अथाभिगमनम् ॥ (१)
निर्वेदः
पितृ-मातृ-गुरु-प्राज्ञ-
रमा-पति-पदार्चनम् ।
विना मम वृथा याता
महती जन्म-सन्ततिः ।
इति निर्विद्य,
सात्त्विक-धैर्यम्
गतैव हि गता जन्म-
ततिस् तच्-चिन्तनं मुधा।
अतस् तत् प्रविहायाद्य
चिन्तयाम्य् आत्मनो हितम् ।
इतः परम् अहं भक्त्या
रमा-कान्त-पदार्चनम् ।
करिष्यामि यथाशक्ति
काल-भागेषु पञ्चसु॥
इति सात्त्विक-धैर्यम् अवलम्ब्य
अञ्जलिं बद्ध्वा,
सङ्कल्पः, त्यागः, शरणम्
कृतञ् च करिष्यामि भगवन्,
नित्येन भगवत्-प्रीत्य्-अर्थेन
महा-विभूति–चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन
+अभिगमनेन भगवत्-कर्मणा
भगवन्तं वासुदेवम् अर्चयिष्यामि।
इत्यभिगमनं सङ्कल्प्य,
“भगवान् एवाभिगमनाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारयति”
इति सात्त्विकत्यागं कृत्वा,
“ॐ
त्वय्य् आराधन-कामोऽयं
व्रतं चरितम् इच्छति ।
सङ्कल्प-सिद्ध्यै भगवन् !
पूरयास्य मनो-रथान् ॥”
इति मन्त्रेण कैङ्कर्य-प्रतिबन्धक-निवृत्तिं प्रार्थ्य,
गुरुध्यानम्
विश्वास-प्रस्तुतिः
अस्मद्-देशिकम् अस्मदीय-परमाचार्यान् अशेषान् त्रयी-
चूडा-देशिक–तद्-गुरुन्, यति-वरं, पूर्णं मुनिं, यामुनम् ।
रामं, पद्म-विलोचनं, मुनिवरं नाथं, शठद्वेषिणं,
सेनेशं, श्रियम्, इन्दिरा-सहचरं नारायणं संश्रये ॥
मूलम्
अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान्त्रयी
चूडादेशिकतद्गुरुन्, यतिवरं, पूर्णं मुनिं, यामुनम्।
रामं पद्मविलोचनं, मुनिवरं नाथं, शठद्वेषिणं,
सेनेशं, श्रियमिन्दिरासहचरं, नारायणं संश्रये ॥
इति गुरु-परम्पराम् अनुसन्धाय,
भगवद्-ध्यानम्
“सव्यं पादं प्रसार्य श्रित-दुरित-हरं, दक्षिणं कुञ्चयित्वा,
जानुन्य् आधाय सव्येतरम्, इतर-भुजं नाग-भोगे निधाय ।
पश्चद् बाहु-द्वयेन प्रतिभट-शमने धारयन् शङ्ख-चक्रे
+++(श्री-)+++देवी-भूषादि-जुष्टो जनयतु जगतां (मम तत्) शर्म वैकुण्ठ-नाथः ॥”
इति भगवन्तं ध्यात्वा,
“ओं वासुदेवाय नमः, ओं सङ्कर्षणाय नमः, ओं प्रद्युम्नाय नमः, ओं अनिरुद्धाय नमः,
ओं केशवाय नमः, ओं नारायणाय नमः ओं माधवाय नमः, ओं गोविन्दाय नमः, ओं विष्णवे नमः, ओं मधु सूदनाय नमः, ओं त्रिविक्रमाय नमः, ओं वामनाय नमः, ओं श्रीधराय नमः, ओं हृषीकेशाय नमः, ओं पद्मनाभाय नमः, ओं दामोदराय नमः,
ओं मत्स्याय नमः, ओं कूर्माय नमः, ओं वराहाय नमः, ओं नरसिंहाय नमः, ओं वामनाय नमः, ओं भार्गवरामाय नमः, ओं श्रीरामाय नमः, ओं बलरामाय नमः, ओं श्रीकृष्णाय नमः, ओं कल्किने नमः"
इति सङ्कीर्य,
यथा-शक्ति स्तोत्राण्य् अपि सङ्कीर्य,
सन्ध्योपासनाय जिगमिषुः,
‘हरिर्हरिः’ इति कीर्तयन् ,
तल्पाद् उत्थाय,
भू-नुतिः
“ॐ नमः क्षिति-धराय” इति महावराहं ध्यात्वा,
वाम-पादं भूमौ विन्यस्य,
“ओं नमोऽस्तु प्रिय-दत्तायै
तुभ्यं देवि! वसुन्धरे।
त्वं माता सर्व-लोकानां
पाद-न्यासं क्षमस्व मे।”
इत्य् उक्त्वा
अर्घ्यत्व-बुद्धया तत्रैव निस्स्राव्य,
रेखामध्यात् जलम् अञ्जलिनाऽऽदाय
मूलेन सप्तकृत्वोऽभिमन्त्र्य
मूर्ध्नः पुरोभागं सिञ्चेत् ।
एवं त्रिः कुर्यात्।
स्नानम्
तीर्थ-प्रोक्षणम्
ततो दक्षिण-हस्तेन जलम् आदाय,
त्रिर् मूलेनाभिमन्त्र्य, पीत्वाऽऽचम्य,
मूलेनात्मानं प्रोक्ष्य,
हस्ताभ्यां परिषिच्य,
गुरुवन्दनम्
अञ्जलिना तोयम् आदाय, स्व-गुरु-पादोदकं तद् ध्यावा,
तेन मूर्ध्नः पुरोभागं त्रिः सिक्वा,
चतुर्थ्यन्तं श्रीमत्-पद-पूर्वकाणि नमः-पदान्तानि चतुर्थ्यन्तानि स्वगुरु-परमगुरु–तद्-गुरु–गोगलार्य-निगमान्तार्याणां महादेशिक-पद-शिरस्क-नामानि उच्चैस् संकीर्त्य,
‘श्रीमते भगवद्-रामानुजाय नमः’ इत्यपि संकीर्त्य,
निमज्जनम्
सकृत् तीर्थे निमज्ज्य,
यथाशक्ति मूलं जपित्वा
उन्मज्ज्य सूर्य-मण्डलान्तर्वतिनं भगवन्तं ध्यात्वा
सम्मार्जनम्
उत्तीर्य अधरोष्ठ-पिहितानन-श्रोत्राचमनं द्विः कृत्वा,
स्वाचार्य-प्रभृति-भगवत्-पर्यन्त-गुरु-परम्पराम् अनुसन्दधान
एवं वस्त्र-खण्डेन शिरस्-समृज्य
खण्डं प्रक्षाल्य
तेनाङ्गं संमृज्य
वस्त्र-ग्रहणम्
हस्तौ प्रक्षाल्य
जलम् आदाय व्याहृतिभिश् शुष्क-वस्त्रं प्रोक्ष्य,
“देवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूणो हस्ताभ्याम् आददे” इत्यादाय,
“उदुत्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम्” इति सूर्याय प्रदय,
“अवधूत रक्षोऽवधूता अरातयः” इत्यवधूय,
उत्तरीयम्
“आवहन्ती वितन्वाना। कुर्वाणा चीरम् आत्मनः।
वासांसि मम गावश्च । अन्नपाने च सर्वदा ।
ततो मे श्रियम् आवह”
इत्य् उच्चार्य,
उत्तरीयेण शिर आवेष्ट्य
कौपीनान्तरीये
उपवीतं निवीतं कर्णे निधाय
कौपीनं धृत्वा,
जङ्घे मृज्-जलाभ्यां प्रक्षाल्यान्तरीय यथाशास्त्रं धृत्वा,
उत्तरीयम्
पादौ हस्तौ च प्रक्षाल्य, सूत्रमुपवीतं धृत्वा, उत्तरीयं तत्-समानाकारं कृत्वा, आचम्य,
देव-जल-क्षालनम्
मूलेन प्राणानायम्य, यथाशक्ति जपित्वा, शुभाश्रयं ध्यात्वा, भगवत्-पादाम्बुज-दिव्य-जलेन क्षालितं स्व-देहं ध्यात्वा,
अन्तरीयग्रहणम्
त्यक्तम् आर्द्रम् अन्तरीयं व्याहृतिभिः प्रोक्ष्य पार्श्वे स्थापयेत् ॥