१९ पुनर्मन्त्रासनम्

(पुनर्मन्त्रासनम्) ततः पूर्वसमर्पितं मन्त्रासनं कूर्चेन शोधितं ध्यात्वा ‘भगवन् पुनमन्त्रासनम् अवलोकय प्रतिगृह्णीष्व’ इति प्रार्थ्य मनसा समर्प्य तत्रोपविष्टं भगवन्तं ध्यात्वा पाद्यमाचमनीयञ्च दत्त्वा ‘भगवन् गन्धपुष्पधूपदीपादिकमवलोकय प्रतिगृह्णीष्व’ इति प्रार्थ्य सर्वार्थतोयेन समर्प्य प्रणम्य ‘भगवन् एतदासनानुबन्धिनस्सर्वान् अपराधान् क्षमस्व’ इति प्रार्थ्य ‘अनेन प्रीयतां वासुदेवः’ इत्यनुसन्दधीत ।

[[30]]