(स्नानासनम्)
सदा संवाह्यमानं ते नित्याद्यैश्चरणद्वयम् ।
ममापि करयोरद्य निधेहि करुणानिधे ॥
इति प्रार्थ्य, पाद्यमादाय, ‘भगवन् पाद्यमवलोकय प्रतिगृह्णीष्व’ इति प्रार्थ्य
[[27]]
प्रार्थ्य मूलमन्त्रेण मनसा पादयोः किञ्चित् समर्म्य शेषं तस्मिन्नेव पात्रे प्रक्षिपेत् । पाद्यं द्विर्दद्यात् । ततः आचमनीयमादाय ‘भगवन् आचमनीयमवलोकय प्रतिगृह्णीष्व’ इति प्रार्थ्य दक्षिणहस्ते मनसा मूर्प्लेन किञ्चित् समर्प्य शेषं तस्मिन्नेव पात्रे प्रक्षिपेत् । आचमनीयं त्रिर्दद्यात् । ततः ‘गन्धपुष्पधूपदीपादीन् अवलोकय प्रतिगृह्णीष्व’ इति प्रार्थ्य सर्वार्थतोयेन तान् मूलेन समर्प्य,
भगवन् एतदासनानुबन्धिनस्सर्वान् अपराधान् क्षमस्व, प्रीयतामनेन वासुदेवः
इत्यनुसन्दधीत । ततः ‘आत्मात्मीयं सर्वं नित्यकिङ्करत्वाय स्वीकुरु’ इति प्रार्थ्य, बाह्यमेव स्नानासनं ‘भगवन् स्नानासनमवलोकय पतिगृह्णीष्व’ इति प्रार्थ्य मूलेन समर्प्य, सालग्रामशिलां तत्र स्थापयित्वा पूर्ववत् पाद्यमाचमनीयञ्च दत्त्वा ‘दन्तकाष्ठगण्डूषाद्युपचारान् प्रतिगृह्णीष्व’ इति प्रार्थ्य, सर्वार्थतोयेन मूलेन समर्प्य, पूर्वधृतं वस्त्रभूषणादिकं मनसा शेषाशनाय दत्त्वा, तेनैव स्नानार्हवस्त्रादिकं समर्प्य स्नानीयपात्रात् तोयमादाय वामहस्तेन घण्टां नादयन् पुरुषसूक्तेन मूलमन्त्रेण च तामभिषिञ्चेत् ॥ ततः शुष्कवस्त्रेण तां परिमृज्य पेटिकां प्रापयेत् । ततस्सर्वार्थतोयेन नीराजनं दत्त्वा पाद्यमाचमनीयञ्च समर्प्य ‘भगवन् एतदासनानुबन्धिनस्सर्वान् अपराधान् क्षमस्व’ इति प्रार्थ्य, ‘अनेन प्रीयतां वासुदेवः’ इत्यनुसन्दधीत ।