(मन्त्रासनम्) इति विज्ञाप्य मनसा मूलमन्त्रेण मन्त्रासनं समर्प्य तत्रोपविष्टं भगवन्तं ध्यात्वा उद्धरिण्या अर्घ्यमादाय ‘भगवन् अर्घ्यमवलोकय प्रतिगृह्णीष्व’ इति प्रार्थ्य, घण्टां वामेन नादयन् मूलमन्त्रेण भगवद्दक्षिणहस्ते मनसा किञ्चित् समर्प्य, शेषं पीठस्य प्राग्भागस्थापिते प्रतिग्रहपात्रे प्रक्षिपेत् ॥