अनन्तरं कृत-शुद्धिके स्थले आसीनः
स्वाध्यायं समाप्य,
योग-संकल्पं कुर्यात् ।
शक्तश् चेत् , श्रीमद्-आह्निकोक्त-रीत्या श्री-वैकुण्ठ-गद्यानुसन्धान-पूर्वकं
योगम् अनुतिष्ठेत् ।
अ-शक्तस् तु भगवद्-ध्यान-सोपानम् अनुसन्दधीत ।
तत्राप्य् अशक्तौ,
“पादाम्भोजं स्पृशति, भजते रङ्गनाथस्य जङ्घांम्,
ऊरु-द्वन्द्वे विलगति शनैर्, ऊर्ध्वम् अभ्येति नाभिम् ।
वक्षस्यास्ते, वलति भुजयोर्, मामिकेयं मनीषा,
वक्त्राभिख्यां पिबति, वहते वासनां मौलिबन्धे ॥”
इति श्लोकमनुसन्दधीत ।
तन्-मात्रानुसन्धान-पक्षे
तत्-तद्-दिव्य-देश-वासादि-निबन्धन–
तत्-तन्-मूर्ति-विषय-शास्त्राद्य्-अविरुद्धाभिमानातिशय-संभवे
‘रङ्गनाथस्य’ इत्यस्य स्थाने ‘श्रीनिवासस्य’, ‘हस्तिनाथस्य’, (‘देवराजस्य’,) ‘देवनाथस्य’, ‘भूवराहस्य’, ‘शार्ङ्ग-हस्तस्य’ इत्य्-एवं-रीत्या
अनुसन्धानेऽपि न दोषः ।
तत्र चतुर्-भुज-मूर्ति-विषये
‘जङ्घा’-शब्द इव एकत्वाविवक्षा-संभवात्,
‘भुजयोः’ इत्यस्य स्थाने ‘च भुजे’ इति पठनम् उचितम् ।
ततः शुभाश्रयं यथा-शक्ति ध्यायेत् ।
निद्रा-प्रसक्ताव् अनावृत-सौधादि-भिन्न-स्थले परिशुद्धे शयने
उदग्-भिन्नायां कस्यांचिद् दिशि निहित-शिरा
अ-नग्नत्वादि-नियमवान्
माधव-शब्देन श्रियःपतिं स्मरन्
सुखेन शयीत ।