अथ योगः । (५)
ततः सुप्रक्षालितपाणिपादम् आचम्य शुचौ देशे आसीनस्त्रिस्सकृद्वा प्राणानायम्य, “कृतञ्च…योगेन भगवत्कर्मणा… अर्चयिष्यामि” इति योगं सङ्कल्प्य, “भगवानेव योगाख्यं कर्म स्वस्मै स्वप्रीतये स्वयमेव कारयति” इत्यनुसन्धाय द्वयमुच्चार्य भगवद्ध्यानसोपानम्, अशक्तौ
पादाम्भोजं स्पृशति भजते रङ्गनाथस्य जङ्घा-
मूरुद्वन्द्वे विलगति शनैरूर्ध्वमभ्येति नाभिम् ।
वक्षस्यास्ते वलति भुजयोर्नामिकेयं मनीषा
वक्त्राभिख्यां पिबति वहते वासनां मोलिबन्धे ॥
इति श्लोकं वा अनुसन्दधीत । यथाशक्ति शुभाश्रयमापादचूडं ध्यायेत् । ततो निद्राप्रसक्तौ माधवशब्देन भगवन्तं ध्यायन् शुष्कपादः शास्त्रोक्ते स्थाने तादृशे शयने उदग्भिन्नदिङ्निहतशिराः शुद्धोऽनग्नश्च सुखेन शयीत । पश्चिमे यामे सम्प्राप्ते निद्रां परित्यज्य पूर्वदिन इव यथोक्तं सर्वं कुर्वीत । प्रत्यहमेवं वर्तमानस्य सर्वोऽपि कालः सफलो भवतीति सर्वमनवद्यम् ॥
अतिप्रबुद्धात् वङ्गीशवंशपाथोजभास्करात् ।
वेङ्कटाचार्यसूरीन्द्रात् मरुत्वान्पाडिवासिनः ॥
लब्धतापादिसंस्कारस्तत्कृपात्ताह्निकार्थधीः ।
त्रय्यन्तलक्ष्मणाभिख्ययोगीन्द्रपदजीवनः ॥
इत्येवं समगृह्णाच्छ्रीरङ्गरामानुजो मुनिः ।
अर्थिनः साधुभिः श्रीमद्गोपालार्यसदाह्निकम् ॥
श्रीमते वेदान्तरामानुजमहादेशिकाय नमः ॥
लघ्वाह्निकं सम्पूर्णम् ॥
श्रीमते रङ्गरामानुजमहादेशिकाय नमः ॥
[[35]]