देव-पात्र-मनुष्यपात्रोभय-पात्र-भेदेन त्रिविधानि पात्राणि ।
तत्र देव-पात्रं साक्षाद् भगवद्-आराधनोपयुक्तोद्धरिण्य्-आदिकम् ।
मनुष्य-पात्रं स्वस्य जल-पानाद्य्-अर्ह-पात्रम् ।
उभय-पात्रं पाक-तद्-अर्थ-जलाहरणार्ह-पात्रम् ।
एतद् एव पाक-गृह-पात्रम् इत्य् उच्यते ।
एतेषां परस्पर-संबन्धं न कदाऽपि कुर्यात् ।
देशादि-वैगुण्येन कदाचित् देव-पात्रोभय-पात्रयोः संबन्धेऽपि न दोषः।
तयोर् उभयोर् मनुष्य-पात्रेण संबन्धे जाते
तत्-पात्रम् उभयम् अपि केशवादि-वासुदेवान्त-नामभिः मृत्-तिन्त्रिणी+++(=tamarind)+++-जलादिभिः शोधयेत् ।
शोधन-काले एक-शोधनानन्तरं पात्रम् अद्भिः प्रक्षाल्य,
वाम-हस्तं संशोध्य,
तेन पात्रं गृहीत्वा,
दक्षिणं प्रक्षाल्य
पुनर् मृत्तिकाभिः पात्रं शोधयेत् ।
एवमेव आसमाप्ति कुर्यात्।
नतु पात्रं प्रक्षाल्य
तेन पात्र-स्पर्शिना करेणैव मृत्तिकादि-शोधक-द्रव्यम् आददीत ।
मनुष्य-पात्रं स्पृष्ट्वा
देव-पात्रादि-स्पर्शे ऽपि संबन्धवत् त्रयोदश-कृत्वः शोधनं कुर्यात् ।
एवं नूतन-क्रीत-पात्रेण पाद-शोधकाद्य्–अ-शुद्ध-पात्रेण अन्यदीय-पात्रेण च पूर्वोक्त-पात्राणां संबन्धे,
तत् स्पृष्ट्वा तेषां स्पर्शे च,
शुद्धिर् बोद्धया ॥
पुमान् वा नारी वा ऽङ्गानि, धृतं वस्त्रं, शिरः, केशान् वा स्पृष्ट्वा
पात्रं न स्पृशेत् ।
हस्तं प्रक्षाल्यैव स्पृशेत् ।
अ-प्रक्षाल्य स्पर्शे शुद्धिः कर्तव्या ।
धृतं वस्त्रं स्पृष्ट्वा, नारीभिः पात्र-स्पर्शे ऽपि नाशुद्धिः,
तदा हस्तप्रक्षालनं तासां वृथा चेष्टैव
इत्युक्तिस् तु तथा-विध-प्रमाणाभावात्
संप्रतिपन्न-शिष्टानुष्ठानाभावाच् च चिन्त्या ॥