१५ भगवद्-आराधन-प्रकरणम्

अवश्यंकार्यता

तृतीय-काले
अहो-रात्र-कर्तव्य-भगवत्-परिचर्या-प्रधान-भूतं स्वार्चाराधनं
प्रतिदिनं सन्ध्योपासनवद् अवश्यं कुर्यात् ।

अनुकल्पाः

केनचित् निमित्तेन तत्र करणाशक्तौ
भोजनात् पूर्वं यदा-कदाचित् कुर्यात् ।

इयं च स्वार्चा-पूजा पाक-भाण्डैक्येऽपि
पितृ-पुत्रादिभिर् अपि प्रत्येका कार्या । अत्यन्ताशक्तौ एकस्मिन् गृहय् एकेन क्रियमाणायां
तुलसी-पुष्प-गन्धाद्य्-उपकरण-संपादनादिना तत्-साहाय्यं यथा-शक्ति विधाय
तद्-अभिषेक-तोयादिकम् उपयुज्यैवान्ये भुञ्जीरन्।
तदाऽपि हृद्-याग-मात्रं प्रत्येकं कुर्युः ।

अन्यथा प्रत्यवायेन गृह्येरन् ।
स्वार्चाराधनस्य तद्-अनुकल्पस्य वा ऽकरणे
न केवलं प्रत्यवायः,
अपि तु कर्मान्तरानुष्ठानानर्हता,
स्वेन क्रियमाणानां भगवद्-आलयादि-विषयक-विविध-कैङ्कर्यातिथ्याराधन-दान–
श्री-रामायण-गीतादि-पठन-प्रवचनादीनां निष्फलता च स्याताम् ।

अशक्ताव् अतिसंग्रहेण वा कार्यम् एक-काल-मात्रम्।

अन्य-देश-गमने प्राप्ते ऽपि स्वार्चया सहैव गन्तव्यम् ॥

क्रमः

याग-गृहस्य गोमयोपलेप-संमार्जन-रङ्गवल्य्-आदिकं
प्रहृष्ट-मानसः स्वयम् एव कुर्यात् ।
अशक्तस् तु शुद्धेन भक्तेन कारयेत् ।

आराधनारम्भे मूल-मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
एकैकस्मिन् प्राणायामे अष्टाविंशति कृत्वो मूल-मन्त्रम् आवर्तयेत् ।
अ-शक्ति-तर-तम-भाव-वशात्
द्वादश-कृत्वः त्रिर् वा मन्त्रावृत्ताव् अपि न दोषः ।

एवं सकृत्प्राणायामेऽपि न दोषः ।
तदा अष्टाविंशति-कृत्वो द्वाद-शकृत्वो वा मन्त्रावृत्तिर् उचिता ।

अनन्तरम् अञ्जलिं बद्ध्वा
‘कृतं च’ इत्यादिना सङ्कल्पश् च
“केषु कर्मसु” इत्यत्र “एषु” इत्य् अयम् अंशः आह्निकार्थ-दर्पणे द्रष्टव्यः ।

सङ्क्षेपः

यदा देश-काल-वैगुण्यादिना अति-संग्रहेण आराधनं कर्तुम् ईहते,
तदा आराधनं संकल्प्य,
‘भगवानेव …………प्रतिपादयति’ इत्य् अनुसन्धाय
हृद्-यागम् आरभ्य कुर्यात् ।

अन्यदा श्रीमद्-आह्निकानुगृहीत-रीत्या लघ्व्-आह्निकोक्त-रीत्या वा
स्वशक्तिम् आलोच्य कुर्यात् ।

पात्रसङ्क्षेपः

यदा ऽपेक्षित-यावत्-पात्रालाभेन पात्र-द्वयेनाऽऽराधनं कर्तुम् ईहते,
तदा एकस्मिन् पात्रे तोयम् उत्-पूर्य,
गन्ध-पुष्पादिकं निक्षिप्य,
मूल-मन्त्रेणाभिमन्त्र्य,
‘अर्घ्यं’, ‘पाद्यं’ इत्यादि-विशेष-निर्देश-मन्तरा,
‘ओं नमो भगवते दिव्यं तोयं परिकल्पयामि’ इति सामान्येन परिकल्प्य,
तदा तदा उद्धरिण्या तोयम् आदाय,
‘भगवन् इदम् अर्घ्यम् अवलोकय’, ‘पाद्यम् अवलोकय’ इत्य्-एवं-रीत्या प्रदर्शनादिकं कृत्वा, समर्पयेत् । तत्-तच्-छेषम् अन्यस्मिन् पात्रे प्रक्षिपेत् ॥

सुरभिमुद्रा

सुरभिमुद्रा नाम—
दक्षिण-मध्यमाङ्गुलिं वाम-तर्जनी-मध्यमयोर् मध्ये वामहस्ते संकोच्य,
वामानामिकां दक्षिणानामिकाकनिष्ठिकयोमध्ये दक्षिणहस्ते संकोच्य,
अङ्गुष्ठ-द्वयस्य, तर्जनी-द्वयस्य, दक्षिणानामिका-वाम-मध्यमयोः, कनिष्ठिकाद्वयस्य च
परस्पर-संश्लिष्टतया प्रसारणम् ।
एतन्-मुद्रा-प्रदर्शनेन सर्वं संस्कृत्यैव भगवते दद्यात् ॥

ग्रासमुद्रा

ग्रास-मुद्रा नाम-
उत्तानस्य दक्षिण-कर-तलस्य मध्यमानामिकयोः तृतीय-पर्वणि तदीयाङ्गुष्ठाग्र-संबन्धः । पञ्चानाम् अगुलीनाम् अग्र-भाग-संयोजनं - सा इति पक्षान्तरम् ॥

निर्देशः

सर्वान् अप्युपचारान् ,
“भगवन् ! अर्घ्यम् अवलोकय, प्रतिगृह्णीष्व” इत्य्-एवं-रीत्या
तत्-तन्-नाम-निर्देश-पूर्वकं प्रदर्शन-प्रार्थने कृत्वा
मूल-मन्त्रम् उच्चार्य दद्यात् ।

अथवा प्रथमं मन्त्रम् उच्चार्य,
क्रमेण प्रदर्शन-प्रदानानि कुर्यात् ।

यद् वा प्रथमं मन्त्रम् उच्चार्य
क्रमेण प्रदर्शन-प्रदाने कृत्वा
पुनर् मन्त्रम् उच्चार्य उपचारं दद्यात् ।

अत्र प्रथमः पक्षो युक्तिमान् प्रमाण-स्वारस्यवांश् च ।

अनन्तरं, “क्षमस्व प्रीयताम्” इति क्षामण-प्रीणने कुर्यात् ।
अ-शक्तस्य क्षामण-प्रीणनयोस् तत्-तद्-आसनान्ते तन्त्रेण करणेऽपि न दोषः ॥

घण्टा

शास्त्रोक्तरीत्या प्रतिष्ठितां घण्टां
भगवत्-कवाटोद्घाटने तत्-तद्-आसन-समर्पणे,
अर्घ्य-धूप-दीप-प्रदाने, स्नापने, निवेदने, कर्पूर-नीराजने, अवसाने, कवाटापिधाने च नादयेत् ।

तत्र कवाटोद्घाटनार्घ्य-धूप-दीप-प्रदान–स्नपनावसरेषु एकपार्श्वेन नादयेत् ।
अन्यत्र (आसन-समर्पण-निवेदन-नीराजन-कवाटापिधानावसरेषु) पार्श्व-द्वयेन नादयेत् ।

तत्र दक्षिण-हस्तेन घण्टां नादयित्वा कवाटोद्घाटन-पिधाने कुर्यात् ।
कवाटोद्घाटनापिधाने निश्शब्दं कुर्यात् ।
आसनानि च तथैव समर्पयेत् ।

अन्यत्र वामेन नादयेत् , दक्षिणस्य व्यापृतत्वात् ।
यदा वामेन नादयति,
तदा ऽपि न वामेन ताम् आददीत ;
अपि तु दक्षिणेन आदाय वामेन गृहीत्वा नादयेत् ।

अन्तेऽपि दक्षिणेन गृहीत्वैव वेदिकायां निक्षिपेत् ।
न कदाऽपि ग्रहण-निक्षेपौ वामेन कुर्यात् ॥

शोषणम्

स्नापनानन्तरं शुष्कं खण्ड-वस्त्रं त्रिगुणी-कृत्य
वाम-हस्ते निधाय
दक्षिणेन सालग्राम-शिलां तत्र स्थापयित्वा परिमार्जयेत् ।
जल-निस्रावार्थं सालग्राम-शिलां न धुनुयात्,
न वाऽधो-मुखीं कुर्यात् ।
जलकणापनोदनाय न वदने वस्त्रं प्रवेशयेत् ।

दीपः

गृहस्थो दीपं विना नाराधनं कुर्यात् ।
दीपार्थे गो-घृतम् उत्तमम् , मध्यमं तिल-तैलम् ;
एरण्ड-पुन्नाग-पिचुमन्द-कुन्द-मधूक-नालिकेर-काष्ठोद्भवानि तैलानि वर्जयेत्,
अजा-महिषादि-घृतं च ।

दीप-तैलं तद्-धर्तिकां च हस्तेन न स्पृशेत् ।
स्पर्शे स्नायात् ।

भगवद्-भागवत-प्रणामे हस्तं न शोधयेत् ॥

षोडशोपचाराः

षोडशोपचारास् तु
आसनार्घ्य-पाद्याचमन- वस्त्र-भूषण-यज्ञोपवीत-
गन्ध-पुष्प-धूप-दीप-
नैवेद्य-करानुलेप-ताम्बूल-
प्रदक्षिण-प्रणामाः ।

अनेक-सत्त्वेऽपि प्रधानत्वाद् एते अवश्यं समर्पणीयाः।
एतेषु यस्यालाभः, तं सर्वार्थ-तोयेन समर्पयेत् ।

क्वचित् प्रकारान्तरेणापि षोडशोपचार-परिगणनं कृतम् ।

अत्रायम् उपचार-समर्पण-क्रमः क्वचित्–
तत्-स्वरूपं च भगवद्-भाष्यकारादि-पूर्वाचार्याह्निक-ग्रन्थेभ्यः प्रतीयते ।

प्रथमे मन्त्रासने

पादुकादानम्,
अर्घ्य–हस्त-शाटिका-दाने,
पादयोः पुष्प-दानं, तत्-संवाहनं, पाद्य-दानं, वस्त्रेण पादसंमार्जनं, तयोर् गन्ध-पुष्प-दानम्,
आचमन-दानं,
गन्ध-पुष्प-धूप-दीपाचमन–मुख-वास–ताम्बूलादि-दानम्,
आत्मात्मीयस्य नित्य-किङ्करत्वेन निवेदनञ् च ।

द्वितीये स्नानासने

प्रणामः, पादुकादानं,
पूर्व-धृत-मालादेर् विष्वक्सेनाय समर्पणं,
स्नान-शाटिका-प्रदानं, पाद्याचमनीय–पाद-पीठ–दन्त-काष्ठ-द्वय-दानं,
जिह्वा-निर्लेहनं, गण्डूषार्थ-तोय-प्रदानं, मुख-प्रक्षालनम् , आचमन-दानम् , आदर्श-प्रदर्शनं,
हस्त-प्रक्षालनं, मुख-वास–ताम्बूल-दानं,
चम्पकाद्य्-अधिवासित-तैलेन +अभ्यञ्जनं, सुगन्ध्य्-उद्वर्तन-दानं, चामरादिभिर् वीजनं, गात्र-मर्दनं,
शिरस्-तैल-शोधक-चूर्ण–लोध्र-कल्क-पिण्याकादि-दानम् , आमलक-तोयेन शिरस्य् अभिषेचनं, प्लोत-वस्त्रेण केश-संवेष्टनं,
माष-पिष्ट-विविध-चूर्णादिभिः देह-शोधनम् , निर्मल-जलैर् देहाभिषेचनं,

शाटिका-प्रदानं, हरिद्रा-लेपनं, देहाभिषेचनं,
वस्त्र-प्रदानं, निर्मली-कृते तस्मिन्न् एवासने उपवेशनं, उत्तरीय-यज्ञोपवीत-पाद्याचमन-पवित्र-गन्ध-पुष्प-धूप-दीपाचमन-प्रदानं,
नृत्त-गीत-वाद्यादि-युक्ताभिषेक-दानं, नी-राजनम् , आचमनं,
देह-शोधनाय प्लोत-वस्त्रदानम् , उत्तरीय-यज्ञोपवीताचमन-दानम् ,

उशीर-कूर्चेन भगवद्-विग्रहस्य निर्मली-करणं (कूर्च-प्रसारणं),
पुनर् अभिषेक-प्रदानं ; नीराजनम् , आचमनं,
देह-शोधनाय प्लोत-वस्त्र-दानम् , उत्तरीयोपवीताचमन-दानम् ,
अंस-द्वयोपरि केशाधार-क्षौमास्तरणं, तस्मिन् केश-प्रसारणं केशानां धूपैर् अधि-वासनं, शिखा-बन्धनं च ॥

तृतीये अलङ्कारासने

पादुकादानम् ,
अर्घ्य-पाद्याचमनीय-दानं, हिम-जल-सिक्तेन चन्दन-कुङ्कुम-कर्पूरादि-क्षोदेन भगवतः सर्वाङ्गानुलेपनं (गन्ध-संमर्दनं),
ताल-वृन्तादिना वीजनं, पीताम्बरोत्तरीय-भूषण-यज्ञोपवीताचमनीय-दानं,
गन्ध-पुष्पालङ्कार–केश-स्रग्–ऊर्ध्व-पुण्ड्राञ्जन-दानम् ,
आदर्श-प्रदर्शनं,
धूप-दीपाचमन-प्रदानं, ध्वज-च्छत्र-चामर-वाहन-दानं,
शङ्ख-चिह्न-काहल-भेर्य्-आदि–सकल-वाद्य-नृत्त-गीताभिर् अर्चनम् ,
मूलमन्त्रेण तद्-अक्षरैश् च पुष्पदानम् , अन्यैश् च भगवन्-मन्त्रैः तत्-प्रदानं,
प्रणामः, प्रतिदिशं पुष्पाञ्जलि-प्रदानं,
स्तवनम्,
आत्मनो नित्य-किङ्करत्वेन निवेदनं,
तथैव ध्यानं, मूल-मन्त्र-जपः, मात्रादानं, मुख-वास-ताम्बूलयोर् दानम् , अर्घ्य-प्रदानं च ॥

चतुर्थे भोज्यासने

पादुकादानं,
पाद्याचमनीयार्हण-दानं, मधुपर्काचमन-दानं,
गो-सुवर्ण-रत्न-दानम्, अर्हण-दानं,
प्रार्थना-पूर्वकं सव्यञ्जनान्न-निवेदनम् , अनु-पान-तर्पण-दानं,
हस्त-प्रक्षालनम् , आचमन-प्रदानं, प्लोतेन हस्त-संमार्जनं, चन्दनेन हस्तानुलेपनं,
मुख-वास–ताम्बूलयोर् दानं, प्रणामश् च ॥

पञ्चमे पुनः मन्त्रासने

पादुकादानं, पाद्याचमन-गन्ध-पुष्प-धूप-दीपाचमन-दानम् ,
अपूप-फल-निवेदनं, पानीय-दानम् , आचमन–मुख-वास–ताम्बूल-दानं,
नृत्त-गीत-वाद्य्-आदिभिर् अर्चनं, प्रदक्षिण-प्रणामौ च ।

षष्ठे पर्यङ्कासने

पादुकादानं,
पाद्याचमन-दानं,
मालादीनां विष्वक्सेनाय दानं, सुख-स्पर्श-वस्त्र–लघु-तर-भूषणोपवीताचमन-दानं,
गन्ध-पुष्प-धूप-दीपाचमन–मुख-वास–ताम्बूल-दानं,
यथाशक्ति स्तवनं च इति ।

समाप्तिः

अनन्तरं सात्त्विक-त्याग-समर्पणे कृत्वा,
विष्वक्सेनम् अभ्यर्च्य,
भगवन्तम् अष्टाङ्गेन प्रणम्य,
इज्या-मध्ये संभावितापराधादि-परिहाराय शरणं गच्छेत् ।
अनन्तरं भगवते अर्घ्यं दद्यात् ।

शरणागतिश् चात्र प्रातर् अभिगमनोक्त-प्रपत्ति-प्रयोगं पर्यालोच्य ऊहेनानुष्टेया ।

सालग्रामशिलायामपि शुभाश्रयं ध्यात्वैव पूजायाः कर्तव्यत्वविधानात् , सर्वेऽप्युपचारा यथासंभवं मनसा बाह्यतश्च कर्तव्याः । केवलदृष्टफलकानां तिन्त्रिणीरसात्मकोद्वर्तनादीनामर्थसामर्थ्यात् तत्र निवृत्तिः । पिष्टाद्यात्मकं तु तन्मनसा समर्पणीयम् ॥

अशक्तस्य तु लघ्वाह्निकोक्तरीत्या
तत्-तद्-आसनेषु कतिपयोपचार-समर्पणेऽपि न दोषः।

व्यत्यासाः

अत्र यद्य् अपि नित्य-ग्रन्थादौ स्नानासने
प्रथमं मालादीनां विष्कक्सेनाय समर्पणं,
ततः स्नान-शाटिका-दानं, पश्चात् पाद्याचमनादि-प्रदानम् इति क्रमः प्रतीयते,
तथाऽपि केषांचित् पूर्वषाम् उक्तिं, कञ्चन युक्तिलेशं चानुसृत्य, लघ्वाह्निके किञ्चित् व्यत्यासः कृतः ।

तथा तत्रैवासने ऽभिषेकानन्तरम् एव नीराजन-दान-प्रतीताव् अपि
प्लोतेन परिमार्जनानन्तरं तद् उक्तं,
पाद्यं चाधिकम् उक्तम् ।
अत्रापि स एव हेतुर् अनुसन्धेयः ।

एवं अलङ्कारासने गन्धाद्य्-अनन्तरम्
ऊर्ध्व-पुण्ड्र-प्रतीताव् अपि लोक-रीतिम् अनुसृत्य
ततः पूर्वम् एव लघ्व्-आह्निके तत्-समर्पणम् उक्तम् ।
नैतावता पूर्वाचार्य-ग्रन्थ-विरोधः शङ्कनीयः,
तत्-क्रमादेर् अप्य् अस्माकम् अभिमत-तमत्वात् ॥

(एवं सन्ध्योपासन-प्रकरणेऽपि दिग्-आदि-नमस्कारे
यद्यपि, “दक्षिणायै दिशे नमः” इत्य् एव सर्वैर् अनुसन्धीयते, श्रूयते च,
“नमो दक्षिणायै दिशे” इति आरुण-द्वितीय-प्रश्नान्ते,
तथाऽपि तस्य वाक्यस्य,
सर्वैः पठ्यमानस्य दिङ्-नमस्कार-वाक्यस्य
चात्यन्त-वैषम्येनास्य मन्त्र-रूपत्वासंभवेन वाक्यान्तरत्वावश्यम्-भावात्
व्याकरण-स्मृतिम् अनुसृत्य ‘दक्षिणस्यै’ इत्य् अनुसन्धानम् उचितम् इति तथैवोक्तम् ।
नैतावता प्रमाण-विरोधः शङ्कनीयः ।
एवम् अन्यत्रापि भेद-प्रतीति-स्थले गमकं स्वयम् एव +ऊह्यम् ॥)

अनेक-निमित्त-संभवे

एकस्मिन् दिने
श्रवण-सङक्रमण-द्वादशी-ग्रहण–स्वाचार्य-जन्म-नक्षत्राद्य्-अनेक-निमित्त-संभवे
शक्तौ यथानिमित्तोत्पत्ति तत्-तन्-नैमित्तिकाराधनानि कुर्यात् ।
अशक्तस् तु प्रधानम् एकं तत्-काले कृत्वा
अन्यानि तत्-तत्-कालेषु हृद्-याग-रूपाणि कुर्यात् ।

अनेक-निमित्त-यौगपद्ये शक्तः तस्मिन्न् एव काले सर्वाणि कुर्यात् ।
इतरस् तु एकं सङ्कल्प्य
पुनर्-मन्त्रासनान्तं कृत्वा
प्रत्येकं तत्-तद्-आराधनं सङ्कल्प्य,
प्रत्य्-आराधनम् अर्घ्य-पाद्याचमनीय-गन्ध-पुष्प-धूप-दीप-नैवेद्य-पानीयाचमन-रूपान् दशोपचारान् समर्प्य
पर्यङ्कासनं दत्वा पूर्व-सङ्कल्पिताराधनं समापयेत् ।

नित्य-नैमित्तिक-सन्निपाते

नित्याराधनकाले एकानेक-नैमित्तिक-प्रसक्तौ
नैमित्तिकेनैव नित्य-सिद्धिः ।+++(4)+++
तदा तत्-तन्-नैमित्तिक-मात्र-सङ्कल्प एव युक्तः ।
अत्र शक्त-विषये नित्यस्य पृथग् अनुष्ठानं केचिद् इच्छन्ति ।

‘गुरु-जन्म-नक्षत्र-प्रयुक्त-वैशेषिक-भगवदाराधनेन भगवत्-कर्मणा
श्रवण-नक्षत्र-प्रयुक्त-वैशेषिक-भगवदाराधनेन भगवत्-कर्मणा
तन्त्रेण भगवन्तं वासुदेवं अर्चयिष्यामि’

इति सङ्कल्पं कुर्यात् ।
“तन्त्रेण सिद्धि-स्थले कर्मणो ऽनेकात्मकत्वस्यानुसन्धेयत्वात्” इति केचिद् वदन्ति ।
केचित् तु वैशेषिकाराधने,
“इदं वैशेषिकारधनं करिष्ये’ इति प्रथमं सङ्कल्प्य,
अनन्तरं भगवच्-छास्त्रोक्त-सङ्कल्पः कार्य इति वदन्ति ।

ग्रहण-दुष्ट-यामेषु निमित्तान्तर-प्रयुक्तम् आराधनं न कुर्यात् ।

भूत-शुद्धिः

एकस्मिन् दिने सकृद् एव भूत-शुद्धिं कुर्यात् ।
मध्ये भोजने मल-विसर्जने च सति
पुनर् अपि कुर्यात् ॥

भगवत्तीर्थम्

भगवद्-अभिषेक-तोयं पात्रान्तरे किञ्चिन् निस्राव्य तेन पिबेत्,
न भगवद्-अर्होद्धरिण्य्-आदिना ।
यदा पात्रान्तरालाभः,
तदा दक्षिण-हस्तेन उद्धरिण्या तोयम् आदाय
उद्धरिणीं वाम-हस्तेन गृहीत्वा तोयं दक्षिण-हस्ते प्रच्याव्य,
उद्धरिणीं निधाय, चुलकेन+++(←चुल उन्नतौ)+++ पिबेत् ।
न वाम-हस्तेन उद्धरिण्या तोयम् आदद्यात् ।
न तस्यां वाम-गतायां पिबेद् वा।
भगवत्तीर्थं पीत्वा हस्तं न प्रक्षालयेत् ॥