०८ पुण्ड्रधारण-प्रकरणम्

प्राङ्-मुख उदङ्-मुखो वा आसीन एव पुण्ड्रान् धारयेत् ।
वाम-हस्ते प्रथमं श्वेत-मृत्तिकां निधाय अनन्तरं तां सिञ्चेत् ।

जले मुखं पश्यन् वा पवित्र-हस्तो वा उन्नतासन-गतो वा न धारयेत् ।

ललाटादि-स्थानेषु प्रथमम् अधोभागे धारयेत् ।
मध्ये मृद्-अपेक्षायां पूर्वाभिमन्त्रित-मृच्-छेषे सत्य् एव तां संपादयेत् ।
नखैः, वाम-हस्तेन, अङ्गुली-भिन्न-साधनेन वा न धारयेत्।
अन्येन स्वस्य पुण्ड्र-धारणं न कारयेत्।
ललाटे भ्रू-मध्य-भागम् आरभ्य केशान्तं धारयेत् ।
इषु-पात-मित-प्रदेश-वर्तिभिर् यथा ज्ञायेत, तथा प्रकृष्ट-प्रकाश-घनं धारयेत्॥