अस्मिन्न् उपादान-काले
भगवद्-आराधनोपयोगीनि तुलसी-पुष्प-चन्दनादीनि
न्याय्येन पथा यथाशक्ति स्वयम् एव हृष्ट-मनाः संपादयेत् ।
अ-शक्तस्तु
परि-शुद्धैः स्व-धर्म-निरतैर् यथा-शक्ति-दानेन तोषितैः श्रीवैष्णवैः संपादयेत् ।
पतित-पाषण्ड-नपुंसक-चोरानुपनीत–पञ्च-संस्कार-रहित-
स्त्री-शूद्र–भक्ति-रहितादिभिर् न कदाऽपि संपादयेत् ।
पूर्वोक्त-श्री-वैष्णवालाभे स्वस्याप्य् अशक्तौ तोयेनैव गृहस्थोऽपि परिपूर्णं भगवन्तम् आराधयेत् ।
तुलस्य्-अभावे सप्त-कृत्वः तन्-नाम संकीर्तयेत् ।
समित्-कुशादिकम् अप्य् अयोग्य-मुखान् न संपादयेत् ।
पूर्वोक्ता अपि श्रीवैष्णवाः उपादान-काले एव तानि संपाद्य यजमानाय दद्युः ।
तुलस्यादिकम् एरण्ड-पत्रे हस्ते वस्त्रे च नाहरेत् ।
पद्मोत्पलादीनां जलजानां दिन-द्वयं शुद्धिः ।
स्थल-जानां मल्ली-कुसुमादीनाम् एक-दिनं शुद्धिः ।
स्थल-जानाम् अपि ग्रथितत्वे दिन-द्वयं शुद्धिः ।
सूत्राग्रथित-कुसुमं, वालुका-संबन्ध-हीन-तोयं, तैल-संबन्ध-शून्यम् अन्यत्र च परदिने अशुद्धं स्यात् ।
अतः पर-दिनोपयोगार्थ पूर्व-दिने उदकाहरणे घटे प्रस्रुति-मात्रां वालुकां निक्षिपेत् ।
हस्त-धृत-तुलस्यादिको न पादौ प्रक्षालयेत् ।
नान्यं प्रणमेत् ।
तथा-विधम् अन्यश् च न प्रणमेत् ।
प्रक्षालने प्रणामे च तद्-वस्तु परित्यजेत् ।
एवं बाह्यम् उपकरणं यथा-शक्ति संपाद्य,
आन्तरोपकरणम् आत्म-गुण-जातं
परम-भागवत-संभाषणादिना
वेदान्त-ग्रन्थावलोकनादिना चावश्यं संपादयेत् ।
उभय-संपादनाशक्तौ आन्तरमेव संपादयेत्।