१४ इज्या-प्रकरणम्

शुद्धोऽपि माध्याह्निक-स्नानम् अवश्यं कुर्यात् ।

अशक्तौ आर्द्रवस्त्रेण देहं संमृज्य
तस्मिन्न् एव दिने शोषितं वस्त्रं धृत्वा
मान्त्र-मानसे स्नाने कृत्वा
माध्याहिक-सन्ध्योपासनादिकं कुर्यात्।

अन्यदीय-वस्त्रम् , रात्राव् उपयुक्तं कम्बलादिकं, गोणीं,
सूत्रं, पत्रिकां, शय्याम्, उपधानं,
बालं, कन्यकां, नारीं,
कन्थां, पूर्व-दिन-शोषित-वस्त्रम्,
अशुद्धत्वेन शिष्ट-संमतम् अन्यच् च वस्तु स्पृष्ट्वा
न भगवद्-आराधनादिकं कुर्यात् ।
तत्स्पर्शे स्नानम् एव कुर्यात् ।

प्रातःकाल-कृत्येषु अव्यवहित-पूर्व-दिन-वस्त्र-धारणे न दोषः ।

एवं सुप्त्वा रुदित्वा च न कर्माणि कुर्वीत ; स्नात्वैव कुर्वीत ।
अत्यन्ताशक्तस्य उक्त-निमित्त-संभवे मान्त्रं मानसं च स्नानं भवेत् ।
किञ्चित् शक्तौ उष्णोदक-स्नानम् ॥

व्योम-मुद्रा नाम-
प्रसारित-तर्जनी-कनिष्ठिके
सङ्कोचित-मध्यमानामिके
उत्ताने वामकरतले
तथा-विधाङ्गुलीकं दक्षिण-करतलम् अधोमुखं निधाय
दक्षिण-तर्जन्य्-उपरि प्रसारिते वाममध्यमानामिके दक्षिणाङ्गुष्ठेनावष्टभ्य
वाम-तर्जनी-पृष्ठ-भागे प्रसारितयोर्
दक्षिण-मध्यमानामिकयोः वामाङ्गुष्ठेनावष्टम्भनम् ॥