अथ ब्रह्मयज्ञक्रमः ॥
ततो द्विराचम्य प्राणानायम्य, “श्रीभगवदाज्ञया भगवत्प्रीत्यर्थे ब्रह्मयज्ञेन यक्ष्ये” इति सङ्कल्प्य, “भगवानेव ब्रह्मयज्ञाख्यं कर्म स्वस्मै स्वप्रीतये स्वयमेव कारयति” इत्यनुसन्धाय “विद्युदसि विद्य मे पाप्मानमृतात् सत्यमुपैमि" इति दक्षिणहस्तेन तोयेन वामकरतलं संमृज्य तूष्णीं त्रिरपः प्राश्य द्विः परिमृज्य सकृदुपस्पृश्य शिरस्सर्वाभिरङ्गुलीभिः, चक्षुषी अनामिकया, नासिके तर्जन्या, श्रोत्रे कनिष्ठिकया, हृदयं तलेन वोपस्पृश्य परिशुद्धप्रदेशे आसीनः उत्तरीयमुपवीतसमानाकारं धृत्वा त्रिस्सकृद्वा प्राणान् आयम्य, वामगुल्फोपरि दक्षिणोरुं वामोरूपरि दक्षिणगुल्फञ्च कृत्वा दक्षिणजानुनि पाणी दक्षिणोत्तरौ कृत्वा,
ओं भूः तत्सवितुर्वरेण्यं, औं भुवः भर्गो देवस्य धीमहि, ओं सुवः धियो यो नः प्रचोदयात्, ओं भूः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि, ओं भुवः धियो यो नः प्रचोदयात्, ओं सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्, ओं भूर्भुवस्सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥
इत्युक्त्वा, वेदानामादिभागान् उक्त्वा पुरुषसूक्तम्, तत्राशक्तौ दशकृत्वो गायत्रीं जपित्वा उत्थाय, ‘ओं भूर्भुवस्सुवस्सत्यं तपश्श्रद्धायां जुहोमि’ इत्युक्त्वा,
ओं नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः ।
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ॥
इति त्रिरुक्त्वा, ‘वृष्टिरसि वृश्च मे पाप्मानमृतात् सत्यमुपागाम्’ इति पूर्ववत् संमृज्याचम्य, “भगवानेव ब्रह्मयज्ञाख्यं कर्म कारितवान्” इति सात्विकत्यागं कुर्यात् ॥
[[19]]