Source: TW
श्रीः
॥श्रियै नमः॥
॥ श्रीमते गोपालार्यमहादेशिकाय नमः ॥
श्रीमद्-रङ्गरामानुज-महादेशिकानुगृहीतम्
॥ लध्वाह्निकम् ॥
ज्ञानानुष्ठान-वैराग्य-
भक्तीनाम् एकम् आश्रयम् ।
वेदान्त-लक्ष्मणाभिख्यम्
आश्रये मुनिपुङ्गवम् ॥
श्रीपाञ्चरात्र-रक्षाख्य-
दिव्य-मूक्ति-तपःफलम् ।
गोपाल-सूरिम् अतुलं
कुर्वे मन्-मानसालयम् ॥
गोपाल-सूरि-रचितम्
आह्निक-ग्रन्थम् अर्थितः ।
संगृह्णाति मुनी रङ्ग-
रामावरज-नामकः ॥