(अलंकारासनम्) अथ ‘भगवन् अलङ्कारासनमवलोकय प्रतिगृह्णीप्व’ इति प्रार्थ्य मनसा मूलमन्त्रेण समर्प्य, तत्रोपविष्टं भगवन्तं ध्यात्वा, अर्घ्यादिपात्रस्थं तोयमन्यत्र निस्स्राव्य वामभागस्थपात्रगततोयावशेषेण पात्राणि पूरयित्वा,
[[28]]
स्नानीयस्थाने पानीयसहितमर्घ्यादिकं पूर्ववत् परिकल्प्य, सघण्टानादं पूर्ववदर्घ्यं दत्वा, द्विः पाद्यं त्रिराचमनीयञ्च प्रदाय, ि
भगवन् पीताम्बरमवलोकय प्रतिगृह्णीष्व, किरीटमकुटादीनि दिव्यभूषणान्यवलोकय, दिव्ययज्ञोपवीतमवलोकय, ऊर्ध्वपुण्ड्रतिलकं प्रतिगृह्णीष्व
इति प्रार्थयमानः प्रत्येकं पीताम्बरादीनि सर्वार्थतोयेन समर्प्य, पूर्वसंस्कृतान् गन्धान् पुष्पाणि च ‘भगवन् इमान् गन्धान् अवलोकय प्रतिगृह्णीष्व’ इत्यादिप्रार्थनापूर्वकं मूलमन्त्रेण समर्प्य, धूपमुत्पाद्य शोषणादिभिर्विशोध्यार्घ्यजलेन प्रोक्ष्य, अस्त्रमन्त्रेण संरक्ष्य सुरभिमुद्रां प्रदर्श्य, ‘भगवन् धूपमवलोकय प्रतीगृह्णीष्व’ इति प्रार्थ्य सघण्टानादं समर्प्य, दीपमारोप्य एवमेव संस्कृत्य सघण्टानादं समर्प्य आचमनीयं दत्त्वा मूलमन्त्रेण प्रत्यक्षरं ‘ओं ओं, ओं नम्’ इत्येवं रीत्या पुष्पाणि तुलसीदलानि वा प्रदाय, शक्तौ सत्यामन्यैश्च भगवन्मन्त्रैः पुष्पाणि प्रदाय प्रणम्य यथाशक्ति स्तोत्राणि पठित्वा ‘भगवन् अयमात्मा तवैव नित्यकिङ्करः’ इति स्वात्मानं नित्यकिङ्करत्वेन निवेद्य यथाशक्ति मूलमन्त्रं जपित्वा ‘भगवान् मात्रां प्रतिगृह्णीष्व’ इति सर्वार्थतोयेन तां मूलेन समर्प्य
भोगापवर्गफलदान् भुङ्क्ष्व भोगान् जगद्गुरो ।
सतामप्यसतामेषामस्तु ते परिपूर्णता ॥
इति प्रार्थ्य, वामेन घण्टां नादयन् अर्घ्यं दत्त्वा ‘भगवन् एतदासनानुबन्धिनोऽपराधान् क्षमस्व’ इति प्रार्थ्य, ‘अनेन प्रीयतां वासुदेवः’ इत्यनुसन्दधीत ॥