तर्पणानि
स्वयं तत्-तद्-दिग्-अभिमुखो भूत्वा देव-र्षि-पितृ-तर्पणं कुर्यात् ;
न तु हस्त-मात्रं तत्-तद्-अभि-मुखं कुर्यात् ।
सर्वेषु तर्पणेषु जलाञ्जलिं गो-शृङ्ग-मात्रम् उद्धृत्य जलं क्षिपेत् ।
न्यासः
छन्दो-न्यासावसरे जिह्वायाः पुरतो ऽङ्गुलीः प्रदर्शयेत् ;
व्याहृति-प्रभृतीनाम् अङ्ग-न्यासावसरेऽपि नाभेर् अधः-प्रदेशे एवम् एव कुर्यात् ; न तु स्पृशेत् ।
प्रोक्षणे
“आपोहिष्ठा” इत्यादिना प्रोक्षणावसरे प्रथमं प्रणवादिना प्रोक्षणं न विस्मरेत् ।
राक्षसमुद्रा
हस्त-द्वयेऽपि तत्-तद्-अङ्गुष्ठ-तर्जन्योः परस्परसंबन्धो राक्षस-मुद्रा।
इयम् अर्घ्य-प्रदान-केशवादि-तर्पणादिषु वर्जनीया ।
जपः
+++(अर्घ्य-प्रदान-स्थानात्)+++ चत्वारिंशत्-पदाद् अर्वाग् एव जपं कुर्यात् , न तद्-ऊर्ध्वं गच्छेत् ।
प्रातः सूर्याभिमुखः तिष्ठन् गायत्रीं जपेत् ।
अत्यन्ताशक्तौ उदङ्-मुख आसीनो जपेत् ,
न तु प्राङ्मुख आसीनः ।
मध्याह्ने प्राङ्मुख उदङ्-मुखो वा तिष्ठन् जपेत् ।
अत्यन्ताशक्तौ आदित्ये पूर्व-दिग्भाग-गते प्राङ्मुख उदङ्-मुखो वा आसीनः
पश्चिम-दिग्-भाग-गते उदङ्-मुख आसीनो जपेत् ।
सायं प्रत्यङ्-मुख उद्ङ्-मुखो वा आसीन एव शक्तो ऽशक्तश् च जपेत् ।
गायत्री व्यतिरिक्तान् मन्त्रान् सर्वदा ऽऽसीन एव प्राङ्-मुख उदङ्-मुखो वा जपेत् ।
वस्त्रानाच्छादित-कर-युगलः, आच्छादितैक-करोम्, ऽवगुण्ठित-शिराः, धृत-कञ्चुकः, प्रावृत-कण्ठो, जल्पन् वा न जपेत् ।
देवालयसमीपे दिक्
देवालय-समीपे सन्ध्योपासने अर्घ्य-दान-जपोपस्थानानि भगवद्-अभिमुख एव कुर्यात् ।+++(4)+++
मन्त्राचमनादिकं तु प्राङ्-मुख उदङ्-मुखो वा देवस्य पृष्ठ-भाग-प्रदर्शन-वर्जं कुर्यात् ।
सर्व-दिङ्-नमस्कारम् अपि भगवदभिमुखम् एव कुर्यात् ।
अर्घ्य-दानानन्तर-कर्तव्यं प्रदक्षिणं देव-समीपेऽपि यथावत् कुर्यात् ।
आचार्य-भागवत-जलाग्नि-सूर्याश्वत्थ-देवालयादीन् पृष्ठीकृत्य न जपेत् ।
स्पर्शः
कर्म-काले नाभेर् अधोभाग-स्पर्शे हस्तं शोधयेत् ।
अशक्तौ दक्षिण श्रोत्रं स्पृशेत् ।
कदाऽप्य् ओष्ठ-पुटं न स्पृशेत् ।
स्पर्शे हस्त-शोधनम् एव कुर्यात् ।
एवम् एव गुद-लिङ्ग-पाद-स्पर्शेऽपि !
जप-काले करौ संहताङ्गुली परस्परम् असंयुक्तौ च कुर्यात् ।
जपकाले ‘वरेण्यम्’ इत्यत्र ‘वरेणियम्’ इति पठेत् ।
जपे करौ
प्रातर् नासिका-समौ,
मध्याह्ने वक्ष-स्थलसमौ,
सायं नाभिसमौ करौ कृत्वा जपेत् ।
जपे न्यासः, प्रोक्षणम्
सन्ध्या-त्रये ऽप्य् उपस्थान-काले “मित्रस्य”, “आ सत्येन”, “इमं मे” इति मन्त्राणाम् ऋष्यादि-न्यासम् अवश्यं कुर्यात् ।
तदा तदा तत् तज् जप-स्थलं व्याहृतिभिः प्रोक्ष्यैवोपरितनं कर्म कुर्यात् ।
उपस्थानम्
सन्ध्यादि-नमस्कारावसरे सन्ध्यानन्तरं गायत्रीं,
ततः सावित्रीं, तदनु सरस्वतीं च नमस्कुर्यात् ।
अष्टाक्षरजपादि
ततः सकृद् आचम्य, सात्त्विक-त्यागं कृत्वा, द्विराचम्य, अष्टाक्षरं जपेत् ।
अनन्तरम् आचमन-सात्त्विक-त्याग-समर्पणानि कृत्वा,
आधार-शक्त्यादि-तर्पणम् आरभेत ।
अस्य आचमनादिकं कृत्वा, देवर्षि-काण्डर्षि-पितृ-तर्पणं कुर्यात्।
अस्य तत्-सर्वं कृत्वा ब्रह्म-यज्ञम् आरभेत।
अत्र वक्तव्यं सर्वम् अस्मदीय-आह्निकार्थ-दर्पणे द्रष्टव्यम् ।
ब्रह्मयज्ञक्रमः
प्रातः ब्रह्म-यज्ञान्तानुष्ठानासंभवे,
सन्ध्योपासनम् अष्टाक्षर-जपं च तदा कृत्वा,
मध्याह्ने सन्ध्योपासनाष्टाक्षर-जपानन्तरं,
क्रमेण आधार-शक्त्यादि-तर्पण–देवादि-तर्पण-ब्रह्मयज्ञान् कुर्यात् ।
कदाचित् प्रातर् आधार-शक्त्य्-आदि-तर्पणान्त-करणे,
तदानीं देवादि-तर्पणं परित्यज्य,
मध्याह्ने सन्ध्योपासनाष्टाक्षर-जपानन्तरं ब्रह्मयज्ञं कृत्वा तदनन्तरं कुर्यात् ।
प्रातर् देवादि-तर्पणं मध्याह्ने ब्रह्म-यज्ञं च न कदाऽपि कुर्यात् ।
ब्रह्म-यज्ञ-काले आसीन एव पुरुष-सूक्तान्तं जपेत् ॥