(पर्यङ्कासन) ततः ‘भगवन् पर्यङ्कासनमवलोकय प्रतिगृह्णीष्व’ इति प्रार्थ्य मनसा समर्प्य तत्रोपविष्टं भगवन्तं ध्यात्वा पाचमाचमनीयञ्च दत्त्वा, पूर्वसमर्पितानि वस्त्रभूषणादीनि भगवद्विग्रहान्मनसाऽवमुच्य शेषाशनाय दत्त्वा, शयनोचितानि मृदूनि वस्त्रभूषणादीनि मनसा सर्वार्थतोयेन समर्प्याचमनीयं प्रदाय, गन्धपुष्पधूपदीपादिकं तोयेन समर्प्य बाह्यमेव कर्पूरनीराजनं समर्प्य यथाशक्ति भगवन्तं स्तुत्वा,
भगवानेव स्वकीयेन मया स्वकीयैरुपकरणैरौपचारिकादीन् भोगान् स्वप्रीतये प्रतिपादितवान्
इत्यनुसन्धाय, ‘भगवन् विष्वक्सेनाराधनाय मामनुजानीहि’ इति भगवन्तमनुज्ञाप्य यागावशिष्टेन वामभागस्थतोयेन विष्वक्सेनायार्घ्यादिकं तन्मन्त्रेण समर्प्य तोयं वा अन्यद्वा किञ्चिन्निवेद्य “भगवन् आचार्याराधनाय मामनुजानीहि” इत्यनुज्ञाप्य स्वाचार्यं नाममन्त्रेण तेनैव तोयेनाभ्यर्च्य, भगवते सघण्टनादं अर्घ्यं दत्त्वा कटिबद्धोत्तरीयः अष्टाङ्गप्रणामान् कृत्वा साञ्जलिस्तिष्ठन्,
श्रीश त्वदर्चनामध्ये यज्जातं बुद्धिपूर्वकम् ।
अपराधशतं चाङ्गजातवैकल्यमच्युत ॥
तत्सर्वं देवदेवेश क्षमस्व करुणाकर ।
अनन्यगतिना भीतभीतेनाद्य मयार्थितः ॥
इति प्रार्थयेत । तत आचामेत् । ततस्तर्पणरूपं वा वैश्वदेवं कुर्यात् । भगवदभिषेकतोयं स्वयं पीत्वा परिजनांश्च पाययेत् ॥
[[31]]
ततः सुप्रक्षालितपाणिपादो द्विराचम्य वस्त्रयज्ञोपवीती प्राङ्मुखादिनियमयुक्तश्शास्त्रोक्ते पात्रे परिविष्टमन्नं दृष्ट्वा प्राञ्जलिः ‘अस्माकं नित्यमस्त्वेतत्’ इत्युक्त्वा व्याहृतिभिः प्रोक्ष्य, शोषणादिकं कृत्वा भगवन्मन्त्रैरभिमन्त्र्य अन्तर्यामिणे निवेद्य, परगृहे भुक्तिश्चेत् मनसा स्वार्चायै निवेद्यानन्तरमन्तर्यामिणे निवेद्य व्याहृतिभिः, ‘सत्यं त्वर्तेन परिषिञ्चामि’ इति च परिषिच्य पादेन भूमिं वामहस्ताङ्गुष्ठतर्जनीमध्यमाभिः वामभागं भुक्तिपात्रञ्च स्पृशन्, परदत्तेन पाद्यतोयेन ‘ओम् अमृतोपस्तरणमसि’ इत्यापोशनं कृत्वा साङ्गुष्ठमध्यमानामिकाभ्यां ‘प्राणाय स्वाहा’ इत्यादिभिः पञ्चभिस्सप्रणवैः पञ्चप्राणाहुतीः कृत्वा, मनसा प्राणायेदं न मम इत्याद्युद्देशत्यागमपि तदा तदा कृत्वा, वामहस्तं प्रक्षाल्य प्रतिकवलं गोविन्दं स्मरन् शास्त्रोक्तनियमव्यञ्जनसहितं भुक्त्वा परदत्त-पाद्य-तोयम् ‘ओम् अमृतापिधानमसि’ इति मन्त्रेण पीत्वा शेषम्,
रौरवेऽपुण्यनिलये पद्माम्बुदनिवासिनाम् ।
अर्थिदामुदकं दत्तमक्षय्यमुपतिष्ठतु ॥
इति मन्त्रेण भुक्तिपात्रस्य वामभागे देवतीर्थन भूमौ निस्स्राव्य, उत्थाय षोडशगण्डूषान् कृत्वा नखशोधनपूर्वकं सम्यक्दक्षिणहस्तं प्रक्षाल्य, मुखं संशोध्य पादौ भिन्नभिन्नस्थलेषु त्रिः प्रक्षाल्य, द्विराचम्य,
प्राणानाङ्ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेनाप्यायस्व
इति हृदयं स्पृष्ट्वा,
अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः ।
ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्॥
इति दक्षिणपादाङ्गुष्ठे ऊर्ध्वदक्षिणहस्तेन जलं निस्स्राव्य दिवा सूर्यं रात्रौ दीपं दृष्ट्वा,
उदुत्यं जातवेदसं देवं वहन्ति केतवः शे विश्वाय सूर्यम्
इत्यादित्यमुपस्थाय,
[32]
विष्णुरत्ता तथैवान्नं परिणामश्च वै सदा । सत्येन तेन मे भुक्तं जीर्यत्वन्नमिदं ततः ॥
इत्युच्चार्य उदरं परिमृज्य “ओं" इति ब्रह्मणि स्वात्मानं योजितं ध्यात्वा भगवदुपभुक्तताम्बूलशोधितास्यः
भगवानेव स्वशेषभूनेन मया इज्याख्यं कर्म स्वप्रीतये कारितवान्इ
इत्यनुसन्धाय, “इज्यया भगवत्कर्मणा भगवान् प्रीयतां वासुदेवः” इतीज्यां समर्पयेत् ॥