+हेयोपादेयदर्पणः

विस्तारः (द्रष्टुं नोद्यम्)

हेयोपादेयदर्पण-विषयसूची

  • उपादानप्रकरणम् पु. 102 93
  • इज्याप्रकरणम् 103
  • भगवदाराधनप्रकरणम्
  • आचमनप्रकरणम्
  • भाजनप्रकरणम् 111
  • दन्तधावनप्रकरणम्
  • हस्तशोधनप्रकरणम्
  • स्नानप्रकरणम्
  • वस्त्रधारणप्रकरणम्
  • स्वाध्यायप्रकरणम्
  • सायंसन्ध्योपासनप्रकरणम116
  • सन्ध्योपासनादिप्रकरणम् ,
  • योगप्रकरणम् 117
  • भगवत्सेवाप्रकरणम् 99
  • सर्वप्रकरणशेषः
  • आचार्यस्मृतिमुक्तावलिः
  • प्रातरभिगमनप्रकरणम्
  • आचार्यस्तुतिः

श्रीमते वेदान्त-रामानुज-महादेशिकाय नमः । श्रीमते रङ्ग-रामानुज-महादेशिकाय नमः।

॥ हेयोपादेयदर्पणः ॥

नत्वा गुरु-पदाम्भोजं
दृष्ट्वा मुनि-गणोदितम् ।
वेदान्त-लक्ष्मणाख्येन
यति-धुर्येण नाथवान् ॥
आस्तिकानां प्रपन्नानां
हेयोपादेय-दर्पणम्
सुख-बोधाय कुरुते
रङ्ग-रामानुजो मुनिः॥

लघ्वाह्निके तावत् देश-काल-वैषम्यादिना नित्य-कर्माणि यथावद् अनुष्ठातुम् अशक्तानाम् ,
अत एव सङ्ग्रह-रुचीनां परमास्तिक-प्रपन्नानां कर्मानुष्ठान-सौकर्याय
ब्राह्म-मुहूर्ताद् आरभ्य रात्रौ शयन-पर्यन्तं कर्तव्यानि कर्माणि,
केषाञ्चित् पूर्वेषाम् आह्निक-ग्रन्थान् समीचीन-युक्तिं चानुसृत्य,
अधिकारि-विशेषे सङ्ग्रहानुष्ठानम् अपि प्रत्यवाय-निवारणाय प्रभवतीति मत्वा
सङ्गृह्य प्रदर्शितानि ।

इदानीं हेयोपादेय-दर्पणाख्येऽस्मिन् प्रबन्धे
तत्-तत्प्रकरणेषु +उपादेयान् कतिचन सूक्ष्मांशान्, परिहरणीयांश्च कांश्चित् विषयान्
सर्वेषां सुखबोधाय सङ्कलय्य प्रदर्शयामः ॥