अथ पुण्ड्र-धारण-क्रमः ॥
ततो नारिकेल-पात्रेण द्वि-नेत्रेण
जलम् आदायासीनः कटि-बद्धोत्तरीयः
वाम-पाणितलं तीर्थेनास्त्रमन्त्रेण संशोद्ध्य,
प्रणवेन मृदं तत्र निधाय,
“गन्धद्वारां दुराधर्षां
नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां
त्वाम् इहोपह्वये श्रियम् ॥”
इति मृदं जलेन सिक्त्वा,
अस्त्र-मन्त्रेण दिशो बद्ध्वा
प्रणवेन मिश्री-कृत्य
मूलेनाभिमन्त्र्य
नृ-सिंह-बीजाक्षरं विलिख्य,
“भगवान् पवित्रं वासुदेवः
पवित्रं शतधारं सहस्रधारम् अपरिमितधारम्
अरिष्टम् अच्छिद्रम् अच्युतम् अनन्तम् अक्षयम् अव्ययं
परमं पवित्रं
भगवान् वासुदेवः पुनातु”
इति जलं निस्स्राव्य,
तर्जन्या मृदं जलञ् च +एकी-कृत्य
भगवतः पादौ स्मृत्वा
पुनर् मूल-मन्त्रेणाभिमन्त्र्य
द्वादशाक्षरेण भक्तिं प्रार्थ्य
तर्जन्या प्रणवेन मूर्ध्नि किञ्चिन् न्यस्य,
अनामिकया
ललाट-कुक्षि-हृदय-कण्ठ-
दक्षिण-कुक्षि-पार्श्व–दक्षिण-बाहु-मूल–दक्षिण-कण्ठ-पार्श्व-
वाम-कुक्षि-पार्श्व–वाम-बाहु-मूल–वाम-कण्ठ-पार्श्व–
जघनोपरितन-पृष्ठ-भाग–ककुदेषु
क्रमेण तत्-तत्-अवयवानुगुणान् भगवत्-पादाकृतीन् पुण्ड्रान् ,
“ओं केशवाय नमः" इत्यादिभिः द्वादशभिर् मन्त्रैर् धृत्वा
शेषं द्वादशाक्षरेण मूर्ध्नि धृत्वा
भगवद्-गात्र-परामृष्टं सुवर्ण-वर्णं श्री-चूर्णं
सर्व-पुण्ड्र-मध्येषु पुण्ड्र-संबन्ध-वर्जं
प्रणव-पूर्वकैः,
“श्रीदेव्यै नमः,
अमृतोद्भवायै नमः, कमलायै नमः, चन्द्रशोभिन्यै नमः,
विष्णुपत्न्यै नमः, वैष्णव्यै नमः, वरारोहायै नमः,
हरिवल्लभायै नमः, शार्ङ्गिण्यै नमः, देवदेविकायै नमः,
महालक्ष्म्यै नमः, सुरसुन्दर्यै नमः”
इति मन्त्रैः [सर्वाभीष्टफलप्रदायै नमः इति शिरसि च] धृत्वा,
“ओं केशवाय नमः” इत्यादिमन्त्रैः
क्रमेण तं तं पुण्ड्रम् उद्दिश्याञ्जलिं कुर्यात् ॥