एतावता प्रबन्धेन
तत्-तत्-प्रकरणेषु +उपादेयान् हेयांश् च कतिचन विषयान्
दिक्-प्रदर्शन-नीतिम् अनुसृत्य प्रादीदृशाम ।
एवं-जातीयकान् अन्यान् अंशान्
आस्तिकाग्रे-सराः स-प्रतिपन्न-शिष्ट-+अनुष्ठानम् अन्वीक्ष्य
गृह्णीयुर् इति +इतो विरम्यते ।
परन्तु अत्यन्तावश्यकः कश्चन विषयः सर्व-प्रकरण-शेषतयोच्यते ।
अत्वरा
केषुचित् कर्मसु प्राणायामत्रयं शास्त्रेषु विहितम् ।
एवं क्वचिद् आचमन-द्वयं, कुत्र-चित् तत्-त्रयं च विहितम् ।
गायत्री-जपोऽपि अष्टोत्तर-सहस्र-संख्याकः,
अष्टोत्तर-शत-संख्याकः, तन्-न्यून-संख्याकश् च बहुविध उक्तः ।
अ-शुद्ध-पात्रस्य शुद्ध्य्-अर्थं
तिन्त्रिणी-मृज्-जलादिभिस् त्रयोदश-वारं शोधनं विहितम् ।
एवं गुद-लिङ्ग-प्रक्षालनम् अपि संख्या-नियमवद् एव दृष्टम् ।
एवम् अन्यत्रापि द्रष्टव्यम् ।
अत्र सर्वत्र सत्वरेण, अन्य-चित्तेन च
+अधिक-संख्या-परिग्रहापेक्षया,
अत्वरेण तच्चितेन च शास्त्रोक्तायास्
तद्-अविरोधेन क्वचित् स्वयम् ऊहितायाश् च न्यून-संख्यायाः परिग्रह एव वरम् ।
तथा हि-
अत्वरं सध्यानञ् च
प्राणायामाचमनयोर् अशक्तेन
सकृत्-करणम् अपि प्रत्यवाय-निवारकं भगवत्-प्रीतिजनकं च भवेत् ।
न वैपरीत्येन +अ-सकृत्-करणम् ।
ततश् चाचमने
चुलकेन जलादानानन्तरं
मन्त्रं शनैर् उच्चार्य
हृद्-गतं तोयं पिबेत् ।
एवं त्रिःकुर्यात् ।
न तु तोयम् आददान एव पिबेत् ।
अङ्ग-स्पर्शश् च त्वरां विना यथावन्-मन्त्रेण कार्यः।
प्राणायामम् अपि सम्यक् कुर्यात् ।
एवम् अशक्तौ सत्यां
यथावद् अनुष्ठाने दश-वार-जपोऽपि युक्ततरः ।
न त्व् अशक्ताव् अपि वैपरीत्येनानुष्ठितो ऽधिकजपः ।
किं पुनः शक्तौ ।
एवम् अन्यत्राप्य् ऊह्यम् ।
ध्यानम्
तथा ध्यान-रहितं कर्म निष्फलम् ।
तस्मात् सन्ध्योपासनादिकं सर्वं कर्म
तत्-तद्-देवताः,
क्वचित् तद्-अन्तर्यामिणं,
क्वचित् साक्षाद्-वाच्यं च परमात्मानं
तदीय-विग्रहादिकम्,
अन्यांश् च विषयान् ध्यायन्न् एव कुर्यात् ।
एवं जल्पतो ऽधिक-जपापेक्षया, मौनिनः स्वल्पजप एव ज्यायान् ॥
एवं भगवद्-आराधने ऽपि
सत्वरं ध्यान-रहितं च +अनेकोपचार-समर्पणापेक्षया
+अत्वरं स-ध्यानावधानं च प्रधान-कतिपयोपचार-समर्पणम् एव वरम् ।
तथा हि- उद्धरिण्या अर्घ्यम् आदाय,
‘भगवन् ! इदम् अर्घ्यं प्रतिगृण्हीष्व’ इति स-भय-भक्ति-विनयं शनैः प्रार्थ्य,
मूल-मन्त्रं सस्वरम् उच्चार्य
भगवद्-दक्षिण-हस्ते मनसा किञ्चित् प्रदाय,
शेषं प्रतिग्रह-पात्रे प्रक्षिप्य,
‘भगवन् ! एतद् अनुबन्धिनो ऽपराधान् क्षमस्व’ इति प्रार्थ्य,
‘अनेन भगवान् प्रीयतां वासुदेवः’ इति भगवति समर्पयेत् ।
एवं पाद्यादाव् अपि द्रष्टव्यम् ।
एवं करणे देश-कालादि-वैषम्येण लघुतरम् अर्चने ऽपि न दोषः ।
अति-त्वरया करणे,
सर्वम् अकृत-प्रायम् एव ।
शास्त्राधीति-निदर्शनम्
यद्य् एकम् अपि शास्त्रं संपूर्णम् अधीते,
सम्यग् जानाति च,
तदा विद्वान् इति व्यवह्रीयते,
शक्नोति च +अनधीतम् अपि विषय-जातं विज्ञातुम् ।
न हि किंचित्-स्पृष्ट-सर्व-शास्त्रः
कंचिद् अपि विषय-लवं यथावत् ज्ञातुम् ईष्टे ।
अयम् एव न्यायो ऽत्रानुसन्धेयः ।
यथावद् अधीत-सर्व-शास्त्रस्य प्रवचनादाव् इव ;
यथावद् अनुष्ठित-मुख्य-पक्षस्य
भगवत्-प्रीत्य्-आदौ कैमुतिक-न्यायो द्रष्टव्यः ॥
शुद्धिः
एवं हस्ताव् आकूर्परं सम्यक् प्रक्षाल्यैव
पूर्वोक्त-पात्र-त्रयम् अन्यद् वा परि-शुद्धं वस्तु गृह्णीयात् ;
न तु कर-तल-मात्रं
ब्रह्म-यज्ञ-काल इव
जलेन संमृज्य गृह्णीयात् ।
तथा सति पात्रादेर् अशुद्ध्या,
तत्-साध्यं क्रिया-जातं विफलम् एव भवेत् ।
किं बहुनोक्तेन ?
यस् तावत् श्रुति-स्मृति-पाञ्चरात्रोक्तं
सर्वं नित्य-नैमितिक-रूप-सत्-कर्म-जातं
तत्-तत्-कालेषु यथा-वद् अनुतिष्ठति,
तस्यापि सूक्ष्माचारापरिज्ञाने
स्वदेह-यज्ञ-सूत्र-उत्तरीयादेर् अशुद्धतायाः,
पूर्वोक्त-पात्राणाम् अशुद्धेन पाद-शोधन-पात्रादिना परस्परं च संसर्गस्य,
साक्षाद् आराधनोपकरण-भूत-तुलसी-पुष्प-गन्धादीनां भगवद्-अनर्हतायाश् च प्रसङ्गेन,
निष्फलानुष्ठानत्वं यथावद् अनुष्ठानाभावो वा प्रसजेत् ।
कुलाभिमानम्
तत्त्वज्ञानादिभिर् अन्यैर् बहुभिः प्रशंसा-हेतुभिः प्रकारैर्
आधिक्ये सत्यपि,
सूक्ष्माचार-परिज्ञान-वैभवाद् एव हि
कुलान्तरापेक्षया श्री-वैष्णव-कुलम् अन्येऽपि प्रशंसन्ति ।
अतः कालादि-दोषात् तद्-भ्रंशो मा भूद् इत्य् अस्माभिर् अद्यात्र दिक् प्रदर्शिता ।
इति सर्वम् अनवद्यम् ॥
English
Despite being greater in terms of admirable qualities led by the knowledge of suchness,
it is only because of the glory of the knowledge of fine conduct
that the shrI-vaiShNava school is admired more than other schools even by others.
Hence, so that this may not be lost due to faults such as those of time, here today a direction has been shown by us.
इत्थं शिष्ट-तमाचारं
स्मृतिं चालोच्य संयमी।
रङ्गरामानुजाभिख्यः
कृतवान् कृतिम् उत्तमाम् ॥
त्यजतो वैष्णव-कुलं
सूक्ष्माचारस्य संप्रति ।
स्थापनार्था कृतिर् भूयात्
सताम् आदर-भाजनम् ॥
॥ हेयोपादेयदर्पणः संपूर्णः ॥
श्रीमते वेदान्त-रामानुज-महादेशिकाय नमः ॥
श्रीमते रङ्ग-रामानुज-महादेशिकाय नमः ॥
शुभम् अस्तु