११ औपासन-प्रकरणम्

प्रतिदिनम् औपासनम् अवश्यं कुर्यात् ।

मृत्तिकां विना मासं मूत्रशौचे,
पक्षम् औपासनाकरणे,
सप्तदिनानि उष्णोदक-स्नाने च
ब्राह्मणः शूद्रतुल्यो भवेत् ।+++(5)+++

दानेन प्रत्यवायवारणम्

औपासनाशक्तौ तत्-तन्-मासावसाने
प्रस्थ-पञ्चक-परि-मित तण्डुलं
स्व-धर्म-निरताय दरिद्राय श्री-वैष्णवाय दद्यात् ;
वत्सरावसाने वा षष्टि-प्रस्थ-परिमितं तण्डुलम् ।

तण्डुल-दानस्याप्य् अभावे प्रत्यवायो दुष्परिहरः स्यात् ॥