०५ सन्ध्यानुष्ठानक्रमः

अथ संध्यानुष्ठानक्रमः॥

ततः सुप्रक्षालित-पाणि-पादो द्विर् आचम्य प्राणान् आयम्य,
“श्रीभगवद्-आज्ञया भगवत्-प्रीत्यर्थं प्रातस्-सन्ध्याम् उपासिष्ये” इति सङ्कल्प्य,

“भगवान् एव
स्वशेष-भूतेन मया
स्वशेष-भूतं प्रातस्-सन्ध्योपासनाख्यं कर्म
स्वस्मै स्वप्रीतये स्वयमेव कारयति” ।

इत्यनुसन्धाय,

“आपोहिष्ठेति मन्त्रस्य-
सिन्धुद्वीप ऋषिः,
देवी गायत्री छन्दः,
आपो देवता”

इत्य् अनङ्गुष्ठाभिर् अङ्गुलीभिः
शिरो जिह्वा हृदयेषु न्यस्य
“प्रोक्षणे विनियोगः” इत्युक्त्वा
वामहस्तेन तोयं स्पृशन्
देव-तीर्थेन ऊर्ध्व-मुखेन शिरसि
प्रणवेन, समस्त-व्याहृतिभिः,
गायत्र्या +++(ऽधस्तनया)+++ प्रणवपूर्वकैः +++(पादैः)+++

“आपो हिष्ठा मयोभुवः।
तान ऊर्जे दधातन ।
महे रणाय चक्षसे ।
यो वश्शिवतमो रसः।
तस्य भाजयतेह नः ।
उशतीरिव मातरः।
तस्मा अरङ्गमामवः।”

इत्य् एतैश् च प्रोक्ष्य

“ओं यस्य क्षयाय जिन्वय ।” इति पादद्वये,
“ओं आपो जनयथा च नः” इति शिरसि च प्रोक्ष्य,

समस्त-व्याहृतिभिर् आत्मानं परिषिञ्चेत् ।

ततः,

“सूर्यश्चेत्यनुवाकस्य अग्निर् ऋषिः,
देवीगायत्री छन्दः,
सूर्यो देवता”,

इति मुखादौ न्यस्य
“अपां प्राशने विनियोगः” इत्युक्त्वा तोयम् ,

“ओं सूर्यश्च मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः ।
पापेभ्यो रक्षन्ताम् ।
यद्रात्र्या पापमकार्षम्।
मनसावाचा हस्ताभ्यां।
पद्भ्यामुदरेण शिश्ना ।
रात्रिस्तदवलुंपतु ।
यत्किञ्च दुरितं मयि ।
इदमहं माममृतयोनौ ।
सूर्ये ज्योतिषि जुहोमि स्वाहा।”

इत्यनुवाकेन चुलकेन प्राश्याचामेत् ।

ततः,

“दधिक्राव्ण्ण इति मन्त्रस्य -
वामदेव ऋषिः
अनुष्टुप्छन्दः
दधिक्रावा देवता”

इति पूर्ववत् न्यस्य
“प्रोक्षणे विनियोगः" इत्युक्त्वा,
प्रणवपूर्वकैः,

“दधिक्राव्ण्णो अकारिषं
जिष्णोरश्वस्य वाजिनः।
सुरभि नो मुखाकरत्
प्रण आयूँषि तारिषत् ।
आपो हिष्ठा…अरङ्गमामवः”

इत्येकादशभिश् शिरसि,
“यस्य क्षयाय जिन्वथ" इति पादद्वये,
“आपो जनयथा च नः" इति पुनश्शिरसि च प्रोक्ष्य,
समस्तव्याहृतिभिरात्मानं परिषिञ्चेत् ॥

ततः प्राणानायम्य,

“श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं प्रातस्संध्यायाम् अर्घ्यप्रदानं करिष्ये”

इति सङ्कल्प्य

“अर्घ्यप्रदानमन्त्रस्य
विश्वामित्र ऋषिः,
देवीगायत्री छन्दः,
सविता देवता”

इति न्यस्य “अर्घ्यप्रदाने विनियोगः” इत्युक्त्वा,

राक्षसमुद्रा-रहितेनाञ्जलिना तोयम् आदाय
भ्रू-मध्य-पर्यन्तं समुद्धृत्य
स-प्रणव-व्याहृतिक-गायत्रीम् उच्चार्य
पाणि-द्वयम् उद्धृत्य
सूर्य-मण्डलान्तर्वर्तिने भगवते ऽर्घ्यं दद्यात् ।
एवं त्रिः कुर्यात्।

अर्घ्यदानात् पूर्वम् उदये,
प्राणानायम्य,

“श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं
प्रातसन्ध्याकालातिक्रम-प्रायश्चित्तं
तुरीयार्घ्यप्रदानं करिष्ये”

इति सङ्कल्प्य,

“तुरीयार्घ्यप्रदानमन्त्रस्य
सान्दीपिनिर् ऋषिः,
देवी गायत्री छन्दः,
सविता देवता”

इति न्यस्य,
“तुरीयार्घ्यप्रदाने विनियोगः” इत्युक्त्वा,
पूर्ववत् तोयम् आदाय,
उभयतस् सप्त-व्याहृति-सहितां गायत्रीम् उच्चार्य,
पूर्ववद् दत्वा,

शोधितं तीरं गत्वा,
समस्तव्याहृतिभिर् आत्मानं परिषिञ्च्य,
प्रदक्षिणं परिक्रम्य,
“असावादित्यो ब्रह्म” इति ध्यात्वा
स्व-गुरु–परम-गुरु-नामनी सङ्कीर्त्य,
आचम्य “ओं केशवं तर्पयामि” इत्यादिक्रमेण
केशवादीन् द्वादशान् सन्तर्प्य
आचामेत् ॥