(भोज्यासनम्) ततः, ‘भोज्यासनमवलोकय प्रतिगृह्णीष्व’ इति प्रार्थ्य मनसा समर्प्य तत्रोपविष्टं भगवन्तं ध्यात्वा, पाद्यमाचमनीयञ्च दत्त्वा सर्वार्थतोयेन मधुपर्कं प्रदायाचमनं दत्त्वा तेनैव गां सुवर्णं रत्नानि च प्रदाय सर्वानपि पक्वान् पदार्थान् भगवतः पुरतो निधाय शोषणादिभिर्विशोध्य अर्घ्यजलेन प्रोक्ष्य, अस्त्रमन्त्रेण रक्षां कृत्वा सुरभिमुद्रां प्रदर्श्य कृताञ्जलिस्तिष्ठन्,
मामनादृत्य दोषाणां निधिं भक्तिविवर्जितम् ।
कृत्वेदं कृपया सर्वे त्वदर्हे स्वीकुरु प्रभो ॥
इति प्रार्थ्य, सर्वार्थतोयेनार्हणाम्बु दक्षिणहस्ते दत्त्वा, ‘भगवन् सूपान्नमवलोकय प्रतिगृह्णीष्व’ इत्यादिरीत्या पदार्थजातमखिलं वामेन घण्टां नादयन् मूलमन्त्रेण ग्रासमुद्रया निवेदयेत् । तदातदा पानीयपात्रात् पानीयमादाय पूर्वोक्तरीत्या दद्यात् । ततस्सर्वार्थतोयेन हस्तप्रक्षालनं ध्यात्वा पाद्यमाचमनीयञ्च दत्त्वा ताम्बूलं प्रदाय प्रणम्य, ‘भगवन् एतदासनानुबन्धिनोऽपराधान् क्षमस्व’ इति प्रार्थ्य ‘अनेन प्रीयतां वासुदेवः’ इत्यनुसन्दधीत ।