०८ आधारशक्तितर्पणक्रमः

अथ आधारशक्तितर्पणक्रमः ।

उत्तरीयं कटौ बद्ध्वा द्विराचम्य प्राणान् आयम्य, “श्रीभगवदाज्ञया भगवत्प्रीत्यर्थम् आधारशक्त्यादितर्पणं करिष्ये” इति सङ्कल्य,

भगवानेवाऽऽधारशक्त्यादितर्पणं स्वस्मै स्वप्रीतये स्वयमेव कारयति

इत्यनुसन्धाय, गुर्वाह्निकोक्तप्रकारेणैव कुर्यात् । कदाचित् तथाकरणाशक्तौ तु -

ओम् आधारशक्त्यै नमः, ओं प्रकृत्यै नमः, ओम् अखिलजगदाधाराय कूर्मरूपिणे नारायणाय नमः, ओम् अनन्ताय नागराजाय नमः, ओं भूं भूम्यै नमः, ओं श्रीवैकुण्ठेभ्यो दिव्यलोकजनपदनगरविमानेभ्यो नमः, ओम् आनन्दमयाय दिव्यमण्टपरत्नाय नमः, ओम् आस्तरणरूपाय अनन्ताय नागराजाय नमः, ओं धर्मादिभ्यः पीठपादेभ्यो नमः, ओम् अधर्मादिभ्यः पीठगात्रेभ्यो नमः, ओम् एभिः परिच्छिन्नतनवे पीठभृते नागराजाय नमः, ओम् अष्टदलपद्माय नमः, ओं विमलादिभ्यश्चामरहस्ताभ्यो नमः, ओं जगत्प्रकृतये दिव्ययोगपीठाय नमः, ओं दिव्ययोगपर्यङ्काय नमः, ओं सहस्रफणामणिमण्डिताय अनन्ताय नागराजाय नमः, ओं पादपीठात्मने अनन्ताय नागराजाय नमः, ओं सर्वपरिवाराणामनन्तगरुडविष्वक्सेनानाञ्च पद्मासनेभ्यो नमः, ओम् अस्मद्गुरुभ्यो नमः, ओं नमो नारायणाय, ओं लक्ष्म्यादिभगवद्दिव्यमहिषीभ्यो नमः, ओं किरीटादिभ्यो दिव्यभूषणेभ्यो नमः, ओं सुदर्शनादिभ्यो दिव्यायुधेभ्यो नमः, ओं सर्वाभ्यः पादारविन्दसंवाहिनीभ्यो नमः, ओम् अनन्ताय नागराजाय नमः, ओं भगवत्परिजनेभ्यो नमः, ओं भगवत्पादुकाभ्यां नमः, ओं भगवत्परिच्छदेभ्यो नमः,

[[17]]

ओं वैनतेयाय नमः, ओं भगवते विष्वक्सेनाय नमः, ओं गजाननादिभ्यो विष्वक्सेनपरिजनेभ्यो नमः, ओं चण्डादिभ्यो द्वारपालेभ्यो नमः, ओं कुमुदादिभ्यो गणाधिपतिभ्यः सवाहनपरिवारप्रहरणेभ्यो नमः, ओं सर्वेभ्यो भगवत्पारिषदेभ्यो नमः

इत्यञ्जलिना सन्तर्प्य आचम्य, “भगवानेवाऽऽधारशक्त्यादितर्पणाख्यं कर्म कारितवान् इत्यनुसन्दध्यात् ॥