अथ देवर्षि-पितृ-तर्पणम् ॥
तत आचम्य, प्राणान् आयम्य,
“श्री-भगवद्-आज्ञया भगवत्-प्रीत्यर्थं
स्नानाङ्गं देव-र्षि-पितृ-तर्पणं करिष्ये”
इति सङ्कलप्य,
देव-तर्पणे प्राङ्मुख उपवीती,
ऋषि-तर्पणे उदङ्-मुखो ऽङ्गुष्ठ-सक्त-निवीती,
पितृ-तर्पणे दक्षिणामुखः प्राचीनावीती,
“ओं ब्रह्मादयो ये देवाः
तान् देवांस् तर्पयामि,
सर्वान्देवान् तर्पयामि,
सर्वदेवगणांस् तर्पयामि,
सर्वदेवपत्नीस् तर्पयामि,
सर्व-देव-गण-पत्नीस् तर्पयामि"
इति,
“ओं कृष्णद्वैपायनादयो ये ऋषयः,
तान् ऋषींस् तर्पयामि,
सर्वान् ऋषींस् तर्पयामि,
सर्व-ऋषि-गणांस् तर्पयामि,
सर्व-ऋषि-पत्नीस् तर्पयामि,
सर्व-ऋषि-गण-पत्नीस् तर्पयामि"
इति,
“ओं सोमः पितृमान्
यमो ऽङ्गिरस्वान्
अग्निः कव्यवाहन
इत्यादयो ये पितरः,
तान् पितॄंस् तर्पयामि,
सर्वान् पितॄंस् तर्पयामि,
सर्व-पितृ-गणान् तर्पयामि,
सर्व-पितृ-पत्नीस् तर्पयामि,
सर्व-पितृ-गण-पत्नीस् तर्पयामि"
इति च सन्तर्प्य +उपवीती +आचम्य,
“भगवान् एव
प्रातस्-स्नाख्यं कर्म
स्वस्मै स्वप्रीतये स्वयम् एव कारितवान्”
इति सात्त्विक-त्यागं कुर्यात् ॥