प्राङ्मुख उदङ्मुखो वा वस्त्रं धारयेत्।
कदाप्य् उत्तरीयम् अधः, अन्तरीयमुपरि च न धारयेत् ।
श्वेतं वस्त्रं धृत्वैव तत् तत् कर्म कुर्यात् ; न कम्बलादिकम् , न वा कुसुम्भादि+++(=कुङ्कुमपुष्पादि)+++रक्तं वस्त्रम् ।
अन्तरीयम्
आर्द्रम् अन्तरीयं कटि-देशाद् अवमुच्य
करेण परिशुद्धे स्थले त्यजेत् ।
न जले क्षिपेत् ।
त्यक्तं च मान्त्र-मानस-स्नानन्तरं
व्याहृतिभिः प्रोक्ष्य पार्श्वे निक्षिपेत् ।
प्रोक्षणात् पूर्वं न स्पृशेत् ।
पुरोभागे कच्छं धृत्वा
पृष्ठभागे धारयेत् ।
अन्तरीयाग्र-भागयोर् यथा दिनभेदेन व्यत्यासो न स्यात्,
तथा प्रथम-धारणानुसारेण धारयेत् ।
पुरस्ताद् वा पश्चाद् वा पुच्छ-कच्छं न कुर्यात् ॥
उत्तरीयम्
उत्तरीयाख्यम् ऊर्ध्व-वस्त्रं मलादि-विसर्जन–दन्त-धावन–वस्त्र-धारण-कालेषु शिरसि धारयेत्।
स्नानोर्ध्वपुण्ड्र-धारणोपस्थान–वीथ्यादि-गत-भगवद्-दर्शन–सर्व-विध-तर्पण–वस्त्र-निष्पीडन–श्राद्ध-प्रदक्षिण-प्रणाम-कालेषु कटौ प्रादक्षिण्येन धारयेत् ।
उत्तरीयाग्र-भाग-द्वयं यथा न दृश्येत,
यथा चान्तरीय-कच्छाच्छादनं न भवेत् ,
तथा कटौ धारयेत् ।
मन्त्र जप–ब्रह्म-यज्ञ–भगवद्-आराधन–भोजन–शुद्ध्य्-अर्थाचमन–होम-कालेषु भगवद्-आलये च यज्ञ-सूत्र-समान-सन्निवेशं धारयेत् ।
आचार्य-समवधाने अन्य-काले च कटौ वा सूत्रवद् वा धारयेत् । अन्यत्र संप्रतिपन्न-शिष्टानुष्ठानानुगुणं यथेच्छं धारयेत् ।
अत्र वक्तव्यं सर्वम् अस्मदीये वस्त्रोपवीत-प्रदीपाख्ये ग्रन्थे द्रष्टव्यम् ।
न कदाऽपि कण्ठम् उत्तरीयेणा ऽऽवारयेत् ।
स्रजम् इव न धारयेत् ।
उत्तरीये नोपविशेत् ।
अन्ये
वस्त्रेणाङ्गानि न वीजयेत् ।
क्षणम् अपि कच्छ-हीनो मुक्त-केशो वा न तिष्ठेत् ॥