०९ देवर्षिकाण्डर्षिपितृतर्पणक्रमः

अथ देवर्षिकाण्डर्षिपितृतर्पणक्रमः ।

आचम्य प्राणानायम्य, “श्रीभगवदाज्ञया भगवत्प्रीत्यर्थे देवर्षिकाण्डर्षिपितृतर्पणं करिष्ये” इति सङ्कल्प्य,

भगवानेव देवर्षिकाण्डर्षिपितृतर्पणाख्यं कर्म स्वस्मै स्वप्रीतये स्वयमेव कारयति

इत्यनुसन्धाय, पूर्ववत् देवर्षितर्पण(पु.8) कृत्वा,

ओं प्रजापतिं काण्डऋषिं तर्पयामि, ओं सोमं काण्डऋषिं तर्पयामि, ओं अग्निं काण्डऋषिं तर्पयामि, औं विश्वान् देवान् काण्डऋषीँस्तर्पयामि, ओं सांहितीर्देवता उपनिषदस्तर्पयामि, ओं याज्ञिकीर्देवता उपनिषदस्तर्पयामि, ओं वारुणीर्देवता उपनिषदस्तर्पयामि, ओं ब्रह्माणँस्वयम्भुवं तर्पयामि, ओं सदसस्पतिं तर्पयामि ॥

इत्युदङ्मुख एव तर्पयित्वा, पूर्ववत् पितृतर्पणं कुर्यात् ॥ उपवीती आचम्य, भगवानेव देवर्षिकाण्डर्षिपितृतर्पणाख्यं कर्म कारितवान् इत्यनुसन्धाय, निवीती स्नानवस्त्रं चतुर्गुणीकृत्य शोधिते तीरे,

ये के चास्मत्कुले जाता अपुत्रा गोत्रजा मृताः ।
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥

इति मन्त्रेणापसव्यं निष्पीड्य वामप्रकोष्ठे विन्यस्य उपवीती आचम्य, ‘हे गङ्गे ममात्मनि समागच्छ’ इति गङ्गामुदकाञ्जलिना संहरेत् ॥

[[18]]