१६ भोजन-प्रकरणम्

अतिथि-प्रतीक्षा

न वैश्वदेवानन्तरम् एव भुञ्जीत ।
अपि तु गो-दोहन-मात्रं (पाद-घटिका-मात्रं) अतिथिं प्रतीक्षमाणो वर्तेत ।
तल्-लाभे यथा-शक्ति यथार्हं पूजयित्वा भुञ्जीत ।

गोमयलेपः

शक्तश् चेत् स्वयम् एव प्रणवेन गोमय-जलेन चतुरश्रं
मध्ये हस्तोत्क्षेप-रहितं स्थल-शुद्धिं कुर्यात् ।
यदाकदाचित् स्थल-शुद्धिकालेऽपि मध्ये हस्तं नोत्क्षिपेत्
गोमय-जलापेक्षायां भू-भाग-संबद्ध एव दक्षिण-हस्ते वामह-स्तगतेन पात्रेण निस्रावयेत् ।
हस्तोत्क्षेपे तोयान्तरेण तं प्रक्षाल्य अवशिष्ट-जल-शुद्धिं कुर्यात्।

पत्त्राणि

पिशाचोदुम्बर-पनसाम्र-नालिकेर-कदली-बिल्वोहिन+++(=??)+++–काञ्चि+++(=??)+++-पलाश–पद्म-पत्रेषु भुञ्जीत ।
वटाश्वत्थार्क-कुम्भी-तिन्दुक-कोविदारोदुम्बर–वल्ली-पलाश–स्थल-ज-पद्म-पत्रेषु न भुञ्जीत ।
तथा कदली-गर्भ-पत्रे हस्ते पाषाणे पत्र-पृष्ठे वस्त्रे च न भुञ्जीत ।

वेषः

तथा मुक्तशिखः प्रसारित-पादो वस्त्राद्यावृत-देहः
कटि-बद्ध–शिरो-धृत–स्कन्ध-निक्षिप्त–पार्श्व-निक्षिप्तासनीकृतोत्तरीयश् च न भुञ्जीत ।
उत्तरीयं यज्ञ-सूत्र-समान-सन्निवेशं धृत्वा भुञ्जीत।

पानम्

तीर्थ-पात्रं पुमान् दक्षिणभागे स्थापयेत् ; नारी तु वामतः। तीर्थ-पात्रं मुखात् षडङ्गुलम् उद्धृत्य पिबेत् ।
आयसेन अन्यदीयेन भगवत्-संबन्धिना चक्रादि-चिह्नवता च पात्रेण न पिबेत् ।
दक्षिण-भाग-स्थं पान-पात्रं कक्ष-प्रदेश-द्वारा नाददीत ।

सकृत् पीतशेषं न पुनः पिबेत् । भोजन-भिन्न-काले वाम-हस्तेन न पिबेत् । नाञ्जलिना पिबेत् , न तिष्ठंश् च । न कदाऽप्य् अन्येन तोयम् आस्ये दापयेत् ।

हस्तौ

भोजन-काले मध्ये विरामेऽपि हस्तं पात्र एव निदधद् वर्तेत, न दक्षिणजानुनि ।
भोजन-काले वाम-हस्त-तलं भूमाव् ऊरु-प्रदेशे च न निदध्यात् ।
तोय-पानाय शुद्धमेव रक्षेत ।
अङ्गानि न स्पृशेत् ।

शब्दः

आप्राणाहुति मौनी भवेत् ।
अनन्तरम् अप्य् अतिथि-सद्भावे तद्-उपचारायैव वाचं विसृजेत् ।
न वृथाजल्पं कुर्यात् ।

अन्नादीनां गुणं दोषं वा न कथयेत् ।

सर्वम् अ-शब्दं भुञ्जीत ! यस्य भक्षणे शब्दो ऽवश्यम् भावी, न तत्र विषये दोषः।

प्राणाहुतिः

प्राणाहुतिकाले दन्तसंबन्धम् अन्नस्य न कारयेत् ।

कवलम्

व्यञ्जनोपदंशनादिक भुक्त-शिष्टं पात्रे न निक्षिपेत् ।
हस्तोद्धृतं निरवशेष भुञ्जीत ।

आपोशनम्

पात्रस्थम् अन्नम् आपोशनात् पूर्वं न स्पृशेत् ।

आदाव् अन्ते च पाद्य-तोयेनैवापोशनं कुर्यात् ।
परिषेचन-तोयावशेषेण आपोशनं न कुर्यात् ।
आपोशनं हस्तस्य प्रक्षालनं लेहनं धूननं वा कृत्वा न स्वीकुर्यात्॥

प्रकीर्णम्

भोजनाङ्गाचमने कृते, यद्यन्यः प्रणमेत्, तदा पुनराचामेत् ।
कुक्कुटासन-संस्थितः एकपादेन भूमिं स्पृशन् वा भुञ्जीत ।

प्राणाहुत्य्-अनन्तरं वाम-भाग एव हस्तं प्रक्षालयेत् ।

भुक्ति-काले जृम्भण-निष्ठीवनादिकं न कुर्यात् ।

अन्यं स्पृशन् न भुञ्जीत।

प्राणाहुति-शेष-सम्बन्धः

प्राणाहुतेः पूर्वम् आज्य-संबन्धे,
अनन्तरम् उच्छिष्टे निषेच्य,
तद्-उपयोगे+++(=??)+++ ऽपि न दोषः ।
अन्यथा तु दोषः ।

प्राणाहुति-कालिकान्न-शेषे पात्रे सत्य् एव
+अनन्तरम् अन्नं परिवेषयेत् ।

तेन तन्-मिश्रीकृत्य भुञ्जीत ।
एवं तद्-अन्नशेषे सत्य् एव पुनः परिवेषणम् ।

परिवेषणम्

अपक्वान् तैल-पक्वांश् च दर्व्या न दद्यात् ।
अन्यान् पदार्थान् हस्तेन न दद्यात् ।
आयसपात्रेण किमपि न दद्यात् ।

लवणादि

भगवन्-निवेदनानन्तरं पदार्थान् लवणादिभिः न संस्कुर्यात् ।
भागवतार्थं संस्कारो न दोषाय ।
तद्-ज्ञाने भागवतः प्रतिषेधेत् ।
भोजन-काले लवणं न पश्येत् ।

दीपनाशे

भुक्तिमध्ये दीप नाशे तदारोपणावधि भुक्ति-पात्रे हस्तं निदधद् वर्तेत ।
अनन्तरम् अपि पात्रस्थम् एव भुञ्जीत ।