रात्रेः पश्चिमे यामे निद्रां त्यक्त्वा
हरिशब्दं सप्तकृत्वः, “हरिर्हरिः” इति कीर्तयन् उत्थाय,
ग्राह-ग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यम् आरुह्य धावन्
व्याघूर्णन् माल्य-भूषा-वसन-परिकरो मेघ-गम्भीर-घोषः।
आबिभ्राणो रथाङ्गं शरम् असिम् अभयं शङ्-खचापौ स-खेटौ+++(=सर्वर्माणौ)+++
हस्तैः कौमोदकीम् अप्य् अवतु हरिर् असाव् अंहसां संहतेर् नः ।
इत्य् अनुसन्धाय
श्रोत्राचमनं कृत्वा
शयन एवाऽऽसीनः,
“अखिल-हेय-प्रत्यनीक! कल्याणैकतान! स्वेतर-समस्त-वस्तु-विलक्षणानन्त-ज्ञानानन्दैक-स्वरूप! निरतिशयोज्ज्वल्यादिगुण-निधि-दिव्य-रूप!
परम-कारुणिक! मार्दवादि-गुण-परिपूर्ण! किरीट-मकुटादि-दिव्य-भूषण-भूषित! शङ्ख-चक्रादि-दिव्यायुधोपेत! अ-सङ्ख्येय-कल्याण-गुण-गण!
श्री-भूमि-नीला-नायक!
शेष-शेषाशनादि+++(=विष्वक्सेनादि)+++-दिव्य-परिजन-परिचरित-चरण-युगल!
उभय-विभूति-नाथ!
प्रणतार्तिहर! वात्सल्य-जलधे! सर्वज्ञ! अर्थि-कल्पक! आपत्-सख! श्रीमन्-नारायण!
अणु-परिमाण-देहेन्द्रियादि-विलक्षण-ज्ञानानन्द-स्वरूपोऽहं
त्वद्-एक-शेषः त्वद्-एक-नियाम्यः त्वद्-एकाधारकः त्वद्-एक-शरणः त्वद्-एक-प्राप्यकश् चास्मि”
इत्यनुसन्धाय,
“भगवान् एव स्व-शेषभूतेन मया स्व-शेष-भूतम् इमं योगं कारितवान्”
इति सात्त्विक-त्यागं कृत्वा,
“योगेनानेन भगवान् प्रीयतां वासुदेवः” इत्य् अनुसन्दधीत।