पात्रेण हस्त-शोधनावसरे
प्रथमम् ऊरू स-जलेन हस्तेन संमृज्य
तयोः पात्रं निधाय प्रहाशः सावधानो हस्तं शोधयेत् ।
परस्पर-संघर्ष-रूपं हस्तयोः शोधनं सम्यक् कृत्वा
वाम-हस्तं पृथक् कृत्य
दक्षिण-कूर्पर-भागावर्जित-पात्र-स्थ-तोयेन तं सम्यक् प्रक्षाल्य,
तेन पात्रं गृहीत्वा दक्षिणं शोधयेत् ।
न तु हस्तयोः परस्पर-संबन्ध-दशायाम् एव
+ऊरुस्थपात्रेण शोधयित्वा
वामेन पात्रं गृह्णीयात्।
हस्त-शोधनात् पूर्वं श्व-शूद्रादि-दर्शने प्रथमं हस्तौ प्रक्षाल्य,
गण्डूषान् कुर्यात् ।
अन्यदा तु गण्डूषान् कृत्वा हस्तं शोधयत् ।
अनन्तरं वामेन नखशोधनं कृत्वा
पूर्ववत् क्रमेण हस्तौ शोधयेत् ।
गण्डूष-समये तोयं न पिबेत् ।
अवसाने वामेन दक्षिणं,
दक्षिणेन वामं च
आकूर्परं शोधयेत् ।
अनन्तरं पादौ स्थल-त्रये आजानु संशोध्य
द्विराचम्य
तदा कर्तव्यं कुर्यात् ।
अथ हस्तौ पाक-गृह-पात्रेण शोधयित्वा
भगवद्-अभिषेक-तोयं सकृत् पिबेत् ॥