१३ इज्या

अथेज्या ॥ (३)

कृतञ्च करिष्यामि इज्यया भगवत्कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि

इति इज्यां संकल्प्य, “भगवानेव इज्याख्यं कर्म स्वस्मै स्वप्रीतये खयमेव कारयति” इति सात्त्विकत्यागं कृत्वा, मूलमन्त्रप्राणायामजपरूपं मान्त्रस्नानं भगवद्विग्रहचिन्तनसहिततत्पादाङ्गुष्ठजदिव्योदकसिक्तस्वाङ्गकत्वचिन्तनरूपं मानसस्नानञ्च कृत्वा,

[[21]]

सुप्रक्षाळितपाणिपादो द्विराचम्य, “श्रीभगवदाज्ञया भगवत्प्रीत्यर्थे माध्याह्निकसन्ध्यामुपासिष्ये” इति सङ्कल्प्य, सात्त्विकत्यागं कृत्वा न्यासपूर्वकमापो हिष्ठेत्यादिभिः पूर्ववत् प्रोक्ष्य, ‘आपः पुनन्तु इत्यनुवाकस्य - आप ऋषिः, अनुष्टुप्छन्दः, ब्रह्मणस्पतिर्देवता’ इति न्यस्य, ‘अपां प्राशने विनियोगः’ इत्युक्त्वा,

ओम् आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।
पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातु माम् ।
यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्वे पुनन्तु मामापोऽसताञ्च प्रतिग्रहँ स्वाहा ॥

इत्यनुवाकेन चुळकेन अपः प्राश्याचम्य, न्यासपूर्वकं ‘दधिक्राव्ण्ण’ इत्यादिभिः पूर्ववत् प्रोक्ष्य, प्राणान् आयम्य ‘माध्याह्निकसन्ध्यायामर्घ्यप्रदानं करिष्ये’ इति संकल्प्य न्यासपूर्वकम् एकमर्घ्यं दत्त्वा अष्टममुहूर्तातिक्रमे प्राणान् आयम्य, “माध्याह्निकसन्ध्याकालातिक्रमप्रायश्चित्तं द्वितीयायर्घ्यप्रदानं करिष्ये” इति सङ्कल्प्य, प्रायश्चित्तार्घ्यमन्त्रेण दत्त्वा शेषं पूर्ववत् कुर्यात् । सङ्कल्पावसरेषु माध्याह्निकसन्ध्येति वदेत् । प्रातर्ध्यायामीत्यस्य स्थाने,

मध्यन्दिने तु सावित्रीं रविमण्डलमध्यगाम् ।
यजुर्वेदं व्याहरन्तीं श्वेतां शूलकरां शिवाम् ॥ युवतीं रुद्रदेवत्यां ध्यायामि वृषवाहनाम् ।

इति ध्यायेत् । जपानन्तरं गायत्रीमुद्वास्य उपस्थानावसरे

आसत्येनेति ऋक्षट्कस्य-हिरण्यस्तूप ऋषिः, आद्ययोः त्रिष्टुप्चतसृणां गायत्रीजगत्युष्णिक्त्रिष्टुभश्छन्दांसि, सविता देवता

इति न्यस्य, “माध्याह्निकसन्ध्योपस्थाने विनियोगः” इत्युक्त्वा अञ्जलिं बद्ध्वा,

[[22]]

आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च ।
हिरण्ययेन सविता रथेनादेवो याति भुवना विपश्यन् ।
उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् ।
देवं देवता सूर्यमगन्म ज्योतिरुत्तमम् ।
उदुत्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ।
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राद्यावापृथिवी अन्तरिक्षंँसूर्य आत्मा जगतस्तस्थुषश्च ।
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ॥

इत्युक्त्वा, व्योममुद्राद्वारा दक्षिणेन नेत्रेण सूर्यमवलोकयन्,

पश्येम शरदश्शतम्, जीवेम शरदश्शतम्, नन्दाम शरदश्शतम्, मोदाम शरदश्शतम्, भवाम शरदश्शतँशृणवाम शरदश्शतम्, प्रब्रवाम शरदश्शतम्, अजीतास्स्याम शरदश्शतम्, ज्योक्च सूर्यं दृशे

इत्युक्त्वा अञ्जलिं बद्ध्वा,

य उदगान्महतोऽर्णवाद्विभ्राजमानस्सरिरस्य मध्यात्समा वृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ॥

इत्युच्चार्य शेषं पूर्ववत् कृत्वा यथाशक्त्यष्टाक्षरं जपित्वा, “भगवानेव माध्याह्निकसन्ध्योपासनमष्टाक्षरजपञ्च कारितवान्” इति सात्त्विकत्यागं कुर्यात् ॥