१० भगवत्-सेवा-प्रकरणम्

प्रातः सायं वा दिव्य-देशवासी आलये भगवन्तं सेवेत ।

भगवत्-सन्निधौ, आचार्यादि-परम-भागवत-सन्निधौ च
हस्त-ताल-हास-रोदन–वृथा-जल्पाधोवायु-विसर्ग-निष्ठीवन-जृम्भणक्रोध-निद्रा-क्षुदादिकं न कुर्यात् ।

प्रदक्षिणं प्रणामञ् च समसंख्याकम् एव कुर्यात् ।
अत्र प्रणाम-संख्या-विषये वक्तव्यम् आह्निकार्थ-दर्पणे द्रष्टव्यम् ।
अन्यत्र हस्तं गृह्णन् सत्वरो ध्यान-हीनश् च न प्रदक्षिणं कुर्यात्।

शक्त्यादि-सत्त्वे दण्डप्रणामान् एव कुर्यात् । तद्-अभावे ऽष्टाङ्ग–प्रह्वाङ्ग–मस्तिष्क-संपुट–प्रणामेषु +एकं यथाशक्ति कुर्यात् ।
दण्डाष्टाङ्ग-प्रणामयोर् आदाव् अन्ते च प्रह्वाङ्गादि-त्रयम् अपि भवेत् ॥

एषु दण्ड-प्रणामो नाम भूमौ दण्डम् इव देहं निधाय,
पादौ हस्तौ च प्रसार्य
पादौ परस्पर-संयुक्तौ भूभागे कर-तलयोर् मुकुलवद्-अञ्जलित्व-करणम् ।

प्रह्वाङ्ग-मस्तिष्क-संपुटेषु यादृशः कराग्रयोः सन्निवेशः, तादृश एव अत्राप्य् अञ्जलित्व-नामा मुकुलवत् बन्धः।
तेषु तिष्ठता नन्त्रा मस्तक-हृदययोः अञ्जलिः क्रियते,
अत्र तु शयानेन भूमाव् इति +इयान् एव भेदः ।
संयुक्तयोः कर-तलयोर् भू-भागे प्रसारणम् एवात्र मुकुलवत्-बन्धः इति तु न ।

अत्र वक्तव्यं प्रमाणादिकं दर्पणे द्रष्टव्यम् ।

अष्टाङ्ग-प्रणामे ऽपि कराग्रयोर् अयम् एव सन्निवेशः ।
कूर्मवत् हस्त-पाद-सङ्कोचो भेदः ।

मस्तके अञ्जलिन्यासो मस्तिष्कम् । हृदये तन्-न्यासः संपुटम् । प्रह्वाङ्गस्य तस्मिन् तन्-न्यासः प्रह्वाङ्गम् ॥

भगवत्-सन्निधौ महतोऽपि पित्रादीन् अपि न प्रणमेत् ।
महा-भागवतश् चेत् तदानीम् एव दृष्टः, तं प्रणमेत् ।
स्वाचार्य-समवधाने तद्-अपि न कुर्यात् ।
स्वाचार्येण सह भगवद्-आलय-गमने स्वयं भगवन्तं न प्रणमेत् ।

व्रत-दिनेषु भगवत्-प्रसाद-लब्धम् अपि गन्ध-पुष्पादिकं नोपयुञ्जीत ।
सादरं गृहीत्वा तद्-अर्हेभ्यो दद्यात् ।

भगवद्-बिम्बस्य प्राङ्मुखत्वे दक्षिणा(भि)मुखत्वे च
तद्-दक्षिण-भागे दर्शन-जपादिकं कुर्यात् ।
उदङ्-मुखत्वे प्रत्यङ्-मुखत्वे च वाम-भागे दक्षिण-भागे वा स्थित्वा दर्शनादिकं कुर्यात् ।