१४ इज्याराधनम्

अथ इज्याराधनम् ॥

अथ सुप्रक्षालितपाणिपादो द्विराचम्य, यागगृहसमीपं गत्वा चण्डादीन् ध्यात्वा प्रणम्य स्वप्रवेशानुज्ञां भावयित्वा दक्षिणपादविन्यासपूर्वकं यागगृहं प्रविश्य अष्टाङ्गप्रणामान् कृत्वा, उत्तरीयं ब्रह्मसूत्रसमानाकारं धृत्वा, दक्षिणहस्तेन मूलमन्त्रेण घण्टानादं कृत्वा त्रिः करध्वनिं कृत्वा सालग्रामशिलापेटिकामुद्घाट्य अञ्जलिं कृत्वा भगवतः पुरस्तात् दक्षिणतो दर्भखण्डौ निक्षिप्य “आसनमन्त्रस्य…देवता” इति न्यस्य

[[23]]

‘आसने विनियोगः’ इत्युक्त्वा, ‘पृथ्वि…आसनम्’ इति भूमिं प्रार्थ्य तत्रासीनः,

अस्मद्देशिकमस्मदीयपरमाचार्यान् अशेषान् त्रयी-
चूडादेशिकतद्गुरुन् यतिवरं पूर्णं मुनिं यामुनम् ।
रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेषिणं
सेनेशं श्रियमिन्दिरासहचरं नारायणं संश्रये ॥

इत्यनुसन्धाय द्वयमुच्चार्य,

अखिलहेयप्रत्यनीककल्याणैकतान ! स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञानानन्दैकस्वरूप ! लावण्ययौवनाद्यनन्तगुणगणनिधिदिव्यरूप ! अनन्तकल्याणगुणगणोपेत ! अनन्तदिव्यभूषणभूषित ! अनन्तदिव्यायुधोपेत ! उभयविभूतिनाथ ! श्रीमन्नारायण ! अनन्यशरणः त्वत्पादारविन्दयुगलं शरणमहं प्रपद्ये

इत्यनुसन्धाय सर्वदिव्यभूषणायुधपरिमण्डितं कमलालंकृतवक्षस्थलं भगवद्विग्रहमापादचूडं यथाशक्ति ध्यायेत् । ततस्तज्जनितातिमानप्रीतिप्रेरितः अष्टाविंशतिकृत्वो मनसा आवर्तिनेन मूलमन्त्रेण प्राणानायम्याञ्जलिं बद्ध्वा,

ओं कृतञ्च करिष्यामि भगवन् नित्येन भगवत्प्रीत्यर्थेन महाविभूतिचातुरात्म्यभगवद्वासुदेवपादारविन्दार्चनेन इज्याराधनेन भगवत्कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि

इति सङ्कल्प्य,

ओं भगवतो बलेन भगवतो वीर्येण भगवतस्तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि भगवतो वासुदेवस्य

इति बलमन्त्रमनुसन्धाय,

भगवानेव स्वकीयेन मया स्वकीयैरुपकरणैरौपचारिकादिकान् भोगान् स्वप्रीतये प्रतिपादयति

इत्यनुसन्दधीत ॥

“ओं लां नमः पराय सर्वात्मने नमः” इति पादयोः, “ओं वां नमः पराय निवृत्त्यात्मने नमः” इति गुह्ये, “ओं रां नमः पराय विश्वात्मने नमः” इति हृदये, “ओं यां नमः पराय पुरुषात्मने नमः” इति नासाग्रे,

[[24]]

“ओं षौम् नमः पराय परमेष्ठ्यात्मने नमः” इति मूर्ध्नि च न्यस्य, द्वादशकृत्वष्षड्वारं वाऽभ्यस्तेन मूलमन्त्रेण सकृत्प्राणानायम्य मूलमन्त्रमुच्चरन् नाभिं स्पृष्ट्वा, मन्त्रोद्भूतवायुना तत्त्वक्रमेण शरीरं शोषितं ध्यात्वा, पुनरपि तथैव प्राणानायम्य मन्त्रमुच्चरन् हृदयं स्पृष्ट्वा मन्त्रोद्भृतचक्राग्निज्वालया शरीरं दग्धं ध्यात्वा स्वात्मानं भगवद्दक्षिणपादाङ्गुष्ठे प्रविष्टं मूलेन ध्वात्वा, पूर्ववत् प्राणानायम्य भगवत्कैङ्कर्ययोग्यं ध्यात्वा, तस्माद्विनिर्गत्य तद्वामपादाङ्गुष्ठस्याधस्तात् स्थितं मूलेन ध्यात्वा तन्निस्सृतामृतरसेनाभिषिक्तं ध्यात्वा, भगवत्प्रसादेन दिव्यशरीरलाभमनुसन्धाय, तस्मिन् शरीरे ‘ओं षौं नमः पराय परमेष्ठ्यात्मने नमः’ इति मूर्ध्नि, ‘ओं यां नमः पराय पुरुषात्मने नमः’ इति नासाग्रे, ‘ओं रां नमः पराय विश्वात्मने नमः’ इलि हृदये, ‘औं वां नमः पराय निवृत्त्यात्मने नमः’ इति गुह्ये, “ओं लां नमः पराय सर्वात्मने नमः’ इति पादयोश्च न्यस्य, पूर्ववत् प्राणानायम्य भगवद्वामपादाङ्गुष्ठविनिस्सृतामृतधारया शरीरमभिषिक्तं कृतलाञ्छनं धृतोर्ध्वपुण्ड्रञ्च ध्यायेत् ॥ अथ ‘अष्टाक्षरमन्त्रस्य नारायण ऋषिः’ इत्यादिपूर्वोक्तरीत्या ऋष्यादिन्यासं कृत्वा ‘आराधने विनियोगः’ इत्युक्त्वा पूर्ववत् पदन्यासं कृत्वा, हृदयकमले अत्यद्भुतदिव्यमङ्गलविग्रहविशिष्टं भगवन्तं ध्यात्वा, अर्घ्य-पाद्य-आचमनीय-गन्ध-पुष्प-धूप-दीप-नैवेद्यादिभिर्मानसैर्भोगैः यथाशक्त्यभ्यर्च्य, उत्थायाञ्जलिं बद्ध्वा,

भगवन् पुण्डरीकाक्ष हृद्यागं तु मया कृतम् ।
आत्मसात्कुरु देवेश बाह्यैस्त्वां सम्यगर्चये ॥

[[25]]

विभो सकललोकेश प्रणतार्तिहराच्युत । त्वां भक्त्या पूजयाम्यद्य भोगैरर्घ्यादिभिः क्रमात् ॥

इति विज्ञाप्य यागवेदिकायां स्वस्य वामभागे तोयपूर्णं पात्रं निधाय तस्मिन् एलाचूर्ण-कुङ्कुमकुसुम-कर्पूरादिपरिमलद्रव्यं तुलसीदलं पुष्पञ्च निक्षिप्य, मूलमन्त्रेण वामकरानुसृतेन दक्षिणकरेण सप्तकृत्वोऽभिमन्त्र्य, मूलमन्त्रेण तथैव ‘शोषयामि दाहयामि प्लावयामि’ इति शोषणादिकं कृत्वा ‘दिव्यामृतमयं तोयमुत्पादयामि’ इति मूलमन्त्रेणोत्पाद्यास्त्रमन्त्रेण संरक्ष्य सुरभिमुद्रां प्रदर्श्य, पात्रं तत्रैव स्थापयेत् । अन्यानि भगवदाराधनार्थानि गन्धपुष्पादिद्रव्याणि तत्रैव स्ववामभागे निधाय, मूलमन्त्रेण पूर्ववत् शोषणादिकं कृत्वा, अस्त्रमन्त्रेण संरक्ष्य सुरभिमुद्रां प्रदर्य तत्रैव स्थापयेत् ॥ ततः पुरतो निहिते पानपीठे आग्नेयादिषु विदिक्षु क्रमेणार्घ्य-पाद्य-आचमनीय-स्नानीयपात्राणि मध्ये सर्वार्थतोयपात्रञ्च निधाय, मूलमन्त्रेण तोयान्तरेण तानि प्रक्षाल्य शोषणादिकं कृत्वा वामभागस्थापितेन अभिमन्त्रितेन तोयेन तानि मूलमन्त्रेण पूरयित्वा, तेषु तुलसीदलानि निक्षिप्य, वामपाण्यनुसृतेन दक्षिणपाणिना अर्घ्यादिपात्राणि स्पृशन् मूलमन्त्रोच्चारणपूर्वकं

ओं नमो भगवते अर्घ्यं परिकल्पयामि, ओं नमो भगवते पाद्यं परिकल्पयामि

इत्यादिरीत्या अर्घ्यादीनि परिकल्पयेत् ।

[[26]]

ततः अर्घ्यपात्रात् तोयमुद्धरिण्या आदाय, यागवेदिकां सर्वाणि यागद्रव्याणि आत्मानञ्च पृथक्पृथक्सम्प्रोक्ष्य, सालग्रामशिलायाम् अनन्तदिव्यभूषणायुधोपेतां दिव्यरत्नमयासनगताम् इन्दिरालङ्कृतवक्षस्थलां स्वाभिमतां काञ्चित् भगवन्मूर्तिं पञ्चोपनिषन्मन्त्रैः ध्यात्वा ‘भगवन्! समाराधनाभिमुखो भव’ इति प्रार्थ्य मूलमन्त्रेण दण्डाङ्गप्रणामान् कृत्वा,

ब्रह्माद्याः सकला देवा यं न स्मर्तुमपीश्वराः ।
स एष भगवानद्य मम प्रत्यक्षताङ्गतः॥

इति हृष्टो भूत्वा,

स्वागतं भगवन्नद्य मां तारयितुमागतः ।
धन्योऽस्म्यनुगृहीतोऽस्मि कृतार्थोऽस्मि कृपानिधे ॥

इति स्वागतं निवेद्य,

सान्निध्यं कुरु देवेश सर्वदा सर्वकामद ।
द्रव्यमन्त्रक्रियाभक्तिश्रद्धाहानिं सह प्रभो ॥

इति सान्निध्यम् अपराधसहनञ्च प्रार्थ्य, पूर्वोक्तरूपं शुभाश्रयं पुनरपि ध्यात्वा प्रणम्य मूलमन्त्रमुच्चरन्, ‘भगवन् अयमात्मा तवैव’ इत्यनुसन्दधीत । ततः,

इज्याकालस्तृतीयोऽयमह्नोंशस्समुपागतः ।
सम्भृताश्चैव सम्भाराः कल्पितान्यासनानि च ॥
अवलोकनदानेन तत्सर्वं सफलं कुरु ।
मदनुग्रहाय कृपया त्वमत्रागन्तुमर्हसि ॥