अथ स्वाध्यायः ॥ (४)
कृतञ्च करिप्यामि…स्वाध्यायाख्येन भगवत्कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि
इति सङ्कल्प्य, “भगवानेव स्वाध्यायाख्यं कर्म स्वस्मै स्व प्रीरीतये स्वयमेव कारयति” इत्यनुसन्धाय, इतिहासपुराणाद्य वलोकनं मन्त्रजपादिकं वा यथाशक्ति यथारुचि कुर्यात् ॥ लोहितवर्णे भास्करे मध्याह्नवत् मान्त्रमानसे स्नाने कृत्वा, सायंसन्ध्यामुपासीत । तत्र सूर्यस्य इत्यादिस्थाने,
अग्निश्चेत्यनुवाकस्य - सूर्य ऋषिः, देवी गायत्री छन्दः, अग्निर्देवता, अपां प्राशने विनियोगः ॥
ओं अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदह्ना पापमकार्षम्। मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । अहस्तदवलुम्पतु । यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ । सत्ये ज्योतिषि जुहोमि स्वाहा ॥
इति पठनीयम् । अर्घ्यदानात् पूर्वमस्तङ्गते सूर्ये प्रातरिव तुरीयार्घ्यं देयम् । प्रातर्ध्यायामि इति स्थाने,
सायं सरस्वतीं श्यामां रविमण्डलमध्यगाम् ।
सामवेदं व्याहरन्तीं चक्रायुधधरां शुभाम् ।
ध्यायामि विष्णुदेवत्यां वृद्धां गरुडवाहनाम् ॥
इति पठनीयम् ।
[[33]]
तथा मित्रस्य इत्यादिस्थाने
इमं मे इति ऋक्पञ्चकस्य देवरात ऋषिः, गायत्रीजगतीत्रिष्टुभश्छन्दाँसि, सविता देवता । इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके। तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशँसमान आयुः प्रमोषीः । यच्चिद्धिते विशो यथा प्रदेव वरुण व्रतम् । मिनीमसि द्यवि द्यवि । यत्किञ्चेदं वरुणदैव्ये जनेभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मा युयोषिम मानस्तस्मादेनसो देव रीरिषः । कितवासो यद्रिरिपुर्नदीवि यद्वाघा सत्यमुत यन्न विद्म । सर्वा ता विष्य शिथिरेव देवाथाते स्याम वरुण प्रियासः
इति पठनीयम् । अन्यत् सर्वं पूर्ववत् । प्रदोषरहितायां रात्रौ आशौचादिरहितो यथाशक्त्यष्टाक्षरमपि जपेत् । तत आचम्य,
भगवानेव सायंसन्ध्योपासनाख्यमष्टाक्षरजपाख्यञ्च कर्म स्वप्रीतये कारितवान्
इति सात्त्विकत्यागं कृत्वा सायमौपासनं विधाय स्वार्चागृहं गत्वा,
अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान् त्रयी-
चूडादेशिकतद्गुरून् यतिवरं……नारायणं संश्रये ॥
इत्यनुसन्दधानः प्रणम्य द्वयमनुसन्धाय,
श्वः प्रातरभियानान्तकैङ्कर्यस्य विरोधिनम् ।
पापराशिं दयासिन्धो विनतस्याऽस्य नाशय ॥
इति प्रार्थ्य यथाशक्ति बाह्यैर् वाऽर्घ्यादिभिरभ्यर्च्य,
पक्वम् अन्नादिकं निवेद्य
सायं-वैश्वदेवं कृत्वा, पूर्ववत् भुञ्जीत ।
“भगवानेव स्वाध्यायाख्यं कर्म स्वप्रीतये कारितान्” इत्यनुसन्धाय “स्वाध्यायेन कर्मणा भगवान् प्रीयतां वासुदेवः” इति स्वाध्यायं भगवति समर्पयेत् ॥
[[34]]