आगमप्रामाण्ये यामुनार्यः -
ये पुनः सावित्र्य्-अनुवचन-प्रभृति–त्रयी-धर्म-त्यागेन एकायन-श्रुति-विहितान् एव चत्त्वारिंशत् संस्कारान् कुर्वते
तेऽपि स्व-शाखा-गृह्योक्तम् अर्थं यथावद् अनुतिष्ठमानाः
न शाखान्तरीय–कर्माननुष्ठानाद् ब्राह्मण्यात् प्रच्यवन्ते।
…
सर्वत्र हि जाति-चरण-गोत्राधिकारादि-व्यवस्थिता एव समाचारा उपलभ्यन्ते ।
… विलक्षणाश् च त्रयी-विहित-स्वर्ग-पुत्रादि-विषयोपभोग-साधनैन्द्राग्नेयादि-कर्माधिकारिभ्यो द्विजेभ्यस्त्रय्य्-अन्तैकायन-श्रुति-विहित-विज्ञानाभिगमनोपादानेज्या-प्रभृति-
भगवत्-प्राप्त्य्-एकोपायक-कर्माधिकारिणो मुमुक्षवो ब्राह्मणा
इति नोभयेषाम् अप्य् अन्योन्य-शाखा-विहित-कर्माननुष्ठानम् अ-ब्राह्मण्यम् आपादयति।
(तत्र राममिश्रशास्त्रिणः पाद-टिप्पनी)
एतेनैते श्री-संप्रदाये सर्व-वेद-रहस्यार्थानुयायिनि केनाप्य् अज्ञात-सुकृतेन समुत्पद्यापि
शिष्य-संजिघृक्षया वा, शिष्यान् व्यामोह्यार्थ-लिप्सया वा,
शास्त्र-तत्त्वार्थानभिज्ञानेन वा, दुरभिमानगरिम्णा वा, लोक-धन्धनार्थं वा,
पूर्वाचार्य-वचस्-स्वश्रद्धया वा, तदीय-चरम-तात्पर्य-ज्ञानाशक्ततया वा,
कलि-कल्मष-कलुषतया वा, स्वीय-दुर्-अदृष्टाकृष्टतया वा,
वादि-निगूढातिप्रौढ-भावार्थानभिज्ञतया वा
लिके स्वप्रौढिम-ख्यापनाय वादिनि मुधैव संनिनत्सया वा,
अथवा संभूयैतैः सर्वैर् हेतुभिर् एव
“ओं तत् सद्” इति निर्देशो
ब्रह्मणस् त्रिविधः स्मृत
इति भगवद्-उक्त-रीत्या
ब्रह्मासाधारण-“तद्”-आदि-पद-घटिते पर-ब्रह्मासाधारण-श्री-रामायणारम्भण-रूपे+++(5)+++ गायत्री-मन्त्रे
सर्व-वाद्य्-अविप्रतिपन्न-पर-देवता-प्रसादके देवतान्तरार्थकत्वं बलाद् अध्यारोप्य
साधारण-मन्त्रता-प्रसाधनेन
तस्य क्षुद्र-देवाराधन-परत्वं वा
द्विजानाम् अनावश्यकत्व-ख्यापनं वा
क्षुद्र-मन्त्र-साम्य-संभावनं वा कुर्वन्तः परास्ताः -
प्रकृतानां भागवतानां तद्-अत्याग-बोधनेन
त्यजतां च व्रात्यता-बोधनेन
पूर्वाचार्याणां गायत्री-मन्त्रे द्विजत्व-प्रसाधकतायाः स्पष्टम् अनुमतत्वेन
तन्-नित्यत्वे विवदमानानाम् आचार्यार्थ-वैमुख्यस्य बालेनापि सुज्ञानत्वात् ।
यद् अपि
क्वचित् स्मृतिषु गायत्र्या रवि-देवताकत्वं सवितृ-देवताकत्वं वा श्रूयते
इति न तस्या भगवन्-मन्त्रत्वम् इति समुत्थानं
तत् तु
रविः सुलोचनः सूर्यः
सविता रविलोचनः
इति श्लोक-स्थ-भगवन्-नामानभिज्ञान-निबन्धनम् एव ।
यत्र ब्रह्मासाधारण-लिङ्ग-दर्शनेन भौतिकाकाशादि-वाचकाकाशादि-पदानाम्
“आकाशस् तल्-लिङ्गाद्” इति पर-ब्रह्मोपस्थापकत्वम् आस्थिषताचार्यैः+++(र्याः)+++,
किमु तत्र भगवन्-नाम-गणान्तः-पातिनो रवि-सवितृ-पदयोर् भगवद्-वाचकत्व-विप्रतिपत्ति-समुत्थान-शङ्काऽपि विदुषाम् ।
न च
यानि नामानि गौणानि
विख्यातानि महात्मनः ।इत्य्-आदिना सहस्र-नामाचार्य एव
गौण-नामताम् अवोचद् इति
न तयोर् भगवद्-रूढत्वं
किन्तु रवि-सवितृ-पदयोः कोशादिना दिवाकर एव रूढिर्
इति कथं भगवद्-असाधारण्य-संभावनापि
इति वाच्यम् ।
न ह्य् अत्र गौणानीत्य् उक्त्या
गुण-वृत्त्या भगवद्-अभिनिर्देशकत्वम् अभिधित्सितं
किन्तु
अवयव-शक्त्या भगवद्-अभिधायकत्वेन
डित्थ-कपित्थादि-शब्दानाम् इव भगवन्-नाम-गणान्तः-पाति-शब्दानां न यदृच्छा-शब्दत्वम्,
किन्तु लोक-वेदयोस् तेषां शब्दानां
तद्-अर्थे शक्ति-भ्रम-विधुरैर् लक्षणाग्र-रहितैश्च ऋषिभिर्
भृशं परस्मिन् ब्रह्मणि वासुदेवे ऽभिहितत्वात्
तद्-वाचका एव ते शब्दा
इत्य् अयम् अर्थः ।
अत एव तु प्रयोग-भूयस्त्वाभिधित्सया विख्यातानीत्य् उक्तम् ।
परिगीतानीत्यत्र परिपदम् अपि सहस्र-नाम्नां रूढत्वम् उपोद्वलयति ।
किं च सर्वधीप्रेरयितृत्व-लक्षणान्तर्यामि-कृत्य-लिङ्गोपलम्भ-सामर्थ्येन अपि तस्या ब्रह्मासाधारण्य-सिद्धिः ।
किं च
प्रिय एव हि सर्वथा वरणीयो भवति, नाप्रिय
इति वरणीयत्व-लिङ्ग-लिङ्गितत्वेनापि निरतिशय-प्रियतमत्वेन ब्रह्मासाधारण्य-सिद्धिर् इति प्रव्यक्तम् ।
ततश् चर्षीणां लक्षणाग्रहाजन्य-भूयः-प्रयोग-योगेन
नाम्नां रूढत्व-सिद्ध्या
सावित्रादि-देवताकत्वं पर-ब्रह्मासाधारण-देवताकत्व-साधकम्
इति सुपुष्कलम् अवशिष्टं चास्मच्-छिष्यैः सुनिरूपितम् अन्यत्रेति
कृतम् अनभिज्ञ-निग्रह-संनहनेन
वैदिक-मार्ग-निष्कण्ठकी-करण-प्रवृत्तानां सु-दूर-दृशाम् ॥