०७ अष्टाक्षरजपविधिः

अथ अष्टाक्षरजपविधिः ॥

ततः आसीनः उत्तरीयं सूत्राकारं धृत्वा पञ्चविंशतिकृत्वो द्वादशकृत्वो वा मनसाऽऽवर्तितेन मूलमन्त्रेण त्रिः सकृद्वा प्राणानायम्य ‘श्रीभगवदाज्ञया भगवत्प्रीत्यर्थे प्रातस्सन्ध्यायामष्टाक्षरजपं करिष्ये’ इति सङ्कल्प्य ‘भगवानेवाष्टाक्षरजपं स्वस्मै स्वप्रीतये स्वयमेव कारयति’ इत्यनुसन्धाय, ‘अष्टाक्षरमन्त्रस्य - नारायण ऋषिः देवीगायत्री छन्दः, नारायणो देवता’ इति मुखादौ ऋषिछन्दोदेवता न्यस्य अञ्जलिं बद्ध्वा ‘अं बीजम्, आय शक्तिः, मं कीलकम्, ह्री कवचम्, ऐम् अस्त्रं, शुक्लो वर्णः, उदात्तस्स्वरः, बुद्धिस्तत्त्वम्, वैकुण्ठ-क्षेत्रम्, जीवपरयोरस्वस्वामिभावस्सम्बन्धः, नारायणप्रीत्यर्थे जपे विनियोगः’, इत्युक्त्वा, मूलमन्त्रेण कूर्परमारभ्याङ्गुल्यग्रपर्यन्तं हस्तौ परस्परं त्रिः परामृश्य हस्तयोर्मन्त्रस्य व्यापकन्यासं कृत्वा,

ओम् ओम् अङ्गुष्ठाभ्यां नमः, ओं नमः तर्जनीभ्यां नमः, ओं नारायणाय मध्यमाभ्यां नमः, ओम् ओम् अनामिकाभ्यां नमः, ओं नमः कनिष्ठिकाभ्यां नमः, ओं नारायणाय करतलकरपृष्ठाभ्यां नमः, ओम् ओं ज्ञानाय हृदयाय नमः,

[[15]]

ओं नमः ऐश्वर्याय शिरसे स्वाहा, ओं नारायणाय शक्त्यै शिखायै वषट्, ओम् ओं बलाय कवचाय हुम्, ओं नमः तेजसे नेत्राभ्यां वौषट्, ओं नारायणाय वीर्यायास्त्राय फट्

इति गायत्रीप्रकरणोक्तरीत्या करन्यासाङ्गन्यासौ कृत्वा,

अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान्स्त्रयी-
चूडादेशिकतद्गुरून् यतिवरं पूर्णे मुनिं यामुनम् ।
रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेषिणं
सेनेशं श्रियमिन्दिरासहचरं नारायणं संश्रये ॥

इत्यनुसन्धाय, स्वस्य मन्त्रोपदेष्टारं तद्गुरूंश्च तत्तच्छ्लोकेनानुसन्धाय,

अष्टाक्षरं तस्य ऋषिं तच्छन्दस्तस्य दैवतम् ।
तच्छक्तिबीजप्रणवान् तस्य शिरसा प्रणमाम्यहम् ॥

इति मन्त्रादीन् प्रणम्य,

सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा
जानुन्याधाय सव्येतरमितरभुजं नागभोगे निधाय ।
पश्चाद्बाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे
देवीभूपादिजुष्टो जनयतु जगतां (मम तत्) शर्म वैकुण्ठनाथः ॥

इति वैकुण्ठनाथं ध्यात्वा,

ज्ञानानन्दस्वरूपोऽहं विष्णोश्शेषो न कस्यचित् ।
प्रपत्तिः क्रियते नारायणकैङ्कर्यमस्तु मे ॥

इत्यष्टाक्षरार्थं चिन्तयन् यथाशक्ति जपेत् । जपमध्ये सम्भाषणे श्रीकृष्णं ध्यात्वा कीर्तयेत् । तत आचम्य,

भगवानेव प्रातस्सन्थ्योपासनाख्यमष्टाक्षरजपाख्यञ्च कर्म कारितवान्

इत्यनुसन्दध्यात् ॥