विस्तारः (द्रष्टुं नोद्यम्)
हेयोपादेयदर्पण-विषयसूची
- उपादानप्रकरणम् पु. 102 93
- इज्याप्रकरणम् 103
- भगवदाराधनप्रकरणम्
- आचमनप्रकरणम्
- भाजनप्रकरणम् 111
- दन्तधावनप्रकरणम्
- हस्तशोधनप्रकरणम्
- स्नानप्रकरणम्
- वस्त्रधारणप्रकरणम्
- स्वाध्यायप्रकरणम्
- सायंसन्ध्योपासनप्रकरणम116
- सन्ध्योपासनादिप्रकरणम् ,
- योगप्रकरणम् 117
- भगवत्सेवाप्रकरणम् 99
- सर्वप्रकरणशेषः
- आचार्यस्मृतिमुक्तावलिः
- प्रातरभिगमनप्रकरणम्
- आचार्यस्तुतिः
श्रीमते वेदान्त-रामानुज-महादेशिकाय नमः । श्रीमते रङ्ग-रामानुज-महादेशिकाय नमः।
॥ हेयोपादेयदर्पणः ॥
नत्वा गुरु-पदाम्भोजं
दृष्ट्वा मुनि-गणोदितम् ।
वेदान्त-लक्ष्मणाख्येन
यति-धुर्येण नाथवान् ॥
आस्तिकानां प्रपन्नानां
हेयोपादेय-दर्पणम् ।
सुख-बोधाय कुरुते
रङ्ग-रामानुजो मुनिः॥
लघ्वाह्निके तावत् देश-काल-वैषम्यादिना नित्य-कर्माणि यथावद् अनुष्ठातुम् अशक्तानाम् ,
अत एव सङ्ग्रह-रुचीनां परमास्तिक-प्रपन्नानां कर्मानुष्ठान-सौकर्याय
ब्राह्म-मुहूर्ताद् आरभ्य रात्रौ शयन-पर्यन्तं कर्तव्यानि कर्माणि,
केषाञ्चित् पूर्वेषाम् आह्निक-ग्रन्थान् समीचीन-युक्तिं चानुसृत्य,
अधिकारि-विशेषे सङ्ग्रहानुष्ठानम् अपि प्रत्यवाय-निवारणाय प्रभवतीति मत्वा
सङ्गृह्य प्रदर्शितानि ।
इदानीं हेयोपादेय-दर्पणाख्येऽस्मिन् प्रबन्धे
तत्-तत्प्रकरणेषु +उपादेयान् कतिचन सूक्ष्मांशान्, परिहरणीयांश्च कांश्चित् विषयान्
सर्वेषां सुखबोधाय सङ्कलय्य प्रदर्शयामः ॥