११ अभिगमनम्

अथ अभिगमनम् ॥

ततो गृहमागत्य पादौ हस्तौ च प्रक्षाल्याऽऽचम्य, यथासूत्रमौपासनं कृत्वा स्वार्चागृहं गत्वा गुरुपरम्परानुसन्धानपूर्वकं प्रणम्य, कूर्मादीन् दिव्यलोकमिति श्लोकमनुसन्धाय चण्डप्रचण्डद्वारपालकानुज्ञां लब्ध्वा,

कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं देवमाह्निकम् ॥
वीर सौम्य विबुध्यस्व कौसल्यानन्दवर्धन ।
जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ॥
यामिन्यपैति यदुनाथ विमुञ्च निद्रा- मुन्मेषमृच्छति तवोन्मिषितेन विश्वम् ।
जातस्स्वयं खलु जगद्धितमेव कर्तुं
धर्मप्रवर्तनधिया धरणीतलेऽस्मिन् ॥
सुखाय सुप्रातमिदं तवास्तु जगत्पते जागृहि नन्दसूनो ।
अम्भोजमन्तश्शयमञ्जुतारलोलम्बमुन्मीलतु लोचनं ते ॥

इति भगवन्तं प्रबोध्य मनसा पुष्पादिभिरभ्यर्च्य प्रणम्य द्वयमुच्चार्य,

सायन्तनाभियानान्तकैङ्कर्यस्य विरोधिनम् ।
पापराशिं दयासिन्धो विनतस्यास्य नाशय ॥

इति प्रार्थ्य पुनः प्रणम्य, “भगवानेवाभिगमनाख्यं कर्म कारितवान्" इति सात्त्विकत्यागं कृत्वा, ‘अभिगमनेनानेन भगवान् प्रीयतां वासुदेवः’ इत्यनुसन्दधीत ॥