औपासनानन्तरं स्वार्चा-गृहं गत्वा
गुरु-परम्पराम् अनुसन्धाय
द्वार-पाल-प्रणाम-पूर्वकं
“कौसल्या” इत्यादिभिः भगवन्तं प्रबोध्य,
अभ्यर्च्य, प्रणम्य, द्वयम् +++(मन्त्रम्)+++ उच्चार्य,
सायम्-अभिगमन-पर्यन्त– माधव-चरणारविन्द-कैङ्कर्य-विरोधि–निवृत्ति-हेतु-भूतम्
आनुकूल्य-सङ्कल्पाद्य्-अङ्ग-पञ्चकोपेतं
+++(→आनुकूल्यसङ्कल्पः, प्रातिकूल्य-वर्जनम्, कार्पण्यम्, महाविश्वासः, गोप्तृत्व-वरणम्)+++
त्वच्-चरणाम्बु-ज-युगल-विषयकं प्रपदनं करोमि"
इति तद्-अर्थम् अनुसन्धाय
“उपायत्वोपयुक्त सकलाकार-विशिष्ट स्वामिन् !
इतः परं त्वद्-आज्ञानुवर्तन-रूपम् आनुकूल्यम् एव करिष्ये +++(इत्य् आनुकूल्यसङ्कल्पः)+++।
त्वद्-आज्ञातिवर्तन-रूपं प्रातिकूल्यं न करिष्ये +++(इति प्रातिकूल्य-वर्जनम्)+++।
सायम्-अभिगमन-पर्यन्त-त्वत्-कैङ्कर्य-विरोधि-निवर्तने
त्वां विना नैवास्ति साधनम् +++(इति कार्पण्यम्)+++।
त्वम् एव विरोधि-निवर्तक-गुरूपाय-निरपेक्षस् सन्
कैङ्कर्य-निर्वर्तन-रूपां रक्षां करिष्यसीति सु-दृढम् अध्यवस्यामि +++(इति महाविश्वासः)+++।
त्वम् एव कैङ्कर्य-निर्वर्तन-रूपां रक्षां कुरुष्व +++(इति गोप्तृत्व-वरणम्)+++।
देहादि-विलक्षणो ऽहं, मदीयञ् च
सर्व-स्वामिने श्रीमते नारायणाय तुभ्यम् एव; न मम ।
सायम् अभिगमन-पर्यन्त-कैङ्कर्य-विरोधि-निवर्तक-भरः
उपायत्वोपयुक्त-सकलाकार-विशिष्टाय श्रीमते नारायणाय तुभ्यम् एव ; न मम ।
एतत्-फलम् अपि प्रधान-फलिने श्रीमते नारायणाय तुभ्यम् एव; न मम !
इति साङ्ग-प्रपदनम् अनुष्ठाय
स्वीकृत-भरस्य श्रीमतः
कृपापरीवाह-रूपां
‘सायम्-अभिगमन-पर्यन्त-कैङ्कर्य-विरोधि-निवर्तने निस्-संशयः सुखम् आस्व’
इत्य् उक्तिं भावयित्वा
हृष्टः सन्
प्रणामान् कुर्यात् ।
अत्यन्ताशक्तस् तु लघ्वाह्निकोक्त-रीत्या प्रार्थनं कुर्यात् ॥