२० सायं-सन्ध्योपासन-क्रमः

सायं-सन्ध्योपासनं नदी-तटाकादाव् एव शक्तः कुर्यात् ।

अनन्तरं गृहम् आगत्य
यथा-शक्ति स्वार्चाम् अभ्यर्च्य
प्रातर् इव साङ्ग-प्रपदनं कुर्यात् ।
तत्र “सायम् अभिगमन" इति स्थाने “श्वः प्रातर् अभिगमन” इति पठनीयम् ।

अनन्तरं तर्पण-रूपं वा वैश्वदेवं कुर्यात् ।

सन्ध्योपासनानन्तरम् एव (निवेदनात् पूर्वं) वैश्व-देव-तर्पणं न कदाऽपि कुर्यात् ।
आदित्ये अस्तं गते अन्ततो घटिकाद्वयम् अपोह्यैव भुञ्जीत ॥