॥ श्रीमते श्रीनिवास-तातार्य-महा-देशिकाय नमः ॥
नत्वा देवं हयग्रीवं सर्व-वाग्-ईश्वरेश्वरम् ।
पञ्च-काल-क्रिया-दीप-भूमिका लिख्यते ऽधुना ॥
शतक्रतु-चतुर्-वेदि-श्रीनिवास-गुरूत्तमम् ।
वन्दे कुमार-तातार्य-तनयं तत्त्व-विद् वरम् ॥
स भगवान् सर्वेश्वरः श्रियः पतिः परम-कारुणिकाग्रेसरो नारायणः प्रजाः सृष्ट्वा तासां इष्टानिष्ट-प्राप्ति-परिहारोपाय-प्रतिपादकं प्रदीप-तुल्यं शास्त्राख्यं प्रमाणम् अपि ताभ्यो दत्तवान् । उक्तं ह्य् अभियुक्तैः
हर्तुं तमः सद्-असती च विवेक्तुम् ईशो
मानं प्रदीपम् इव कारुणिको ददाति ।
इति ।
शास्त्र-शब्देन वेद-तद्-उपबृंहण-रूपाः ग्रन्था गृहयन्ते । मन्वादयः सर्व-साधारण्येन धर्मम् उपबृंहयामासुः । ये त्व् एकान्तिनः परमैकान्तिनश् च तेषाम् अनुष्ठेया ये धर्माः एकायनाख्य-वेदे प्रतिपादिताः तद्-उपबृंहणाय शास्त्रं प्रवर्तयामास । तस्मिन् पञ्च-रात्र-शास्त्रे
अभिगमनम् उपादानम् इज्या स्वाध्यायः योगः
इति पञ्चधा दिनं विभज्य भगवद्-आराधन-कर्तव्यता प्रत्यपादि । ईदृशस्य भगवद्-आराधनस्य पञ्च-काल-प्रक्रियेति व्यपदेशो वरीवृत्यते । येतावत् मोक्षं तद् इतर-फलानि च कामयमानाः भगवन्तम् एव भजन्ते ते एकान्तिनः । ये तु भगवत्-प्राप्ति-रूप-मोक्षम् एवेच्छन्तः भगवन्तम् एव भजन्ते ते परमैकान्तिनः । इदानीं भगवन्तं प्रपन्नाः सर्वे ऽपि श्री-वैष्णवाः प्रायः परमैकान्तिन एव ।
[[1]]
इह खलु संसारे अध्यात्मिकादि-ताप-त्रय-सन्तप्ताः बहवो जनाः संसाराद् विरक्ताः परम-पुरुषार्थ-लक्षण-मोक्षार्थम् अतीव यतन्त इति तावद् विदित-चरम् एव सर्वेषाम् । स च मोक्षः केनोपायेन प्राप्यत इति शङ्कायां,
केचन विद्या-मात्रेण, अपरे केवल-कर्मणा, अन्ये ज्ञान-कर्म-समुच्चयाद्
इति बहुधा विवदन्ते । अत्र विशिष्टाद्वैतिनस् तु “कर्माङ्गक-विद्यया मोक्षम्” इति तत्र तत्र प्रतिपादयन्ति स्म । विद्यां प्रति कर्मणः अङ्गत्व-प्रकारस् तु “धर्मेण पापम् अपनुदति” “कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते” । इत्यादि-श्रुति-स्मृत्य्-उक्त-रित्या विद्या-विरोधि-पाप-निरसन-द्वारा । तच् च नित्य-नैमित्तिकादि-रूपं काम्यं च कर्म-फल-सङ्गं विना केवल-भगवद्-आराधन-वेषेणानुष्ठेयम् । “एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च” त्यक्त्वा कर्म-फलासङ्गम्, इत्यादि-गीता-वचनात् । विद्या-शब्देन भक्तिः प्रपत्तिश् चोच्येते ।
तत्र भक्तेः कर्माङ्गकत्वं श्री-भाष्य-गीता-भाष्यादिषु व्यक्तम् उक्तम् । प्रपत्तेः कर्माङ्गकत्वाभावे ऽपि भगवद्-आज्ञानुज्ञा-परिपालनस्यावश्यं प्रपन्नैः कर्तव्यत्वात् नित्य-नैमित्तिकानि कर्माणि, फल-त्यागेन काम्य-कर्माणि च अवश्यं कर्तव्यानि । अनुगृहीतं हि निगमान्त-महा-देशिकैः –
[[2]]
मुकुन्दे निक्षिप्य स्व-भरम् अनघो मुक्तवद् असौ
स्व-तन्त्राज्ञा-सिद्धां स्वयम् अविदित-स्वामि-हृदयः ।
परित्यागे सद्यः स्व-पर-विविधानर्थ-जननाद्
अलङ्घ्याम् आमोक्षाद् अनुसरति शास्त्रीय-सरणिम् ॥
इति (रहस्य-त्रय-सारे शास्त्रीय नियमनाधिकारे)सन्ध्या-वन्दनादिषु नित्य-नैमित्तिक-कर्मसु भगवद्-आराधनं मुख्यतमम् । सन्ध्या-वन्दनादीनाम् इतर-कर्मणाम्
यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥
इत्यादि-वचनानुसारेण भगवद्-अर्चना-रूपत्वेनाकारेण प्राशस्त्ये सति साक्षात् भगवद्-आराधनस्य प्राशस्त्यं कैमुतिक-न्याय-सिद्धम् ।
स्नात्वा नित्यं शुचिः कुर्यात् देवर्षि-पितृ-तर्पणम् ।
देवताभ्यर्चनं चैव समिद्-आधानम् एव च ॥
इति मनु-वचनम्,
ब्रह्म-चारी गृह-स्थो वा वान-प्रस्थो ऽथ भिक्षुकः ।
केशवाराधनं हित्वा नैव याति परांगतिम् ॥
इत्य् आनुशासनिक-पर्व-स्थ-वचनम्,
[[3]]
यो[[??]] मोहाद् अथवा ऽलस्याद् अ-कृत्वा देवतार्चनम्।
भुङ्क्ते स याति नरकान् सूकरेष्व् अपि जायते ॥
इति व्यास-स्मृति-वचनं चात्र भाव्यम् ॥
अयं भगवद् आराधन-क्रमः पाञ्च-रात्राख्ये भगवच्-छास्त्रे एकान्ति-परमैकान्ति-साधारण्येनातिविपुलतया प्रतिपादितः । परमैकान्तिनां श्री-वैष्णवानां कर्तव्यस्य भगवद् आराधनस्य क्रमं तत उद्धृत्य श्रीमद्भिः भाष्य-कार-पादैः नित्याख्यो ग्रन्थः सन्दृब्धः । उक्तं हि तत्र आदाव् एव –
अथ परमैकान्तिनो भगवद्-आराधन-प्रयोगं वक्ष्ये
इति । यद्य् अपि नित्ये पञ्चसु कालेषु कर्तव्यानि यानि अभिगमनोपादानेज्या-स्वाध्याय-योगाख्यानि पञ्च-कर्माणि तेषु इज्यैव प्रयोग-बद्धतया प्रतिपादिता तथापि श्री-भाष्य-कार-शिष्यैः वङ्गि-वंशेश्वरैः अभिगमनादि-पञ्च-कर्मणाम् अनुष्ठान-पद्धतिः कारिका-रूपेण ग्रन्थेन प्रत्यपादीति महद् इदं भागधेयं परमैकान्तिनाम् । अपि च अभिगमनादि-पञ्च-कर्मानुपरोधेन औपासनाग्नि-होत्र–दर्श-पूर्ण-मासादि-रूपाणि नित्य-नैमित्तिक-कर्माण्य् अपि परमैकान्तिनाम् अवश्यानुष्ठेयानि ।
उक्तं हि बङ्गि-वंशेश्वरैः प्रातस् सन्ध्या-नन्तर-कर्तव्य-प्रतिपादन-सन्दर्भे -
ब्रह्म-चारी गृह-स्थो वा वान-प्रस्थो ऽथवा यतिः ।
स्व-वर्ण-स्वाश्रमार्हेण विधिना श्रद्धयान्वितः ॥
समिद्-आज्यादिभिर् द्र्व्यैः मन्त्रैर् अपि यथोदितैः ।
हुत्वाग्नीन् अग्नि-होत्रादौ उक्तं कालम् अपि क्षिपन् ॥ पराराधन-रूपेण कृतेनैव स्व-कर्मणा ।
कृते निष्कल्मषे शुद्धे स्वस्मिन् मनसि सुस्थिते ॥
लब्धाधिकारो देवस्य ध्यानार्चन-जपादिषु ।
इति ।
[[4]]
काम्य-कर्माण्य् अपि भगवद्-आराधनत्वेनानुष्ठितानि भगवत्-प्रसाद-द्वारा मोक्ष-साधनानि भवन्तीति –
सर्व-कर्माण्य् अपि सदा कुर्वाणो मद्-व्यपाश्रयः ।
मत्-प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥
इति भगवद्-गीता-वचनेनावगम्य-मानत्वात् सत्य् अवकाशे ज्योतिष्टोमादीन्य् अपि प्रपन्नैः कार्याणि । नित्य-कर्माणि तु अग्नि-होत्रादीनि नैव त्यक्तुं शक्यानीति गीतायाम् एव –
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥
इत्यादिना स्पष्टी-कृतम् । अत एव निगमान्त-देशिकैः श्री-पाञ्च-रात्र-रक्षायां दक्ष-व्यासादि-दर्शित-काल-विभाग-विरुद्धत्वात् तत्-तत्-कालानुष्ठेय-श्रौत-स्मार्त-कर्म-जातावरुद्धत्वाच् च न पाञ्च-कालिकाभिगमनादीनाम् अवसर इत्य् आशङ्काम् उत्थाप्य दक्षाद्य्-उक्त-काल-विभागस्य पाञ्च-रात्रोक्तस्य पञ्चधा काल-विभागस्य चानतिभिन्नत्वं व्यासाद्य्-उक्त-नित्य-नैमित्तिक-धर्म-जातेन पाञ्च-रात्रोक्त-शृङ्खला-बद्धाभिगमनादि-परमैकान्ति-धर्मस्य समावेश सम्भवश् च प्रमाणोपपत्तिभ्यां प्रतिष्ठापिते ।
[[5]]
एवं चैतत् सिद्धं यत् परमैकान्तिभिः प्रपन्नैः श्रौत-स्मार्त-कर्म-जातानुपरोधेन पञ्च-रात्रोक्त-वर्त्मना अभिगमनादि-पञ्च-काल-क्रिया अपि फल-सङ्ग-कर्तृत्व-त्याग-पूर्वकम् अवश्यम् अनुष्ठातव्या इति । कर्म-जन्यं स्वर्गादि-फलं मम न स्यात् इति फल-त्यागः । फल-साधनतया मदीयम् इदं कर्मेति या कर्मणि मदीयता-बुद्धिः तस्याः त्यागः सङ्ग-त्यागः । सर्वेश्वरे कर्तृत्वानुसन्धानेन आत्मनः कर्तृत्व-बुद्धेः त्यागः कर्तृत्व-त्यागः । इत्थं रूपाणां श्रौत-स्मार्त-कर्मणां अभिगमनोपादानादीनां चानुष्ठान-क्रम-बोधनार्थं प्राक्तनैः आचार्यैः अनेके ग्रन्थाः कृता इति ज्ञयते । तेषु चतुर्-वेद-शत-क्रतु-कुमार-ताताचार्य-तनूद्भवैः शत-क्रतु-चतुर्-वेदि-श्रीनिवासाचार्यैः कृतस्य पञ्च-काल-क्रिया-दीपस्यास्त्य् अन्-इतर-साधारणं महत्वम् । यतो हि आह्निक-नाम्ना नामान्तरेण च अन्यैर् आचार्यैः कृतेषु ग्रन्थेषु अभिगमनादीनां पञ्च-कर्मणाम् अनुष्ठान-क्रम एव सुविशदं प्रतिपादितो ऽस्ति । अग्नि-होत्र-दर्श-पूर्ण-मासादि-श्रौत-कर्मणां परमैकान्तिभिः अनुष्ठातव्यः क्रमः न तत्र प्रत्यपाद्यत । अत एव श्री-वैष्णवाः एतादृश ग्रन्थालाभात् एतत्-प्रक्रियायाः विच्छेदेन यथावद् अनवगमाच् च प्रायो न श्रौत-कर्माण्य् अनुतिष्ठन्तीति वस्तु-स्थितिर् इयम् । अस्य पञ्च-काल-क्रिया-दीपस्य इदं प्रथमतया प्रकाशनेन परमैकान्तिनः श्री-वैष्णवाः अन्ये च नितराम् उपकृता भविष्यन्तीति द्रढीयान् अस्माकं विश्वासः ।
[[6]]
॥ एतद्-ग्रन्थ-प्रतिपाद्याः विषयाः ॥
अत्र पञ्चभिः परिच्छेदैः “अभिगमनं, उपादानं, इज्या, स्वाध्यायः, योगः”, इति पञ्च-कर्माणि प्रतिपाद्यन्ते । तत्र अभिगमनाख्ये प्रथमे परिच्छेदे ब्राह्मे मुहूर्ते उत्थाय कर्तव्यं ध्यान-प्रकारं अभिगमन-संकल्पं मल-मूत्रोत्सर्जन-शौचादि-विधिं आचमन-विधिं दन्त-धावन-विधिं स्नान-विधिं वस्त्र-धारण-प्रकारं ऊर्ध्व-पुण्ड्र-धारण-क्रमं प्रातस् सन्ध्या-वन्दन-क्रमं आधार-शक्ति-तर्पण-क्रमं ब्रह्म-यज्ञ-क्रमं च प्रत्यपादयत् । ततः श्रौत-स्मार्ताग्नि-कार्य-विधिं प्रत्यपादयत् । तत्-प्रसङ्गात् पशु-हिंसा-युक्तेषु श्रौत-कर्मसु परमैकान्तिनां उपरि-चरादीनां प्रवृत्य् अदर्शनात् कथं तेषां करणीयत्वम् ? प्रपन्नानां परमैकान्तिनां श्रौत-कर्म-फलानाम् अन्-अपेक्षितत्वाच् च तेषां श्रौत-कर्मसु प्रवृत्तिर् अयुक्तेत्याक्षेपं कृत्वा विस्तरेण भगवद्-आराधन-रूपतया श्रौत-कर्मणाम् अनुष्ठानं न विरुध्यते इति पिष्ट-पशु-खण्डन-पूर्वकं निरूपयां बभूव । महा-भारत-स्थोपरि-चरोपाख्यान-तात्पर्यं च सम्यक् व्यवृणोत् । ततः अनि-होत्र-दर्श-पूर्ण-मास-व्रतोपायन-पशु-बन्ध-सोम-याग-महाग्नि-चयनानां परमैकान्ति-प्रपन्नैर् अनुष्ठेयं क्रमं न्यबध्नात् । ततो महा-पुरुष-ध्यान-प्रकारम् औपासन-क्रमं च प्रतिपादयति स्म । यतीनाम् अपि पूर्वम् आहिताग्नीनां दहन-संस्कारो ऽस्तीति प्रसङ्गात् न्यरूपयत् ।
अत्रत्यः पिष्ट-पशु-खण्डन-पूर्वकं प्रत्यक्ष-पशु-याग-समर्थन-प्रकारः पिष्ट-पशोः कार्त-युग-धर्म-निष्ठाधिकारि-विशेष-विषयत्व-निरूपण-प्रकारः यागोपयुक्तानां मन्त्राणां अष्टाक्षर-मन्त्र-पूर्वकं प्रयोग-प्रकारः श्री-वैष्णवानां अग्नि-होत्र-दर्श-पूर्ण-मास-सोम-यागाद्य्-अनुष्ठान-प्रकारश् च विदुषां प्रमोदाय तत्-तत्-कर्म अनुतिष्ठासूनां श्री-वैष्णवानां महते उपकाराय च कल्पेतेति निश्चप्रचम् ।
ततः उपादानाख्ये द्वितीये परिच्छेदे - अह्नो द्वितीय-भागे सम्प्राप्ते उपादान-सङ्कल्पं पूजोपकरण-द्रव्य-सम्पादन-प्रकारं दर्भ-संग्रहण-विधिं पुष्प-तुलस्यारण[[??]]-क्रम-त्याज्योपादेय-पुष्प-विवेकं अन्येषां पात्र-आसन-ध्वज-गन्ध-द्रव्य-भूषणादीनाम् उपकरणानां च सम्भरण-प्रकारं विशदम् उवाच ।
[[7]]
ततः तृतीये इज्याख्ये परिच्छेदे – इज्यार्थ-सङ्कल्पं माध्याह्निक-स्नान-विधिं माध्याह्निक-सन्ध्या-विधिं चोक्त्वा ततः भगवत्-सन्निधौ शरणागति-प्रकारं इज्यार्थ-विशेष-सङ्कल्पं प्राणायाम-विधिं चोक्त्वा विस्तरेण भूत-शुद्धि-प्रकारः उक्तः । अत्रोक्तः भूत-शुद्धि-प्रकारः अतिविलक्षणः विस्तृतश् चास्ति । तत्त्व-न्यास-प्रकारो ऽपि विलक्षणो विस्तृतश् च । ततः अष्टाक्षर-महा-मन्त्रस्य न्यास-प्रकारः जप-प्रकारश् चोक्तः । ततः द्वय–चरम-श्लोक–द्वादशाक्षर–षड्-अक्षर–विष्णु-गायुत्री–श्री-मन्त्र–पुरुष-सूक्त–श्री-सूक्त–साल-ग्राम-मन्त्राणां न्यास-ध्यान-जप-प्रकारान् प्रतिपादयति स्म । ग्रन्थान्तरेषु एते विषया दुर्लभाः । ततः षड्-आसनोपेत-भगवद्-आराधन-प्रयोगं विन्यास्थत् । अयं प्रयोगो ऽपि विस्तृतो विलक्षणश् चास्ते । ततो विष्वक्सेनाराधन-क्रमं अवोचत् । ततो वैष्णव-होम-विधिं भोजन-विधिं च समगृह्णात् ।
ततः स्वाध्यायाख्ये चतुर्थे परिच्छेदे – स्वाध्यायार्थ-सङ्कल्पः भगवत्-प्रीणन-स्व-चित्त-रञ्जकेतिहास-पुराणस्तोत्र-निगमान्त-द्वय-व्यापक-मन्त्रादीनां श्रवण-मनन-प्रवचन-जपादि-विधिः लोहितायति-भास्करे सायं सन्ध्योपासन-विधिश् च प्रतिपादितः । ततः पञ्चमे योगाख्ये परिच्छेदे - परमात्म-ध्यान-प्रकारः स्वापादि-प्रकारश् च उक्तः ।
[[8]]
॥ ग्रन्थ-नाम्नः औचित्यम् ॥
पाञ्च-रात्रोक्त-रीत्या पञ्च-काल-कर्तव्यानां अभिगमनोपादानेज्या-स्वाध्याय-योगाख्य-पञ्च-कर्मणां प्रकाशकत्वात् अस्य ग्रन्थस्य “पञ्च-काल-क्रिया-दीप” इति नाम । नित्याख्यः ग्रन्थः यद्य् अपि भाष्य-कारैः कृतः तथापि स इज्या-प्रयोग-मात्र-विश्रान्तः । वङ्गि-वंशेश्वर-कृतः ग्रन्थः पञ्च-काल-क्रिया-प्रतिपादको ऽपि कारिका-रूपः । नारायणार्य-प्रभृति-ग्रन्थः अधुना दुर्लभः । तत्र श्रौत-स्मार्त-कर्मणां अनुष्ठान-विधिर् नास्ति । अतः नित्य-वङ्गि-वंशेश्वर-कारिका–श्री-पाञ्च-रात्र-रक्षादि-ग्रन्थान् अवलम्ब्य श्रुति-स्मृति-पाञ्च-रात्र-संहितादि-ग्रन्थांश् च अपेक्षित-श्रौत-स्मार्तादि-कर्माणि अभिगमनादीनि च प्रतिपादयन्न् अनुपमो ऽयं ग्रन्थः अत्यन्तम् उपकारको भवति । चिन्नैय्यन्-आह्निकम् इत्य् अपि अस्य ग्रन्थस्य प्रसिद्धिः ।
॥ ग्रन्थ-शैली ॥
अस्य ग्रन्थस्य शैली प्रमाणोपपन्ना सरला मधुमय-फणिति-सन्दृब्धा च । अपेक्षित-स्थले श्रुति-स्मृति-पञ्च-रात्रादि-वचनोपन्यास-पूर्वकं विषयोपपादन-प्रक्रिया विद्वन्-मनांसि रञ्जयति । आचमन-आधार-शक्ति-तर्पणादिषु बहुषु विषयेषु अत्रोक्ता प्रक्रिया इदानीन्तनानुष्ठान-विलक्षणा वर्तते ।
[[9]]
॥ ग्रन्थ-कर्तृ-वैभवम् ॥
अस्य ग्रन्थस्य रचयितारः शत-क्रतु-चतुर्-वेदि-श्रीनिवासाचार्याः । एतेषां पितरः नावल्पाक्काग्रहाराभिजनाः कुमार-ताताचार्याः । ते च अधीत-सकल-वेद-तद्-अङ्गाः षड्-दर्शनी-बल्लभाः अनुष्ठित-क्रतु-शताः अत एव चतुर्-वेदः शत-क्रतुः इति बिरुद-भाजन-भूताः तञ्जापुरीय-नायक-वंश्य-राजानां अच्युत-नायक-रघु-नाथ-नायक-विजय-राघव-नायकानां मन्त्रिणः राज-गुरवश् च व्यराजन्त । तेषां अय्याकुमार-ताता-चार्याणां राज-गुरूणां चरितं कालं चाधिकृत्य सरस्वतीमहाल् ग्रन्थालय-प्रकाशितस्य तत्-कृत-पारिजात-नाटकस्य भूमिकायां N. S. देव-नाथाचार्यैः विस्तृततया विवेचितं निर्णीतं च । कुमार-ताताचार्याणां कालः क्रैस्तवीय षोडश-शताब्द्याः अन्तिम-भागः सप्त-दश-शताब्धाः आद्य-भागश् च । अण्णामलै विश्व-विद्यालयीय-विमर्श-सञ्चिकायाः नवमे ऽङ्के नायक-राजान् अधिकृत्य वृद्ध-गिरीशेन लिखिते निबन्धे एवम् उल्लिखितम् अस्ति यत् - अय्याकुमार-तात-देशिकानां मुख्यो जीवित-भागः ( 1575 A. D. to 1630 A. D. ) एते राज-कुटुम्बस्य गुरवः । द्वितीय-वेङ्कटस्य राज्ञः ( 1630 A. D. ) पट्टाभिषेकम् अकारयन् । तिरुमल-श्री-वेङ्कटाचल-पतेः आनन्द-निलय-विमानस्य काञ्ची-पुर्यां वरद-राजालये कल्याणकोटि-पुण्य-कोटि-विमानयोश् च निर्माणे मुख्या प्रेरका आसन् इति ।
[[10]]
विजय-राघव-नायकेन ( 1633 AD to 1673) कालिकेन वैष्णव-मते अतिशयितां भक्तिं श्रद्धां च वहता अय्याकुमार-ताताचार्याः नितरां सत्कृताः मन्त्रित्वेन राज-गुरुत्वेन च पुरस्कृताः । कुमार-ताताचार्य-पादुकां आन्दोलिकायां निक्षिप्य छत्र-चामरादिभिः परिवारैश् च सह वीथी-भ्रमणं अकारयत् इति प्रसिद्धिः ।
एतेषां कुमार-ताताचार्याणां सप्त-पुत्राः । तेषां ज्येष्ठः नील-मेघाचार्याभिधानः । तस्यैव पुत्र-पौत्र-नप्तृ-परंपरागताः इदानीं नावल्पाक्काख्येग्रामे निवसन्ति । रघु-नाथाख्यस्य तृतीय-पुत्रस्य वंशजाः तिरुच्चेरै क्षेत्रादिषु वसन्ति । विङ्कटाचार्याभिख्यस्य चरम-पुत्रस्य वंशजाः कुम्भ-घोणे पाट्टराचार्य-चीथ्यां निवसन्ति । श्रीनिवासाचार्य-नाम्नः पुत्रस्य वंशोत्पन्नाः त्वार् (दक्षिण-द्वारका) क्षेत्रे वसन्ति ।
प्रकृत-ग्रन्थ-कर्ता श्रीनिवासाचार्यो ऽप्य् अयम् एवेति सम्भाव्यते । वेङ्कटाचार्यैः कृते अय्याकुमार-तात-देशिक-वैभव-प्रकाशिकाख्ये ग्रन्थे कुमार-ताताचार्यः स्वयं भगवद्-गुण-गोचरान् बहून् ग्रन्थान् अकरोत् सर्व-शास्त्र-विचक्षणैः स्व-पुत्रैश् च बहून् ग्रन्थान् अचीकरद् इत्य् उक्त्वा
[[11]]
विशिष्टाद्वैत-सरणिं पञ्च-काल-प्रदीपिकाम्
इति चावदत् । तेन अय्याकुमार-ताताचार्यैः अयं ग्रन्थः स्व-पुत्र-श्रीनिवासाचार्य-द्वारा कारित इत्य् अवगम्यते । विजय-राघव-नायक-मनः-कान्ता-मणि-श्री-रङ्गाजम्म-विरचिते “उषापरिणयमु” इति नामके तेलुगु-पद्य-काव्ये –
चेलुवु मीरु शत-क्रतु-श्रीनिवास-
तात-गुरु-वर्यु नकु वन्दनमो नर्तु
इति श्री-कुमार-ताताचार्य-कुमारस्य शत-क्रतु-श्रीनिवासाचार्यस्य बहुमान-पूर्वकं सङ्कीर्तनम् अस्ति । तस्मात् पञ्च-काल-क्रिया-दीप-कर्तुः कालः सप्त-दश-शतकाद्य-भागः स्याद् इति निर्णीयते । किं बहुना ! एतद्-ग्रन्थ-कर्तॄणां श्रीनिवासाचार्याणां शिष्यैः सच्-चरित्र-सुधा-नामकस्य स्मृति-सङ्ग्रगहस्य प्रणेतृभिः श्री-नैध्रुव-वंश-मुक्ता-फलैः सकल-धर्म-शास्त्र-पारावार-पारदृश्वभिः श्री-वीर-राघवाचार्यैः तद्-ग्रन्थारम्भे
शत-क्रतु-विधि-स्तव्यं चतुर्-वेद-विहारिणम् ।
श्रीनिवास-गुरुं सीता-नायकं च नमाम्य् अहम् ॥
श्रीमच्-छ्री-निधि-देशिकस्य चतुर्-आम्नायस्य दिव्याज्ञया कर्तुं सच्-चरितान्धिम् अध्वर-शतानुष्ठान-निष्ठा-जुषः ।
मीमांसा-द्वय-वल्लभश् च बुध-राट् श्री-श्रीनिवासस् सुधीः
सम्यक् साहस-कारिणो मम तरिः स्यात् कृष्ण-विद्वन्-मणिः ॥
चतुर्-आम्नाय-षट्-सूत्री-रहस्यार्थोपदेशिनः ।
श्री-वास-देशिकस्यान्ते मेधा कस्य न जृम्भते ॥
इति प्रकृत-पञ्च-काल-क्रिया-दीप-कर्तॄन् चतुर्-आम्नाय-श्रीनिवासाचार्यान् स्तुवन्तः एतेषां ज्ञानानुष्ठान-वैभवं प्राचीकशन् । इतो ऽधिकं जिज्ञासमानाः पारिजात-नाटक-भूमिकां दृष्ट्वा अवगच्छन्तु इति प्रार्थये ।
॥ एतद्-ग्रन्थ-मातृकाः ॥
निबन्धो ऽयं आस्तिकाग्रेसरणां विदुषां प्रीत्यावहो भविष्यति । ग्रन्थस्यास्य प्रकाशेन विविधानां विवाद-ग्रस्त-विषयाणां स्पष्टी-करणं भविता । अस्य मातृकाः (5) पञ्च तञ्जापुर-विराजमान-सरस्वती-महाल् भाण्डागारे उपलभ्यन्ते । सर्वा अप्य् एताः ताल-पत्रात्मिकाः ग्रन्थ-लिपिमय्यः । तासां सरस्वती-महाल्-मातृकालय-सम्प्रदाय-सिद्धः अङ्क-व्यपदेशः –
[[12]]
1 (No. B. 9329a — D 18599 ) 67 पत्राणि परिमाणं 17 X 1⁄2 इंच् पूर्णा.
2 (No. B. 9330 — D. 18800) 17 × 1/2 इंच्
3 (No. B. 9321 a — D. 18601) अपूर्णा
4 (No. B. 9321 p — D. 18602) अपूर्णा
5 (No. B. 9321 c — D. 18003) अपूर्णा
तासां मध्ये आद्यैव मातृका-मुद्रापणे प्राधान्येन अवलम्बिता । अस्त्य् अन्या काचन मातृका-ताल-कोशमयी अस्मद्-आचार्य-वर्याणां तिरुमल-चतुर्-वेद-शत-क्रतु-अय्यादेव-नाथ-ताताचार्य-स्वामिनां सविधे । सा तु शुद्धा । तञ्जापुर-कोशे । यास् त्रुटयः ताः एतन्-मातृका-साहाय्येन पूरिताः । तादृश-स्थलेषु [] एतादृशं चिह्नं निवेशितम् । एवं मद्रराजकीय-हस्त-लिखित-पुस्तक-भाण्डागार-स्थायाः R 1705 सङ्ख्याङ्कितायाः मातृकायाः प्रतिलिपी-कृतः कोशो ऽपि एतद्-ग्रन्थ-शोधनार्थं उपयुक्तः ।
इत्थं महता श्रमेण संशोधिते ऽप्य् अत्र ग्रन्थे मनुष्य-मात्र-सुलभानवधानादिना अ-शुद्धयः अ-वर्जनीय-तया समापतन् । ताः विद्वांसः शोधयित्वा नूतन-ग्रन्थ-लाभेन सन्तुष्येयुर् इति विश्वसिमि ।
अस्य ग्रन्थस्य मुद्रापणम् अवश्यं कार्यम् इति असकृत् मां प्रचोदितवद्भ्यः वेद-तद्-अङ्ग-मीमांसादि-शास्त्र-निष्णातेभ्यः श्रौत-स्मार्त-पञ्च-काल-क्रिया-परायणेभ्यः अनुष्ठित-सोम-यागेभ्यः तिरुमलै चतर्-वेद-शत-क्रतु-नावल्पाक्कं-सोमयाजि-नारायण-ताताचार्य-स्वामि-पादेभ्यः (वैकुण्ठ-वासिभ्यः) मम वेद-गुरुभ्यः प्रप्रथमं सनमोवाकं कार्तज्ञ्यं निवेदयामि । –
[[13]]
ततः स्व-सविध-स्थ-मातृका-प्रदानेन एतद्-ग्रन्थस्थ विषम-स्थलादि-शोधनेन चोपकृतवद्भ्यः अस्माकं न्याय-मीमांसा-वेदान्त-शास्त्राचार्येभ्यः सकल-शास्त्र-पारङ्गतेभ्यः आजान-शुद्धेभ्यः अनुष्ठान-परेभ्यः तिरुमलै चतुर्-वेद-शत-क्रतु-नावल्पाक्कं अय्या देव-नाथ-ताताचार्य-स्वामि-चरणेभ्यः वन्दनानि समर्पयामि ।
ततः एतद्-ग्रन्थ-प्रकाशने अपेक्षितं साहाय्यम् आचरितवद्भ्यः सुहृद्-वरेभ्यः तिरुपति-स्थ-केन्द्रीय-संस्कृत-विद्या-पीठे प्राध्यापक-पदम् अधितिष्ठद्भ्यः शास्त्र-रत्नाकरेभ्यः एन्. एस् रामानुज-ताताचार्येभ्यः हार्दिकीं कृत-ज्ञतां प्रकाशयामि ।
ततः एतद्-ग्रन्थ-सम्पादने प्रथम-प्रेरकाणां भूत-पूर्व-सरस्वती-महाल्-कोशालयाधिकारि-वर्गाणां अद्य मुद्राप्य प्रकाशितवतां इदानीन्तनाधिकारि-वर्गाणां अस्य ग्रन्थस्य प्रूफ्शोधनं कृतवतां सरस्वती-महाल्-पण्डितानां च हार्दं कार्तज्ञ्यं प्रकटयामि ।
नैसर्गिकात् पुरुष-बुद्धि-प्रमादात्, तत्र तत्र अक्षर-लोपाश् च मन्ये कतिचन दोषाः लब्धास्पदा भवेयुः । स-हृदय-वरेण्यैर् विद्वज्-जन-तल्लजैः क्षन्तव्यो ऽयमन्तुर् इत्य् अभ्यर्थये इति शम् ॥
[[14]]
शत-क्रतु-चतुर्-वेद-तातार्य-तनु-जन्मने ।
श्री-शैल-वंश-जनुषे श्रीनिवासाय मङ्गलम् ॥
श्रीमते श्रीनिवास-तातार्य-महा-गुरवे नमः ।
नावल्पाक्कम्, 22-11-80
विद्वज्-जन-विधेयः नावल्पाक्कम्. कृ. रामानुज-ताताचार्यः ( संपादकः ) भूत-पूर्व-संस्कृत-पण्डितः, सरस्वती-महाल्, तञ्जावूर