स्नान-सङ्कल्प-सात्विक-त्यागौ +आसीन एव कुर्यात् ।
भगवदाराधन-मन्त्रजप-होम-ब्रह्मयज्ञ-श्राद्ध-स्नान-दान-योगानामारम्भे
गायत्री-जपारम्भावसानयोश् च प्राणायाम-त्रयं कार्यम्।
सन्ध्योपासनार्घ्य-प्रदानयोर् आरम्भे सकृत् कार्यम् ।
अन्यत्रापि प्रायशः सकृदेव ।
कुम्भकं कुर्वन्न् एव प्रत्येकं प्रणव-मिश्र-व्याहृति-सप्तक–सप्रणव-गायत्री–तच्-छिरांसि मनसा त्रिः पठित्वा
दक्षिणश्रोत्रं स्पृशेत् ।
अयमेकः प्राणायाम उच्यते ।
नद्यां प्रातः प्रवाहाभिमुखो, मध्याह्ने सूर्याभि-मुखश् च स्नायात् ।
अन्यत्र सूर्याभिमुख एव स्नायात् ।
स्थान-काले आर्द्र-वस्त्रेण मुखादि-मलापनोदनं न कुर्यात् ।
मलापनोदनाय पादयोः परस्पर-संघर्षं न कुर्यात् ।
नाभेर् अधो-भाग-मलापनोदनं वाम-हस्तेनैव कुर्यात्।
स्व-पृष्ठ-भाग-मलापनोदनम् अन्येन न कारयेत् ।
यज्ञ-सूत्रं निवीतं कृत्वा न शोधयेत्।
उपवीतं सूत्रं प्रादक्षिण्येन शोधयेत्।
स्त्री-शूद्र-पतितानुपनीत-रोगिष्ठ-पाषण्डाशुचि-प्रभृतिभिः सह न स्नायात् ।
अन्त्यावगाहात् पूर्वम् अङ्गुलिना तोयम् आदाय स्वाचार्य-पादोदकं तद् ध्यात्वा
तेन मूर्धानं सिञ्चेत् ।
एवं त्रिः कृत्वा स्वाचार्य-प्राचार्य-नामनी संकीर्त्य
अवगाहं कुर्यात् ।
श्रोत्र-द्वय-रन्ध्रे ऽङ्गुष्ठाभ्यां, नासिका-रन्ध्रे कनिष्ठिकाभ्यां च पिधाय अवगाहनं कुर्यात् ।
अनन्तरं शिखां विस्रस्य
शिरसि पुरोभागे लम्बयित्वा
तीरं गत्वा
द्विर् आचम्य
कुक्कुटवदासीनः शुष्कम् आर्द्रं वा वस्त्र-खण्डं शिरसि प्रसार्य
शिरः सम्मृज्य,
खण्डं प्रक्षाल्य
अङ्ग-मार्जनं कुर्यात् ।
केश-स्थ-जलापनोदनाय शिखां मुष्टिना न निष्पीडयेत् ।
तद्-अर्थे वस्त्र-खण्डेन शिखां न बध्नीयात् ।
अन्तरीयैकदेशेन उत्तरीयेण पाणिना वा नाङ्गानि मार्जयेत् ।
केशान् न धुनुयात् ।
केशान्तं शाट्या न ताडयेत् ।
यज्ञसूत्रं वस्त्रेण न मार्जयेत् ।
उरस्-संमार्जनावसरे उपवीतम् अन्यथा न कुर्यात् ।
शिखां मूल-भागे यथा-शास्त्रं बध्नीयात् , न +अग्रभागे॥