१२ उपादानम्

अथोपादानम् ॥ (२) अथ “कृतञ्च करिष्यामि, उपादानेन भगवन्तं वासुदेवमर्चयिष्यामि” इति सङ्कल्प्य, ‘भगवानेव उपादानाख्यं कर्म स्वस्मै स्वप्रीतये स्वयमेव कारयति’ इत्यनुसन्धाय,

[[20]]

तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये ।
केशवार्थं लुनामि त्वां वरदा भव शोभने ॥
मोक्षैकहेतो धरणिप्रसूते विष्णोस्समस्तस्य गुरोः प्रिये ते ।
आराधनार्थं पुरुषोत्तमस्य लुनामि पत्रं तुलसि क्षमस्व ॥
प्रसीद मम देवेशि प्रसीद हरिवल्लभे ।
क्षीरोदमथनोद्भूते तुलसि त्वं प्रसीद मे ॥

इति मन्त्रैः तुलसीं गृह्णीयात् । भानुभौमशुक्रवासरेषु, द्वादश्यमावास्या पौर्णमासीषु, सर्वविधश्राद्धदिनेषु च तुलसीं न गृह्णीयात् । तद्भिन्नदिनेषूपादानकाल एव गृह्णीयात् । अस्त्रमन्त्रेण समित्पुष्पादिकं गृह्णीयात् । प्रथमं ‘हुँ’ इति स्पृष्ट्वा,

विरिञ्चन सहोत्पन्न परमेष्ठिनिसर्गज ।
नुद सर्वाणि पापानि दर्भ स्वस्तिकरो मम ॥

इति मन्त्रेण दर्भान् गृह्णीयात् । अवकाशे सति मन्त्रजपादिकं कुर्यात् । ततः, ‘भगवानेव उपादानाख्यं कर्म कारितवान्’ इत्यनुसन्धाय, ‘उपादानेन भगवान् प्रीयतां वासुदेवः’ इत्युपादानं समर्पयेत् ॥