिश्य सत्व-स्थः प्रसन्न-धीः पूर्व-यामानुसंहित-मन्त्रेण प्रतिसंहित-योगः अन्तः]-करण-चित्र-भित्ति-गतं विचित्र-शुभाश्रयं ध्येयं परिपूर्णं भगवन्तं नारायणं निद्रा-तमो-ऽन्तरितम् अपि [सात्त्विक-ध्यान-रूप-प्रदीप-प्रकाशेन सम्यग् अवलोक्य] तत्-तत्-कालोचितं भगवन्-मन्त्र-जपं वेदाभ्यासं च यथा-बलम् आचरेत् । ततो गुरु-परम्परां ध्या[त्वा

ध्यानम्

ब्राह्मे मुहूर्ते उत्थाय कर्तव्य-ध्यान-प्रकारः॥

प्रातः स्मरामि दधि-घोष-विधूत-निद्रं
निद्रावसा]न-रमणीय-मुखारविन्दम् ।
हृद्याभिराम-वपुषं नयनाभिरामं
उन्निद्र-पद्म-नयनं नव-नीत-[चोरम् ॥
प्रातर् भजामि भजताम् अभयङ्करं तं प्राक्-सर्व-जन्म]-कृत-पाप-भयापनुत्यै ।
यो ग्राह-वक्त्र-पतिता‌ङ्घ्रि-गजेन्द्र-[घोर-
शोक1 -प्रणाश-करणोद्धृत-शङ्ख-चक्रः ॥ ]

[[2]]

प्रातः स्मरामि भव-ताप-महार्ति-शान्त्यै
नारायणं गरुड-वाहनम् अञ्जनाभम् ।
ग्राहाभिभूत-मद-वारण-मुक्ति-[हेतुं
चक्रायुधं तरुण-वारिज-पत्र-नेत्रम् ॥

इत्य् अनु[सन्धाय “ब्रह्माणम्” इत्यादि-हर्य्-अष्टकं पठित्वा भूत-भावि-दशा-विशेष-परामर्शाय[[??]] कृताकृत-प्रत्यवेक्षणाय च नियतेन्द्रि[यः समाहितः अतिक्रान्तानन्तं कालं] निरर्थकम् अवलोक्य परमं निर्वेदं गत्वा गत-जल-सेतु-बन्धाभिलाष-तुल्यानुताप-प्रशमन-पूर्वकं सात्त्विक-[ धृत्यात्मकागामि-काल-शक्य-कै]ङ्कर्यम्

निर्वेद-पूर्वकं प्रतिबन्धक-निवृत्ति-प्रार्थना

इत ऊर्ध्वम् अहन् तावत् यावज् जीवं श्रियः श्रियः ।
पदयोर् अर्चनं कर्तुं यतमानस् समाहितः ॥
अभि[गच्छन् हरिं प्रातः पश्चाद् द्रव्याणि चार्ज]यन् ।
अर्चयंश् च ततो देवं ततो मन्त्रान् जपन्न् अपि ॥
[ध्यायन्न् अपि परं देवं कालेषूक्तषु पञ्चसु ।
वर्तमानस् सदा चैवं] पाञ्चकालिक-वर्त्मना ॥
स्वार्जितैर् गन्ध-पुष्पाद्यैः शुभैश् शक्त्य्-अनुरूपतः । [आराधयन् हरिं भक्त्या गमयिष्यामि वासरान् ॥

इति निश्चित्य

[[3]]

एतत् क्रिया-विरोधीनि प्राचीनान्य् अ-शु]भानि मे ।
कर्माण्य् अनन्तान्य् अच्छेद्यानि अनादीन्य् अशुचीनि च ॥
स्वयैव कृपया देवो विनाश्यास्मन्-मनो-रथान् ।
[पूरयत्व् इति सम्प्रार्थ्य मन्त्रम् एतम् उदीरयेत् ॥
त्वय्य् आराधन-कामो ऽयं व्रतं चरितुम् इच्छति ।
सङ्कल्प-सिद्ध्यै भगवन् पूरयास्य मनो-रथान् ॥]

इति प्रार्थ्य अथैतन् मनो-रथ-सिद्ध्य्-अर्थं “अस्मद्-दे[शि]के"त्यादि श्लोकोक्त-रीत्या गुरु-प[रम्परोपसत्तिपूर्वकं ] भगवन्तं प्रपद्य

गुरु-परम्परोक्ति-पूर्वक-भगवद्-अनुसन्धानम्

आत्मानं देहम् ईशं च चिन्तयेत् संयतेन्द्रियः ।
ज्ञानानन्दमयो नित्यः प[रमात्मात्मको ह्य् अयम् ॥
अस्मिन् दे]हे निवत्स्यामि शेष-भूतो ऽपि शार्ङ्गिणः ।
शुक्ल-लोहित-सम्भूते जरा-रोगाद्य्-उपप्लुते ॥
मेदो-रक्तास्थि[मांसादि-हेय-द्रव्य-समाकुले ।
ता]प-त्रय-महावर्त-दह्यमानो ऽनिशं भ्रमन् ॥

[[4]]

ईषणा-त्रय-तृष्णादि-बाध्यमाने दुरत्यये ।
क्लिश्यामि पाप-भूयिष्ठे कारा-गृह-निभे ऽशुचौ ॥
बहु-जन्म-बहु-क्लेशे [ जन्मवा]सादि दुःखिते ।
वसामि सर्व-दोषाणाम् आलये दुःख-भाजने ॥
अस्माद् विमोक्षणार्थाय चिन्तयिष्यामि केशव ।
वैकुण्ठे परम-व्योम्नि दुग्धान्धौ वैष्णवे पदे ॥
अन्-अन्त-भोग-पर्यङ्के समासीनं श्रिया सह ।
इन्द्र-नील-मणि-श्यामं शङ्ख-चक्र-गदा-धरम् ॥
पीताम्बर-धरं देवं पद्म-पत्र-निभेक्षणम् ।
श्री-वत्स-कौस्तुभोरस्कं सर्वाभरण-भूषितम् ॥

एवं परिपूर्णं भगवन्तम् अनुसन्धाय वासुदेवादि-व्यूह-नाम-चतुष्टयं केशवादि-व्यूहान्तर-नामानि मत्स्यादि-दशावतार-नामान्य् अप्य् अधिगतानि पृथग् भूतानि स्तोत्र-निबद्धानि च देव्यादि-नामानि च भारतोक्तानुस्मृत्य्-अध्यायं च प्रहर्ष-जनकेनोच्चैश्-शब्देन सङ्कीर्तयन्

एवं शृण्वताम् अपि सकल-दुरित-हारिणा हरि-सङ्कीर्तनेन संसृष्ट-मानसः सन्ध्यायाम् आसन्नायां भगवन्तम् उपासितुम् अधिजिगमिषुस् सङ्कल्पं कुर्यात् । हरिः ओम्

कृतं च करिष्यामि भगवन्-नित्येन भगवत्-पीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन अभिगमनोपादानेज्या-स्वाध्याय-योग-पर्यन्तेन भगवत्-कर्मणा भगवन्तम् अर्चयिष्यामि

इति सामान्येन सङ्कल्प्य

[[5]]


  1. “प्रणाशम् अकरोत्” इति पाठान्तरम् । ↩︎