चोदनम्
भगवद्-अभिषेक-तोयोपयोगानन्तरं
कृत-शुद्धिके स्थले आसीनः
इज्यां समाप्य
“कृतं च” इत्यादिना स्वाध्याय-संकल्पं कुर्यात् ।
यथा-शक्ति वेदान्त-ग्रन्थावलोकन-प्रवचन–सात्त्विक-पुराण-पठन–मन्त्र-जपादीन् कुर्यात् ।
सत्सङ्गः
उपादान-काल इवास्मिन् कालेऽपि
अर्थ-काम-प्रावण्य–पर-निन्दादि-गन्ध-रहितैर्
आत्म-गुण-पूर्णैः अनुष्ठान-पर्यन्त-ज्ञान-शालिभिः परम-भागवतैः सह
पर-भक्ति-नम्रः संभाषेत ।
उक्ताकार-रहित-केवल–श्री-वैष्णव-विषयेऽपि प्रीतिमान् भवेत् ।
अपराधः
कस्मिन्न् अपि, कदाऽपि, करण-त्रयेणापि अपराध-लेशम् अपि न कुर्यात् ।
कदाचित् कर्मवशाक् जाते ऽपराधे,
सद्यः क्षामणं कुर्यात् ।
तद्-अकरणे श्री-वैष्णवापराधिना ऽनेन क्रियमाणं
सर्वं सत्कर्म विफलम् एव स्यात् ।
भगवत्-परत्व-ज्ञान–देवतान्तर-वर्जन-रूपाकार-द्वय-योगित्वे
केवल-श्री-वैष्णव-विषये ऽप्य् अपराधः सत्-कर्म-नैष्फल्यापादक एव ।
अन्य-विषये ऽप्य् अपराधः साम-वादादिना तत्-तद्-अधिकारानुगुण्येन सद्यः परिहरणीयः ।
अभिप्रायभेदः
केनचित् भागवतेन निबन्धन-मुखेन वा साक्षाद् वा
प्रतिपादितम् अर्थं
प्रमाण-शिष्टाचाराननुगुणं मन्वानस्य
तं प्रति ग्रन्थतो वा साक्षाद् वा
दुर्-उक्ति-लेश-वर्जं प्रमाणाद्य्-अनुगुणत्वेन
स्वाभिमतस्यार्थस्य प्रतिपादनं नापराध-कोटौ प्रविशेत।
तद् अप्य् अपराधत्वेन यदि भागवतो मन्यते,
तदाऽपि विनीतेन क्षामण-मात्रं कार्यम् ।
अर्थ-प्रतिपादनं तु स्व् एव कृतं न्याय्यं चेन्, नान्यथा कुर्यात् ।
स्वस्य वस्तुतो निरपराधत्वे ऽपि
स्व-कर्म-वशात् पार्श्व-स्था यदि परम-भागवतं कंचित् प्रति
आत्मानम् अपराधिनं मन्यन्ते,
तदाऽपि निर्विण्ण-चेतसा परम-भागवतं पार्श्व-स्थांश् च प्रति
सहृदयं क्षामणं कार्यम् !
वस्तु-स्थितिश् चोद्घाटनीया ।+++(5)+++
यद्य् एवम् अपि तथैव मन्येरन् ,
तदाऽपि न तान् प्रति चित्त-विकारं भजेत् ।
अपि तु स्व-कर्म स्मरन्
तान् प्रति अ-विकृत-मनाः
सन्तुष्ट-चित्तो वर्तेत ।
स्व-विषये निष्कारणम् अपकुर्वत्स्व् अपि
स्व-कर्म तत्-कर्म च स्मरता
+एवम् एव तेषु निर्विकारं स-सन्तोषं च वर्तितव्यम् ।
केनाऽपि कारणेन कम् अप्य् अपराध-लेशं न कुर्यात् ,
न वा कारयेद् इति सर्वसारम् ।
तद् इदम् अपराध-वर्जनं,
तत्-संभवे क्षामणं,
परेणापराधे निर्विकार-चित्तत्वादिकं च,
सन्यासिनाम् अपि गृहस्थ-विषयेऽपि तुल्यं वेदितव्यम् ।
क्षामणं तु कनिष्ठ-यति-गृहस्थ-विषये शास्त्रबलात् ,
विना प्रणामं भवेत् ॥