अथ सन्ध्याजपविधिः ॥
ततो जपार्हस्थानं संप्रोक्ष्य,
आसनमन्त्रस्य पृथिव्या मेरुपृष्ठ ऋषिः, सुतलं छन्दः, श्रीकूर्मो देवता
इति न्यस्य ‘आसने विनियोगः’ इत्युक्त्वा,
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वञ्च धारय मां देवि पवित्रं कुरु चासनम् ॥
इति भूमिं प्रार्थ्य तत्र स्थित्वा उत्तरीयं यज्ञोपवीताकारं धृत्वा
प्रणवस्य ऋषिर्ब्रह्मा, देवीगायत्री छन्दः, परमात्मा देवता । भूरादिव्याहृतिसप्तकस्य अत्रि-भृगु-कुत्स-वसिष्ठ-गौतम-काश्यपाङ्गिरस ऋषयः, गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुप्जगत्यः छन्दाँसि, अग्निवाय्वर्कवागीशवरुणेन्द्रविश्वदेवा देवताः । सावित्र्याः - ऋषिर्विश्वामित्रः देवी गायत्री छन्दः,सविता देवता । गायत्रीशिरसः ब्रह्मा ऋषिः,अनुष्टुप्छन्दः, परमात्मा देवता
इति न्यस्य ‘सर्वेषां प्राणायामे विनियोगः’ इत्युक्त्वा, ‘ओं भूः’ इति पादयोः, ‘ओं भुवः’ इति जङ्घयोः, ‘ओं सुवः’ इति जान्वोः, ‘ओं महः’ इत्युदरे, ‘ओं जनः’ इति हृदये, ‘ओं तपः’ इति मुखे, ओँ सत्यम्’ इति मस्तके चानङ्गुष्ठाभिरङ्गुळीभिर्न्यस्य श्वेत-श्याम-पीत-पिशङ्ग-रोहित-नील-कनकवर्णाः अभयाक्षस्रगप्पात्रवरहस्ताः सपवित्रचतुर्हस्ताः स्रक्चन्दनाद्यलङ्कृताः सर्वाभरणभूषिताः सोपवीताः सजटाश्च सप्त व्याहृतिदेवताः ध्यात्वा, ‘ओं तत् सवितुः ज्ञानाय हृदयाय नमः’ इत्यङ्गुष्ठयुक्ततर्जन्या हृदये, “यों वरेण्यं ऐश्वर्याय शिरसे स्वाहा" इत्यनङ्गुष्ठाभिरङगुळीभिर्मस्तके, “ओं भर्गो देवस्य शक्त्यै शिखायै वषट्” इति मुष्टिना अङ्गुष्ठनाळेन शिखामध्ये च न्यस्य, “ओं धीमहि बलाय कवचाय हुम्” इति कण्ठादिकट्यन्तां तनुं पाणिभ्यां स्पृष्ट्वा, “ओं धियो यो नः तेजसे नेत्राभ्यां वौषट्” इति तर्जनीमध्यमाभ्यां युगपन्नेत्रद्वये न्यस्य,
[[11]]
“ओं प्रचोदयात् वीर्यायास्त्राय फट्” इति सास्त्रछोटेन साङ्गुष्ठतर्जन्यग्रेण पूर्वाद्या दिशः वह्न्याद्या विदिशश्च बद्ध्वा,
मुक्ताविद्रुमहेमनीलधवळच्छायैर्मुखैस्त्रीक्षणैः
युक्तामिन्दुकलानिबद्धमकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं
शङ्खचक्रमथारविन्दयुगळं हस्तैर्वहन्तीं भजे ॥
इति सावित्रीदेवतां ध्यात्वा, “ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवसुवरोम्” इति शिरोमन्त्रेण स्वपार्श्वे शिरःप्रभृतिपादान्तं कराभ्यां स्पृष्ट्वा,
अर्कमण्डलमध्यस्थं सूर्यकोटिसमप्रभम् । ब्रह्मादिसेव्यपादाब्जं नौमि ब्रह्म रमासखम् ॥
इति शिरोमन्त्रदेवतां ध्यात्वा, त्रिः प्राणानायम्य,
श्रीभगवदाज्ञया भगवत्प्रीत्यर्थम्अष्टोत्तरशतकृत्वः (अशक्तौ अष्टाविंशतिकृत्वः दशकृत्वो वा) गायत्रीजपं करिष्ये
इति सङ्कल्प्य,
आयातु इत्यनुवाकस्य - वामदेव ऋषिः, अनुष्टुप्छन्दः, गायत्री देवता
इति न्यस्य ‘गायत्र्यावाहने विनियोगः’ इत्युक्त्वा,
आयातु वरदा देव्यक्षरं ब्रह्मसम्मितम् ।
गायत्री छन्दसां मातेदं ब्रह्म जुषस्व नः ॥
ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुस्सर्वमसि सर्वायुरभिभूरों गायत्रीमावाहयामि
इति गायत्रीं सूर्यमण्डले आवाह्य,
प्रातर्ध्यायामि गायत्रीं रविमण्डलमध्यगाम् ।
ऋग्वेदमुच्चारयन्तीं रक्तवर्णां कुमारिकाम् ॥
अक्षमालाकरां ब्रह्म देवत्यां हंसवाहनाम् ॥
इति ध्यात्वा,
[[12]]
प्रणवस्य-ऋषिर्ब्रह्मा, देवी गायत्री छन्दः, परमात्मा देवता । भूरादिव्याहृतित्रयस्य अत्रिभृगुकुत्सा ऋषयः, गायत्र्युष्णिगनुष्टुभश्छन्दांसि, अग्निवाय्वर्का देवताः । सावित्र्याः ऋषिर्विश्वामित्रः, देवी गायत्री छन्दः, सविता देवता
इति न्यस्य ‘प्रातस्सन्ध्याजपे विनियोगः’ इत्युक्त्वा, अस्त्रमन्त्रेण करतलकरपृष्ठशुद्धिं संपाद्य गायत्र्या करव्यापकन्यासं कृत्वा करतलयोः प्रणवं न्यस्य ‘ओं भूः’ इति तर्जनीभ्यामङ्गुष्ठयोः, ‘ओं भुवः’ इत्यगुष्ठाभ्यां तर्जन्योः, ‘ओँ सुवः’ इति ताभ्यां मध्यमयोः, ‘ओं तत्सवितुर्वरेण्यम्’ इति ताभ्यामनामिकयोः, ‘ओं भर्गो देवस्य धीमहि’ इति कनिष्ठिकयोश्च न्यस्य ‘ओं धियो यो नः प्रचोदयात्’ इति करद्वयेऽपि तलपृष्ठपरामर्शं कृत्वा, गायत्र्या पाणिभ्यां शिरःप्रभृतिपादान्तं पार्श्वस्पर्शरूपं व्यापकन्यासं कृत्वा, ‘ओं भूः ज्ञानाय हृदयाय नमः’ इति अङ्गुष्ठयुक्ततर्जन्या हृदये, ‘ओं भुवः ऐश्वर्याय शिरसे स्वाहा’ इत्यनङ्गुष्ठाभिरङ्गुलीभिर्मस्तके ‘ओं सुवः शक्त्यै शिखायै वषट्’ इत्यङ्गुष्ठनालेन मुष्टिना शिखामध्ये च न्यस्य ‘ओं तत्सवितुर्वरेण्यं बलाय कवचाय हुम्’ इति कण्ठादिकट्यन्तां तनुं पाणिभ्यां स्पृष्टा, ‘ओं भर्गो देवस्य धीमहि तेजसे नेत्राभ्यां वौषट्’ इति तर्जनीमध्यमाभ्यां युगपन्नेत्रयोर्न्यस्य, ‘ओं धियो यो नः प्रचोदयात् वीर्यायास्त्राय फट्’ इति सास्त्रच्छोटेन साङ्गुष्ठतर्जन्यग्रेण पूर्वाद्या दिशो वह्न्याद्या विदिशश्च बद्ध्वा,
यो देवस्सविताऽस्माकं धियो धर्मादिगोचराः ।
प्रेरयेत् तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ॥
इति गायत्र्यर्थे विचिन्त्य,
[[13]]
आदित्यमण्डले देवीभूषणायुधादिसहित भगवन्तं ध्यात्वा कनिष्ठिकामूलमारभ्य प्रादक्षिण्येन गणयन् यथासङ्करूपं जपं कृत्वा त्रिः सकृद्वा प्राणानायम्य, ‘श्रीभगवदाज्ञया भगवत्रीत्यर्थं प्रातस्सन्ध्योपस्थानं करिष्ये’ इति संकल्प्य ‘उत्तम इत्यनुवाकस्य वामदेव ऋषिः, अनुष्टुप्छन्दः, गायत्री देवता’ इति न्यस्य ‘गायत्र्युद्वासने विनियोगः’ इत्युक्त्वा अञ्जलिं बद्ध्वा, उत्तरीयं कटौ धृत्वा,
उत्तमे शिखरे देवि भूम्यां पर्वतमूर्धनि ।
ब्राह्मणेभ्यो ह्यनुज्ञानं गच्छ देवि यथासुखम् ॥
इति गायत्रीमुद्वास्य
मित्रस्येति ऋक्त्रयस्य - विश्वामित्र ऋषिः, मीरुट्गायत्रीत्रिष्टुभच्छन्दाँसि, मित्रो देवता
इति न्यस्य ‘प्रातस्सन्ध्योपस्थाने विनियोगः’ इत्युक्त्वा अञ्जलिं बध्वा,
ओं मित्रस्य चर्षणी धृतश्श्रवो देवस्य सानसिम् ।
सत्यं चित्रश्रवस्तमम् ।
मित्रो जनान् यातयति प्रजानन् मित्रो दाधार पृथिवीमुतद्याम् ।
मित्रः कृष्टीरनिमिषाभिचष्टे सत्याय हव्यं घृतवद्विधेम । प्रसमित्रमर्त्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन ।
मँहन्यते न जीयते त्वोतो नैनमँहो अश्नोत्यन्तितो न दुरात्
इत्यादित्यमण्डलान्तस्स्थं भगवन्तमुपस्थाय, सन्ध्यादिदेवताः, सप्रदक्षिणम् ‘ओं सन्ध्यायै नमः, ओं गायत्र्यै नमः, ओं सावित्र्यै नमः, (ओं सावित्र्यै नमः, ओं गायव्यै नमः) ओं सरस्वत्यै नमः, ओं सर्वाभ्यो देवताभ्यो नमो नमः’ इति प्रह्वाङ्गं प्रणम्य ‘कामोऽकार्षीन्मन्युरकार्षीत्’ इत्युक्त्वा त्रयीतनुं प्रणम्य ‘ओं प्राच्यै दिशे नमः, ओं दक्षिणस्यै(णायै) दिशे नमः, ओं प्रतीच्यै दिशे नमः ओम् उदीच्यै दिशे नमः, ओम् ऊर्ध्वाय नमः, ओम् अधराय नमः, ओम् अन्तरिक्षाय नमः, ओं भूम्यै नमः, ओं विष्णवे नमः’ इति दिगादिनमस्कारं तत्तदाभिमुख्येन कृत्वा सवितृमण्डले भगवन्तं पूर्ववत् ध्यात्वा,
[[14]]
शङ्खचक्रगदापाणे द्वारकानिलयाच्युत ।
गोविन्दपुण्डरीकाक्ष रक्ष मां शरणागतम् ॥
इत्यनुसन्धाय,
ओं नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
इति भगवन्तमभिवादयेत् ।